________________
स्फोटनिर्णयः ।
૨૮૭
सिद्धान्तनिष्कर्षमाह
वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः ॥
दर्पणः
कयत्संसर्गकयत्प्रकारकबोधजनकत्वं तत्पदे तत्पदनिरूपिताकाङ्क्षा । यथा घटमानयती - त्यत्र घटपदे कर्मताविशेष्यकाधेयता संसर्ग कघटीया कर्मतेति बोधौपयिका अम् पदनिरूपताकाङ्क्षा । तां बिना घटः कर्मत्वमित्यत्र घटपदेन तादृशबोधाजननात् । एवं धातुपदेऽप्याख्यातनिरूपिताकाङ्क्षोद्या । अत एवानयनं कृतिरित्यत्र नानयनानुकूला कृतिरिति बोधः । धातावाख्यातासमभिव्याहारात् । इयमेवाकाङ्क्षा व्याकरणेन प्रतिपाद्यते । तथाच तत्तत्पदे तत्तत्पदपूर्वापरीभावरूपसमभिव्याहारः सेति फलति । तां विना यद्यप्युक्तानाका कर्मत्वपदेऽम्पदत्वभ्रमदशायां घटिया कर्मतेति बोधोदयेन तज्ज्ञानं हेतुर्न तु स्वरूपसती सा ।
न च जनितान्वबोधाद्वाक्यात् पुनरपि तादृशबोधापत्तिरुक्ताकाङ्क्षायास्तदानीमप्यविकलत्वादिति वाच्यम् । प्रकृतान्वयबोधसमानाकारबोधानुपहितत्वस्यापि स्वरू पसत आकाङ्क्षत्वेन जनितान्वयबोधस्थले तदभावेनापत्त्यसम्भवात् । तात्पर्य्यविषयत्वरूप प्रकृतत्वेन बोधविशेषणाच्च । बोधद्वयं जायतामिति तात्पर्य्यसत्त्वेन जनितान्वयद्वितीयबोधे निराकाङ्क्षत्वं स्वसमानेत्युक्तेश्च न जनितावान्तरबोधस्य महावाक्यार्थबोधे तत्त्वम् । अत एव ।
"अयमेति पुत्रो राज्ञः पुरुषोऽपसार्य्यताम् ” इत्यादौ राज्ञः पुरुषेण सहान्वयबोधजनने सर्वदा निराकाङ्क्षत्वम् ।
नव्यास्तु — यत्पदस्य यत्पदव्यतिरेकप्रयुक्ततात्पर्य्यविषयीभूतान्वयाननुभावकत्वं तेन सह तस्याकाङ्क्षा | 'अयमेति पुत्रो राज्ञः पुरुष' इति वाक्ये राजपुरुषसंसर्गप्रतीतीच्योच्चरिते राज्ञ इत्यस्य पुरुषेण साकाङ्क्षत्ववारणायान्वयबोधे तात्पर्यविषयत्वं विशेषणं पुरुषेणान्वये तात्पर्यसत्वे तु साकाङ्क्षत्वमपि । एवञ्च न तात्पर्य्यज्ञानस्य शाब्दबोधे पृथक् हेतुता । अगृहीतार्थतात्पर्य्यके निरुक्ताऽऽकाङ्क्षाज्ञानाभावादेवान्वयबोधापत्त्यभावादित्याहुः ।
एवञ्च शाब्दबोधात् प्रागवश्यक्लृप्ततचत्पदसमभिव्याहाररूपाकाङ्क्षयैवान्वयरूप - वाक्यार्थ भानोपपत्तौ वाक्यस्य तत्र शक्तिर्निष्प्रमाणेति नैयायिका वदन्ति ।
मीमांसकादयस्तु - वाक्यस्य तत्र लक्षणैव, न तु तत्र शक्तिरिति तन्मतं खण्डयितुं स्फोटनिरूपणमित्याशयेन मूलमवतारयति - सिद्धान्तेति । यद्वा ननूक्तं व्याकरय प्रकृतिप्रत्ययेषु तत्तदर्थबोधकत्वशक्तिप्रतिपादकत्वमनुपपन्नम् । प्रकृतिप्रत्ययानां क्रमिकाशुविनाशिनानावर्णाऽऽत्मकतयाऽस्थिरत्वेन - अप्रत्यक्षतया तत्र शक्तिग्रहस्य कथमप्यसम्भवेन तत्प्रतिपादकस्यास्य शास्त्रस्याप्रामाण्यप्रसङ्ग इत्याशङ्कानिराकरणाय स्फोटनिरूपणमित्याशयेन मूलमवतारयन्नाह
• * सिद्धान्त निष्कर्षमिति । तथाचोपोद्घातसङ्गतिरत्रेत्यवधेयम् । तत्तन्मतनिरापरीक्षा
अथ स्फोटनिरूपणम् । नैयायिकमीमांसकमतं खण्डयितुमुपक्रमते -* सिद्धान्तेति । वैयाकरणे सिद्धान्ते