________________
क्त्वाद्यर्थनिर्णयः ।
३८३
दर्पणः
स्परविशेष्यविशेषणभावः । “गुणानां च परार्थत्वात्” इतिन्यायात् । एवञ्च 'स्नात्वा पीत्वा भुक्त्वा व्रजति' 'भुक्त्वा स्नात्वा व्रजति' इत्यविशेषेण प्रयोगाः ।
परीक्षा
न्नैकक्रियाप्रकारतानिरूपितक्त्वार्थद्वयविषयकशाब्दबोधे तत्तद्धातूत्तरक्त्वाज्ञानं कारणमिति कार्यकारणभावः । आश्रयत्वरूपकर्त्तत्वन्तु 'रथे स्थित्वा गच्छति' इत्यत्र प्रतीयते । व्यापारवत्वरूपन्तु - तत्काष्ठमोदनम्पक्त्वा ते तमेनम्यच' इत्यत्र प्रतीयते । प्रतियोगित्वरूपस्य कर्त्तत्वस्याग्निना काष्ठम्प्रणश्य भस्म भवतीति । नच यत्र 'एकमोदनम्पक्त्वा मैत्रेणौदनान्तरम्भुज्यते' तत्रापि 'ओदनं' पक्त्वा भुज्यते मैत्रेण' इति प्रयोगापत्तिः । । इष्टापत्तिस्तु न । 'ओदनम्पक्त्वादनन्तरं भुज्यत' इति प्रयोगस्यैवेष्टत्वादिति वाच्यम्, कर्मप्रत्ययसमभिव्याहारे धातुद्वयस्य तद्व्यक्तिकर्मत्वविशिष्टस्वार्थतावच्छेदकरूपेण क्रियाव्यक्त्यभिधायकत्वस्य व्युत्पत्तिसिद्धत्वात् । अत एव संयुज्धात्वर्थ कर्त्तृत्वस्याश्रयत्वरूपतया यत्र घटोऽङ्गुल्या संयुज्य तत्संयोगनाशानन्तरं घटेन संयुक्तो भवति तत्र घटपटसंयोगस्याङ्गुलीयपटसंयोगस्य घटाश्रितत्वेन घटस्यापि तत्र कर्त्तृत्वेन घटोङ्गुल्यां संयुज्य पटेन संयुज्यत इति प्रयोगापत्तिरिति निरस्तम् । एतादृशप्रयोगस्थलेऽङ्गुल्यनुयोगिकत्वविशिष्टघटप्रतियोगिकत्वविशिष्टसंयोगव्यक्तिसमानकालिकत्वस्य प्रागभावे सत्वं वक्तव्यम् । तच्च बाधितमिति नैतादृशः प्रयोगः ।
प्रागभावश्च - घटादिकपालतत्संयोगादिघटित स्वसामग्रीवशादुत्पन्नस्य पुनरुत्पादापत्तिवारणाय स्वीक्रियते । यदि तु कार्योत्पत्तिम्प्रति समवायादिना कार्य्यस्य प्रतिबन्धकत्वकल्पनेनोत्पन्नस्य पुनरुत्पादापत्तिर्वारयितुं शक्यत इति प्रागभावो न स्वीकर्त्तव्य इत्युच्यते, तदा ध्वंस एव क्त्वाप्रत्ययार्थोऽस्तु । तत्र प्रकृत्यर्थः प्रतियोगितासम्बन्धेन विशेषणम् । तस्य तु स्वप्रतियोगिक्रियासमानकर्तृकत्वस्वाधिकरणंतात्पर्य्यविषयसमयोत्पन्नत्वोभयसम्बन्धेन समभिव्याहृतक्रियाम्प्रति विशेषणत्वमित्यङ्गीकार्यम् । एवञ्च 'चैत्रो भुक्त्वा व्रजति' इत्यादिभ्यो भोजनध्वंसविशिष्टचैत्राभिन्नकका वजनक्रियेति शाब्दबोधः ।
नन्वेवमपि क्त्वाप्रकृतिप्रतिपाद्य यत्किञ्चित् क्रियायाः प्रतियोगितया ध्वंसम्प्रति विशेषणत्वम्, क्रियासामान्यस्य वा । आद्ये- 'काशीं गत्वा काशीं रमते' इति प्रयोगापत्तिः अद्यक्रियाध्वंस वैशिष्ट्यस्य च रमक्रियायां सत्वात् । अन्त्ये- ' स्थित्वा पश्यति पुस्तकम्, 'स्थित्वा जक्षिति जेमनम्' इत्यादौ चानुपपत्तिः । स्थितिक्रियाया दर्शनीत्तरमदनोत्तरञ्च सत्वेन स्थितिक्रियासामान्यसामान्यप्रतियोगिकध्वंसवैशिष्ट्यस्य दर्शनयोरभावादिति चेद्र ? तर्हि क्त्वाप्रत्यस्य पूर्वकाल एव शक्तिः । शक्यतावच्छेदकञ्च कालत्वमेव, तत्र प्रकृत्यर्थस्य कालिकसम्बन्धावच्छिन्नाधारतासम्बन्धेनान्वयः । तस्य कालस्य तु स्वध्वं साधिकरणक्षणोत्पत्तिकत्वसम्बन्धेन समभिव्याहृतपदोपस्थाप्यक्रियान्तरम्प्रति विशेषणता बोध्या । कालश्च- पूर्ववत्तात्पर्य्यविषयघट्यादिरूपो विवक्षितः । कालविशेष्यस्य वाच्यत्वसूचनाय " समानकर्त्तृकयोः " इति सूत्रे पूर्वकाल इत्युपात्तम् । चैत्रकर्त्तृकभोजनाधिकरणकालानन्तर्य्यस्य मैत्रकर्त्तृक