________________
३८८
दर्पणपरीक्षासहिते भूषणसारे
दर्पणः करणं तु मूल एव सुव्यक्तम् । अष्टानां स्फोटानामाकरसिद्धतया तव्यावृत्त्यालाभ
परीक्षा त्यर्थः। नैयायिका ह्येवमाहुः-शक्तम्पदम् , पदसमुदायो वाक्यमिति । एवञ्च प्रकृतिप्र. त्यययोः स्वस्यार्थाभिधानसमर्थयोः समभिव्याहारात्प्रकृत्यर्थविषयतानिरूपितप्रत्यया. र्थविषयताशालिबोधो जन्यते । तत्र प्रकृतिप्रत्यययोराकाङ्क्षाऽपि सहकारिणी। अन्यथा घटकर्मत्वमानयनं कृतिरिति शब्दसमुदायाधेयतासम्बन्धावच्छिन्नघटनिष्ठप्रकारतानिरूपितकर्मत्वनिष्ठविशेष्यताको निरूपकत्वसम्बन्धावच्छिन्नकर्मप्रकारतानिरूपितानयन. निष्ठविशेष्यताकोऽनुकूलत्वसम्बन्धावच्छिन्नानयननिष्ठप्रकारतानिरूपितकृतिनिष्ठविशेष्यताकशाब्दबोधस्स्यात्। यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यत्संसर्गकयत्प्रकारकयद्विशेष्यकबोधजनकत्वम् , तयोः पदयोः समभिव्याहारे ह्याकाङ्क्षा। अस्ति च सा 'घटमानयति इत्यत्र । घटकर्मत्वमित्यादिप्रयोगे तु सा नास्तीत्यतो नघटीया कर्मतेति तद्रीत्या बोधः । एवं धात्वाख्यातयोरपि बोध्यम् । सैवाकाङ्क्षा व्याकरणेन प्रतिपाद्यते। सा चाकाङ्क्षा ज्ञाता सती शाब्दबोधहेतुर्नतु स्वरूपसती। यत्र घटकर्मत्वमिति केनचित्प्रयुक्तम्, तत्र घटपदोत्सरवर्तिकर्मत्वशब्दे अम्पदत्वस्य भ्रमो यदा, तदा तस्माद्धटीया कर्मतेत्यन्वयबोधो जायते, तस्यानुत्पत्तिप्रसङ्गात् । न चाकाङ्क्षाज्ञानाद् घटमिति शब्दादू घटीयाकर्मतेति बोधे जातेऽपि तस्य कारणीभूतज्ञानस्य सत्वात्पुनस्तथान्वयबोधः स्यादिति वाच्यम् । तात्पर्य्यविषयान्वयबोधानुपहितत्वस्य स्वरूपतः शब्दनिष्ठस्य नियामकत्वात् । एकस्य बोधस्य तात्पर्य्यविषयत्वे तच्छाब्दबोधानुपहितत्वस्य तत्र सत्वाद्भवति बोधः। द्वितीयस्तु न भवति, एकज्ञाने जाते तदुपहितत्वविशिष्टस्य तस्य शब्दस्य सत्वात्। यत्र शाब्दबोधद्वयं जायतामितीच्छा तत्र बोधद्वयस्य तात्पर्यविषयतया बोधद्वयानुपहितत्वस्य प्रथमशाब्दबोधे जातेऽपि तत्वाद्भवत्येव द्वितीयो बोधः। एतन्मूलक एव 'सकृदुच्चरितः शब्दस्सकृदर्थ गमयति इति साम्प्रदायिकानामुद्घोषः । न चावान्तरवाक्यार्थज्ञाने जनिते तेन महावाक्यार्थबोधो न स्यात्, तस्मिन्प्रकृतान्वयबोधानुपहितत्वाभावादिति वाच्यम् । तात्पर्यविषयान्वयबोधे स्व. विषयत्वान्यूनानतिरिक्तवृत्तिविषयकत्वस्य विशेषणीयत्वात्। एवञ्च महावाक्यार्थबोध. विषयत्वान्यूनानतिरिक्तविषयताकबोधानुपहितत्वस्यावान्तरबोधे जातेऽपि सत्वाद्भवत्येव महावाक्यार्थबोधः । एवञ्च-साकाङ्कत्वाच्छब्दसमुदायादेव शाब्दबोधस्योपपत्तिसम्भवान्न वाक्यस्य पदसमूहस्य पृथक् वाक्यार्थे शक्तिरिति । पदार्थतासंसर्गस्त्वनुपस्थित एव । आकाङ्क्षा तात्पर्य्यवशाद्भासते, नतु शक्तिस्तस्मिन्नर्थे कल्पनीयेति।।
मीमांसकादयस्तु-संसर्गो वाक्यस्य लक्ष्योऽर्थ इत्येवमाहुरिति, तदप्यसङ्गत्तमिति ध्वननाय सिद्धान्तपदोपादानम् , किञ्च-व्याकरणप्रक्रियया प्रकृतिप्रत्यययोस्तत्तदर्थबोधकत्वेन क्लप्तयोः सत्वाच्छाब्दबोधोपपत्तौः न पदेष्वित्यादेः सुबन्तस्य प्रकृतिप्रत्ययसमुदायस्य बोधकत्वमिति यन्मतन्तदप्ययुक्तम्। शब्दानामाशु विनाशितया समुदायेतादृशस्याभावादतः स्फोटस्य वाचकत्वमभ्युपेयम् । ते च स्फोटा नानाविधा यद्यपि सम्भवन्ति, तथापि निष्क सति वाक्यस्फोट एव स्वीकर्तुमुचित इत्याशयेन सिद्धान्तेन पूर्वोक्तरीत्या स्फोटस्य वाचकत्वव्यवस्था । तेन परमतस्य निराकरणम्भवति ।