SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ३८२ भुज्यत' इत्यत्र विस्तरः ॥ ६० ॥ दर्पणपरीक्षासहिते भूषणसारे - द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां इति वैयाकरणभूषणसारे क्त्वाद्यर्थनिर्णयः ॥ १२ ॥ दर्पण: दौदनपदाद् द्वितीया असाध्वेव । उक्तव्यवस्थितेः । परन्त्वाख्यातवाच्यक्रियायाः प्राधान्यात् तां प्रत्येव क्त्वान्तोपस्थिताः सर्वाः क्रिया गुणीभवन्तिः न तु तासां परपरीक्षा प्रधानक्रियानिरूपित शक्त्यभिधायिनी । अत एव 'मूलकेनोपदंशं भुङ्क्ते' इत्यादौ तृतीयैव नतूपदंशन क्रियाकर्मत्वाभिधायिनी द्वितीया मूलकपदादित्यपि बोध्यम् । इदमत्र बोध्यम् - यन्त्राप्रधानीभूताः क्रियाः तत्र तासामुक्तसम्बन्धेन प्रधानक्रियायामेव विशेषणता, न तु परस्परं गुणप्रधानभाव इति तत्तद्वाचकप्रकृतिकक्त्वाभ्यामिति यतः प्रयोगो, नतु यासां पूर्वकालिकत्वं तद्वाचकप्रकृतिकक्त्वान्तस्य पूर्वमेवोत्तरकालिकवाचकानाम्परत्रैव प्रयोग इति नियम:, तेन 'भुक्त्वा स्नात्वा पीत्वा गत' इति 'स्नात्वा भुक्त्वा पीत्वा गत' इति च भवति । तासाम्परस्परमसम्बन्धे मानन्तु "गुणानाञ्च परार्थत्वात्” इति न्याय एव । यत्र तु समानकर्तृकक्रियावाचकानामप्रयोगः, क्त्वान्तस्य च प्रयोगो दृश्यते तत्र योग्यप्रधानक्रियावाचकाध्याहारः, यथा - अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥ इत्यत्रानाराध्येत्यनन्तरं स्थितस्येत्यस्य । एवमेव - " प्रातः काले शिवन्दृष्ट्वा fafa पापं व्यपोहति' इत्यादावपि द्रष्टव्यम्” । समानकर्तृकत्वं क्त्वाप्रत्ययवाच्यमिति वादिनो "अव्ययकृतो भावे" इति वार्तिकविरोधोऽपि दोषः । यत्र भावे तु मुन्प्रत्ययस्तत्रापि यथोक्तसम्बन्धघटितसामानाधिकरण्यसम्बन्धेन प्रधानक्रियायाङ्गुणक्रियायान्तुमुन्नन्तप्रतिपाद्या या विशेषणता परन्तूदेश्यत्वमपि सम्बन्ध इति । अत एव 'शिवन्द्रष्टुं याति' इति वाक्याच्छिवकर्मकभविष्यद्दर्शनोद्देश्यकन्दर्शनविशिष्टं यानमिति बोधः । ण्वुलन्तस्य "तुमुन्ण्वुलौ” इति सूत्रविहितस्य प्रयोगेऽप्येवमेव बोधः । 'मुखं व्यादाय स्वपिति' अत्र क्त्वाप्रत्ययस्य प्रागभावे शक्तिः कर्त्तरि निरूढलक्षणा । प्रागभावश्व-समानकालिकत्वसम्बन्धेन प्रकृत्यर्थस्य विशेष्यः, प्रतियोगितासम्बन्धेन तूत्तरक्रियायां विशेषणम्, क्त्वारूप्रकृत्यर्थक्रियाकर्त्तर्यपि विशेषणम् । कर्त्ताऽप्युत्तरत्र क्रियायां स्वनिष्ठकर्त्तृत्वनिरूपकत्वसम्बन्धेन विशेषणम् । कर्त्तृत्वं च-यथायथं व्यापारवत्वाश्रयत्वकृतिमत्वप्रतियोगित्वरूपं बोध्यम् । एवञ्च 'भुक्त्वा व्रजति चैत्रः ' ' इति वाक्याद्भोजनकर्त्तृकर्त्तकं भोजनकालिकप्रागभावप्रतियोगिकं व्रजनमिति बोधः । एवञ्च मुहूर्त्तादिव्यवधानेऽपि 'भुक्त्वा गतः' इत्यादिप्रयोगस्योपपत्तिः । नचैवं स्वीयभोजनपूर्ववर्त्तिपुरुषान्तरीयभोजनोत्तरवर्तियमनन्तदादाय 'भुक्त्वा गच्छति 'चैत्रः' इति प्रयोगं मैत्रः कुर्य्यादिति वाच्यम्, क्त्वाप्रत्ययार्थयोर्विशेष्यतया भाने प्रकृत्यर्थतावच्छेकरूपेणैकक्रियान्वयित्वस्य व्युत्पत्तिसिद्धस्य हेतुत्वात् । तथा च प्रकृत्यर्थतावच्छेदकधर्मावच्छि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy