________________
अथ स्फोटनिरूपणम् ॥
दर्पणः
अथ स्फोटनिरूपणम्। इत्थं व्याकरणादिना गृहीतशक्तिकपदसमुदायादनासन्नादगृहीतार्थतात्पर्य्यकादयोग्यादनाकाङ्क्षाच्च शाब्दबोधादर्शनादासत्त्यादिकमपि शक्तिज्ञानजन्यपदार्थोपस्थित्या बोधे जननीये सहकारि । आसत्तिश्व-प्रकृतबोधानुकूलपदाव्यवधानम् । अस्ति च "पर्वतो वह्निमान्" इत्यत्र तादृशपदाव्यवधानम्, न तु "गिरि(क्तं वह्निमान् देवदत्तेन" इति, न ततो बोधः । अत एव "स्थाल्यां तण्डुलं पचति" इत्यत्र तण्डुलकर्मकस्थाल्यधिकरणकक्रियेति बोधेनाऽनासन्नता। तदूघटकसर्वेषां पदानां तादृशबोधानुकूलत्वात् । स्थाल्यां पचतीत्येतावन्मानबोधे तु तदनासन्नमेव । श्लोकादौ तु योज. नावाक्यादेव बोधः, तभ्रमेणाऽनासन्नाद् बोधदर्शनात्तज्ज्ञानमेव हेतुरिति-सम्प्रदायः।
नव्यास्तु-"मौनिश्लोकादन्वयबोधानुप्रसङ्गानोक्ताव्यवधानमासत्तिः । आकासादिसत्वे तात्पर्य्यज्ञाने च सति व्यवहितादव्यवहिताच्च बोधदर्शनात्तज्ज्ञानविल. म्बेन शाब्दाविलम्बाच्च, किन्त्विदं पदमेतत्पदेन सम्भूयाऽन्वयबोधं जनयत्वित्याकारकपदतात्पर्य्यरूपाभिसन्धापयित्रिच्छा सा, न तु वक्रिच्छा। मौनिश्लोकादौ दोषतादवस्थ्यात् । शुकवाक्ये तु भगवत्तात्पर्य्यमादायैव गतिरित्याहुः ।
वस्तुतस्तु सत्यर्थतात्पर्य्यज्ञाने पदतात्पर्य्यज्ञानविलम्बेन शाब्दबोधाविलम्बाद् वृत्त्या पदजन्यपदार्थानामव्यवधानेनोपस्थितिरेवासत्तिः-स्वरूपसत्यन्वयबोधे हेतुः । न हि पदार्थानामनुपस्थितान्वयधीः केनाप्यनुभूयते इति । अर्थतात्पर्य्य त्विदं पदमेतस्मिन्नर्थेऽपरपदार्थान्वयं बोधयत्वित्यभिसन्धापयित्रिच्छा । संवादिशुकवाक्ये तु भगवत एव सा । विसम्वादिनि तु शिक्षयितुरेव । अस्य संशये व्यतिरेकनिश्चये चान्वयबोधात्तभ्रमेणान्वयाबोधदर्शनाच्च तज्ज्ञानमप्यन्वयबोधे हेतुः। अधिकमग्रे वक्ष्यते।
शाब्दबोधे योग्यताया ज्ञानं कारणमिति बहवः । सा चैकपदार्थेऽपरपदार्थस्य याशसंसर्गवत्वं तादृशसंसर्गवत्तैव प्रकृतशाब्दबोधविषयसंसर्गवत्वमिति यावत् । अस्ति च 'पयसा सिञ्चति' इत्यत्र सेके पयःकरणकत्वस्य संसर्गः। अत एव कर. काऽभिप्रायप्रयुक्त-'पयसा सिञ्चति' इति वाक्यं न योग्यम् । पयःपदार्थकरकायां सेककरणत्वाभावात् । यादृशेति विशेषणाच्च 'आकाशः शब्दः इति वाक्यं समवायसंसर्गमादाय नाभेदाऽन्वये योग्यम् । अयोग्येऽप्येतदूभ्रमेणान्वयदर्शनादेतज्ज्ञानस्यापि हेतुता।
ननु संसर्गस्य वाक्यार्थत्वेन तद्वाधात् प्रागनुपस्थित्या कथं तद्बोधस्य तत्र तत्वमिति चेद् ? न । योग्यताज्ञानस्य शाब्दबोधे निश्चयत्वेन हेतुतां बमो, येनोक्तदोषोऽवकाशमासादयेत् । किन्तु संशयनिश्चयसाधारणज्ञानत्वेन । तस्य च न दौर्लभ्यम् । 'पयसा सिञ्चति' इत्यादौ सेकः पयः करणको न वेति संशयात्मकस्य भूतले घटोऽस्ती. त्यादौ च प्रात्यक्षिकनिश्चयरूपस्याऽपि तत्प्राक्सौलभ्यात् । स्वजन्यशाब्दबोधस्यैवान्वयबोधप्रतिबन्धकतयोक्तबाधात्तत्सम्भवात् ।
४९ द० ५०