SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७२ दर्पणपरीक्षासहिते भूषणसारेरणसिद्धान्तसिद्धिर्न स्यादित्यत आह पर्यवस्यच्छाब्दबोधाऽविदुरप्राक्क्षणस्थितेः ।। शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तम् ॥ ३६॥ पर्य्यवस्यश्चासौ शब्दबोधश्च तस्मादविदूरश्चासौ प्राक्क्षणश्च, तदानीन्तनलाघवमादायाऽधिकरणाऽविरोध इत्यर्थः। अयम्भाव:निषादस्थपतिपदस्य समासशक्तिपक्षे, निषादरूपेनिषादानाञ्च स्थपतौ निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्नानार्थत्वम् । ___ दर्पणः *शक्तिमत्त्वाविशेषादिति ॥शक्तिमत्त्वमेकार्थीभावः ॥ सिद्धान्तसिद्धिरिति । सिद्धान्तस्य मीमांसितार्थस्य सिद्धिरनुष्ठानोपयोगार्हत्वमित्यर्थः। तथाहि-"निषादस्थपति याजयेत्” इति श्रूयते । तत्र निषादस्थपतिशब्दः किं षष्ठीतत्पुरुषो बहुव्रीहिर्वोत कर्मधारय इति संशये, कर्मधारयेऽपूर्वविद्याध्ययनकल्पनागौरवाद् , बहुव्रीहौ वाक्यलक्षणायां गौरवाल्लाघवाऽभावात् षष्ठीतत्पुरुष एवेति पूर्वपक्षे, तत्पुरुषस्यापि पूर्वपदलाक्षणिकतया कर्मधारयापेक्षया गौरवाल्लाघवात् कर्मधारय एव । अपूर्वविद्याध्ययनस्योत्तरकालकलप्यत्वेन तादृशगौरवस्य फलमुखतया अदोषत्वादिति सिद्धान्तितम् , तदू विरुद्धयेत । भवन्मते तत्पुरुषस्वीकारेऽपि गौरवाऽनवकाशादिति भावः ॥ ___ *तदानीन्तनेति । तादृशवाक्यजन्यशाब्दबोधाव्यवहितप्राक्क्षणवृत्तिशक्तिप्रहनिष्ठान्तरङ्गबहिरङ्गभावचिन्तनप्रयुक्तलाघवमादायेत्यर्थः । तदेव विशदयति-*अयम्भाव इति* । निषादरूपेति । स्थपतावित्यनेनान्वितम् । निषादानामिति । निषादसम्बन्धिस्थपतावित्यर्थः । तत्र षष्ठ्यर्थसम्बन्धान्त वेर्णेकार्थीभावाऽभ्युपगमात् । निषादस्वामिक इति । स्थपतिशब्दस्य स्वाम्यर्थकतया निषादाभिन्नस्वामिके पुंसीत्यर्थः । तत्रान्यपदार्थान्तर्भावेण समुदायशक्तिस्वीकारात् । 'नानाऽर्थः इत्यस्य वृत्त्यानेकार्थोपस्थितौ जातायामिति शेषः । न्यायेनेत्यस्य व तात्पर्य्यमिति परीक्षा विप्रान्मूर्द्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्रयान्निषादो जातः पारषवोऽपि च ॥ इति । स्मृतेनिषादः सङ्करजातीयस्थपतिशब्दश्च राजपर्याय इति तस्य वेदानधि. काराद्याजनासम्भवः इति बहुव्रीहिर्वाच्यः, स न सम्भवति । वाक्यस्य लक्षणायां गौरवात् । किन्तु लाघवात् षष्ठीतत्पुरुष इति पूर्वपक्षे तत्पुरुषस्थपूर्वपदस्य लाक्षणिकतया गुरुत्वमिति, लाघवात्कर्मधारय एव ।। __ नचैवं तस्य वेदानधिकारात्कथं याजनमिति वाच्यम् । यागोपयोग्यध्ययनस्य कल्पनात् । 'फलमुखं गौरवञ्च न दोषाया इति सिद्धान्तितत्वाद्विरुध्येत। एकार्थीभाववादिनाम्भवतां तत्पुरुषे लक्षणाया अभावादिति भावः । *तदातीन्तनेति । तादृशवाक्यजन्यशाब्दबोधाव्यवहितप्राक्क्षणवृत्तिशक्तिग्रहनिष्ठान्तरङ्गबहिहरङ्गम्भावस्य चिन्तनप्रयुतलाघवमादायेत्यर्थः । तदेतद्विशदयति-*अयम्भाव इति । *नानार्थत्वम् । समा.
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy