SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः । ३८९ साधुशब्देऽन्तर्गता हि बोधका न तु तत्स्मृताः ॥३१॥ यद्यपि वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, अखण्डपदवाक्यस्फोटौ, वर्णपदवाक्यभेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति वाक्यग्रहणमनर्थकं दुरर्थकञ्च तथापि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम् । एतदेव ध्वनयन्नाह — अतिनिष्कर्ष इति ॥ इति मतस्थितिर्वैयाकरणानां महाभाष्यकारादीनाम् । तत्र क्रमेण सर्वान् तान् निरूपयन् वर्णस्फोटं प्रथममाह #साधु दर्पणः इत्याशयेनाह – *अनर्थकमिति । निष्प्रयोजनकमित्यर्थः । *दुरर्थकमिति । तदुपादाने वाक्यातिरिक्तानामसंग्रहापत्तेरिति भावः । समाधत्ते – तथापीति । अन्येषां वर्णादिपञ्चस्फोटानामित्यर्थः । तत्र स्फोटत्वं स्फुटत्यभिव्यक्ती भवत्यर्थोऽस्मादिति व्युत्पत्त्यार्थप्रकाशकत्वं, प्रकाशश्च ज्ञानम् । तथाचार्थनिष्ठविषयताप्रयोजकशक्तिमत्त्वं पर्यवस्यति । वर्णस्यैव तत्वाभ्युपगमे वर्णस्फोटः । पदादीनां तत्त्वाभ्युपगमे तु पदादिस्फोट इति व्यवहारः । *अवास्तवत्वेति* । वर्णस्फोटादीनामाकाङ्क्षानिवर्त्तकत्वाभावादवास्तवत्वं शास्त्रीयप्रक्रियानिर्वाहाय परं सिद्धान्ते तत्स्वीकारः । पारमार्थिकत्वं तु वाक्यस्फोटस्यैवेति भावः । * विप्रतिपत्तिरिति । संशयीययावत्कोट्युपस्थापकं वाक्यमित्यर्थः । न तु संशयजनकं वाक्यमेव सा । परोक्षं ज्ञानं निश्चयात्मकमेवेति प्राचीनप्रवादेन संशयजन - कत्वस्य वाक्ये असम्भवात् । वस्तुतस्तु संशयजनकवाक्यत्वमेव विप्रतिपत्तित्वम् । तत्तदभाव सहचरितधर्मवद्धर्मज्ञानस्येव समानाऽनेके तिसूत्रेण विप्रतिपत्तेरप्याहस्यैव संशयहेतुत्वोत्कीर्त्तनादित्यवधेयम् । मूले असाधुशब्दान्तर्गतवर्णवाचकता विचारस्याप्रस्तुतत्वं मत्वाह - * साध्वि ति* । अत्र साध्वन्तर्गतवर्णत्व सामानाधिकरण्येन वाचकत्वादिसाधने तद्वाक्यस्य परीक्षा एवं सप्ताष्टानामेकस्यापि वाचकत्वकथनेन परो निरस्तो भवतीत्यादौ वाक्यस्फोस्यैव कथने किं बीजमित्याशङ्कानिराकरणव्याजेन निष्कृष्टार्थं सूचयति-यद्यपीत्यादिना । स्फुटति प्रकाशते ज्ञातो भवत्यर्थोऽस्मादसौ स्फोट इति व्युत्पत्याऽर्थविषयकं यज्ज्ञानम्, तज्जनकतावच्छेदकशक्तिमत्वन्तत्वम् । तच्च प्रकृतिनिष्ठम्प्रत्ययनिष्ठञ्च - म्भवतीत्याशयेनाह — *वाक्यग्रहणमिति । *अनर्थकम् * - प्रयोजनरहितम् । प्रत्युत तस्योपादानेऽन्येषामसङ्ग्रहापत्तिरूपो दोषोऽपीत्याह -*अनर्थकमिति । *अन्येषाम्*वर्णादिस्फोटानाम् । अत्र वर्णपदम्प्रकृतिप्रत्ययपरम्, अर्थस्मृतिजनकज्ञानविषयतावच्छेदकशक्तिमत्वम्प्रकृतिप्रत्यययोरेवेति वर्णस्फोटः, पदस्यैव तादृशशक्तिमत्वमिति पदस्फोट इति व्यवहारः । *अवास्तवत्वमिति । प्रकृतिमात्रस्य प्रत्ययमात्रस्य वा निराकाङ्क्षप्रतिपत्तिमन्निकरत्वन्नेति तस्याऽवास्तवत्वमित्यर्थः । शास्त्रीय प्रक्रियानिर्वाहाय तस्य स्वीकार इति भावः । "
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy