SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३८६ दर्पणपरीक्षासहित भूषणसारे दर्पणः केचित्तु लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्वत्ताबुद्धित्वावच्छिन्नं प्रति तदभाववत्ताज्ञानाभावस्य हेतुतया शाब्दबोधस्यापि तत्कार्यतावच्छेदकाक्रान्ततया अयोग्यताज्ञानसत्त्वे तदभावादेव शाब्दबोधवारणे कृतं योग्यताज्ञानस्य तद्धतुतया । कार्यतावच्छेदककोटौ प्रत्यक्षान्यत्वनिवेशेनैव लौकिकप्रत्यक्षनिरासेपि घटाद्युपनीतभानसङ्ग्रहाय तद्विहायाजन्यान्तद्वयनिवेशः। _ नच बाधनिश्चयाभावत्वापेक्षया संशयनिश्चयसाधारणयोग्यताज्ञानत्वेन हेतुत्वे ला. घवमिति वाच्यम् । स्यादेवम्, यदि बाधाभावस्य शाब्दत्वं कार्य्यतावच्छेदक कल्प्येत, किन्तु शाब्दबोधस्य बाधाभावकार्य्यतावच्छेदकाक्रान्ततया तद्दशायां तं प्रतिषेधामः । अत एव घटोऽभिधेय इत्यादावुक्तबाधाप्रसिद्धावपि न क्षतिः। तत्संसर्गावच्छिन्नतत्त्प्र. कारकतद्विशेष्यकबुद्धित्वस्यैव तत्कायंतावच्छेदकत्वात् । घटाभावेऽभिधेयत्वप्रतियो. गिकत्वभ्रमदशामादाय तदभावस्यापि प्रसिद्धेश्चेत्याहुः। अन्न वदन्ति-न हि तद्विशिष्टबुद्धिसामान्ये बाधाभावः कारणं, किन्तु बाधावतारे इच्छासत्त्व आहार्य्यप्रत्यक्षोदयादिच्छाया उत्तेजकत्वानुरोधेन प्रत्यक्षस्यैव प्रतिबध्य. तावच्छेदकत्वावश्यकतयोपनीतभानसाधारणप्रतिबध्यतायाः शाब्दबोधेऽसम्भवात् । न च तथाप्यनुमितिसाधारणप्रतिबध्यतायाः शाब्दबोधसाधारण्यं शङ्यम् । तत्साधारणस्य प्रत्यक्षान्यज्ञानत्वस्य प्रतिबध्यतावच्छेदकत्वे प्रत्यक्षान्यत्वज्ञानत्वयोमिथो विशेष्यविशेषणभावे विनिगमनाविरहेणानेकप्रतिबध्यप्रतिबन्धकमावापत्तेः । प्रतिबध्यतावच्छेदकगौरवापत्तेश्चानुमितित्वस्यैव तदवच्छेदकत्वस्याङ्गीकरणीयत्वात्। अतो बाधाभावस्य स्वातन्त्र्येणैव शाब्दबोधं प्रति हेतुता वाच्या। तत्र चोक्तगौरवेण संस. र्गरूपयोग्यताज्ञानस्यैव हेतुत्वमुचितम् । अपि च शाब्दबोधे तद्वदन्योन्याभावतदभावव्याप्यवत्ताज्ञानादीनां प्रतिबन्धकत्वकल्पनाऽपेक्षया लाघवाद योग्यताज्ञानस्यैव हेतुत्वमुचितम् । किञ्च 'पयसा सिञ्चतिः इति शाब्दसामग्रीकाले सेकः पयः करणकत्वाभाववानिति मानसवारणाय तत्र शाब्द. बोधसामग्र्याः प्रतिबन्धकत्वकल्पने तत्र योग्यताज्ञानस्यावश्यकतया विपरीतज्ञानोत्तर. प्रत्यक्षे विशेषदर्शनस्य हेतुतया तदभावादेव तद्वारणात् । विशेषदर्शनसत्वे तु तदभावव्याप्यवत्तानिर्णयरूपप्रतिबन्धकत्वेन ज्ञाब्दसामग्र्या एवाभावेन तथा मानसे इष्टापत्तेः। नच निर्णयं प्रत्येव विशेषदर्शनस्य हेतुतया ज्ञाब्दसामग्रीकाले मानससंशयवारणाय शाब्दसाय्याः प्रतिबन्धकत्वे कल्पनीये संशयत्वमनिवेश्य सेकत्वाऽवच्छिन्नविशेष्यकपयः करणत्वाऽभावप्रकारकमानसत्वमेव तत्प्रतिबध्यतावच्छेदकमिति वाच्यम् । सेकत्वावच्छिन्नविशेष्यकपयःकरणकत्वप्रकारकमानसे शाब्दसामग्रीप्रतिबन्धकत्वान्तरस्य कल्प्यतया तेनैव संशयवारणे तत्संशये प्रतिबन्धकत्वान्तरकल्पनात् ।। __ न च विपरीतज्ञानोत्तरप्रत्यक्षे विशेषदर्शनस्य हेतुत्वसिद्धावेव योग्यताज्ञानस्य हेतु. त्वसिद्धिरिति वाच्यम् । गुरुभूतशाब्दसामग्रीप्रतिबन्धकत्वकल्पनापेक्षया तद्धेतुत्वकल्पनाया एवोचितत्वात् । अनयैव दिशेष्टसाधनत्वादिज्ञानानां प्रवृत्तौ हेतुत्वसिद्धिरित्यलं परमतानुवर्णनेन। ___ घटः कर्मत्वमित्याधाराधेयभावेनान्वये निराकाङ्क्षवाक्याद् घटीया कर्मतेति बोधानुदयादाकासापि सहकारिणी। सा च यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यद्विशेष्य
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy