SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। सम्भवत्येव । “षष्ठी” (पा० सू० २।२।६) इति समासविधानाद् राज्ञः पुरुष इति च पक्षे वाक्यम् , तथापि तस्य न विग्रहत्वं भिन्नार्थत्वात् , किन्तूक्तस्यैवेति मीमांसकाः। तान् प्रसङ्गानिरस्यति आख्यातं तद्धितकृतोर्यत्किश्चिदुपदर्शकम् । गुणप्रधानभावादी तत्र दृष्टो विपर्ययः॥ ३५ ॥ तद्धितकृतोर्यत्किञ्चिदर्थबोधकं विवरणमाख्यातं, तत्र विपर्ययो दृष्टः । तथाहि-'आक्षिकः' 'कुम्भकारः' इत्यत्राक्षकरणकव्यापाराश्रयः, कुम्भोत्पत्त्यनुकूलन्यापाराश्रय इति बोधः। 'अर्दीव्यति' 'कुम्भं करोति' इत्यत्राक्षकरणिका देवानुकूला भावना, कुम्भोत्पत्त्यऽनुकूला भावनेति बोधः। कृत्प्रत्यये कारकाणामाख्याते च भावनायाः प्राधान्यं वदतो मीमांसकस्याऽपि गुणप्रधानाभावांशव्यत्यासो न विवरणत्वबाधक इति नात्र पाक्षिकस्य 'चित्रा गावो यस्य' इत्यादेविनहत्वे बाधकमस्तीति भावः ॥ ३५ ॥ नन्वस्तूक्तरीत्या सर्वत्र समासे शक्तिः, अस्तु च तथा विग्रहस्तथापिषष्ठीतत्पुरुषकर्मधारययोःशक्तिमत्त्वाविशेषान्निषादस्थपत्यधिक दर्पणः *उक्तस्यैवेति । चित्राणां गवामयमित्यादेरेवेत्यर्थः । एवकारेण प्रथमान्तचित्रादिपदघटितस्य व्यवच्छेदः । उपदर्शकपदस्य विवरणम्-*अर्थबोधकमिति । *आख्यातम् । तिङन्तम् । तत्र तिङन्तघटिते विवरणे इत्यर्थः । व्यत्यासमेवाह*तथाहीत्यादि। ___ ननु तत्रापि तिपः कर्तृलक्षकतयाऽक्षकरणकव्यापाराश्रय इति बोधान्न समानार्थकत्वमङ्गोऽत आह-*कृत्प्रत्यये इति* ॥ *कारकाणाम्*-कादीनाम् ॥ *प्राधान्यम्*मुख्यविशेष्यत्वम् । कारकाणां प्राधान्यं "प्रकृतिप्रत्ययार्थयोः” इति न्यायेन, भावनायास्तु-"भावप्रधानमाख्यातम्" इति निरुक्ताादति भावः ॥ ३५ ॥ परीक्षा *आख्यातमित्यादि । अत्राख्यातपदम्-तिङन्तपरम् । तच्च तिन्तघटिते विवरणे विपर्यायमुपपादयति-*तथा होत्यादिना* । * न विवरणत्वबाधक इति । तत्समानार्थकपदान्तरेण तदर्थकथनं हि विवरणम् , नतु तत्र समानविशेष्यकत्वस्य प्रवेशः ॥३६॥ *शक्तिमत्वेति । एका भावेत्यर्थः। *सिद्धान्तसिद्धिरिति । सिद्धान्तस्य निश्चितार्थस्य सिद्धिः । अनुष्ठानोपयोगिनी सिद्धिः । तत्र हि निषादस्थपति याजयेत्। इत्यत्र निषादस्थपतिशब्दः किं कर्मधारय उत षष्ठीतत्पुरुषोऽथवा .बहुव्रीहिरिति संशये कर्मधारयो न युक्तो निषादाभिन्नः स्थपतिरिति तदा स्यात् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy