________________
३८४
. दर्पणपरीक्षासहित भूषणसारे
दर्पणः तुमुनस्तादर्थ्यरूपमुद्देश्यत्वमपि द्योत्यम् । "क्रियार्थायां क्रियायाम्" इत्युक्तः । तनिष्कर्षश्च पूर्ववदेव तुम्प्रकृत्यर्थोपपदार्थयोस्तादर्थ्यवत् समानकर्त्तकत्वादिकमपि सम्बन्धः। तथाच "हरिंद्रष्टुं याति" इत्यतो हरिकर्मक भविष्यदर्शनौद्देश्यक दर्शनक. र्तृकर्तृकं यानमिति शाब्दधीः । अनयैव दिशैधानाहारको व्रजतीति बोध ऊहनीयः॥३०॥
इति भूषणसारदर्पणे क्त्वाद्यर्थनिरूपणम् ॥ १२ ॥
परीक्षा गमनेऽपि सत्वेन भुक्त्वा गच्छति मैत्रः' इति प्रयोगापत्तिः । अतो भोजनक्रियायाः स्वसमानकर्त्तकत्वसम्बन्धेन क्रियान्तरम्प्रति विशेषणत्वम् , क्त्वाप्रकृत्यर्थक्रियाया द्वेधाभानमित्याहुः, तन्न । “अव्यय कृतोभावे” इति सिद्धान्तविरोधात् ॥ ६० ॥
॥ इति श्रीमदूभूषणसारटीकायाङ्क्त्वाद्यर्थनिर्णयविवरणम् ॥ १२ ॥