SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३९० दर्पणपरीक्षासहिते भूषणसारेशब्द इति । साधुशब्दान्तर्गता वाचका न वेति विप्रतिपत्तिः। विधिकोटिरन्येषां, नेति धैयाकरणानाम् । साधुशब्दे 'पचति' 'राम' इत्यादिप्रयुज्यमानेऽन्तर्गतास्तिब्विसर्गादय एव; बोधकाः-वाचकाः। तेषामेव शक्तत्वस्य प्राग्व्यवस्थापितत्वात् । नतु तैः स्मृता -लादय दर्पणः विप्रतिपत्तित्वाऽसम्भवः । नैयायिकैरपि साध्वन्तर्गतानां केषाञ्चिद् वाचकत्वाभ्युपगमात् । तादृशवर्णत्वावच्छेदेन वाचकत्वादिसाधने तु वैयाकरणानां परेषां विकरणेषु बाधश्चेत्याह-*तत्स्मृता इति । ननु यथाश्रुते साधुशब्दान्तर्गता वाचकास्तदन्तर्गतवर्णस्मारिता नेत्यर्थलाभादेतद्वा. क्यस्य विभिन्नधर्मिबोधकत्वाद्विप्रतिपत्तित्वस्यैवासम्भवः। एकधर्मिकविरुद्धकोटिकसंशयजनकस्यैव तत्त्वादतो व्याचष्टे सारे-*साधुशब्दान्तर्गता इति । साध्वन्तर्गतवर्णस्मारिता इत्यर्थः । यथाश्रुते साध्वनन्तर्गतविपरीतानां पूर्वोक्तवर्णानां वाचकत्वस्य के. नाप्यनभ्युपगमाद् बाधसिद्धसाधनयोरापत्तेः। तत्स्मारितत्वं च शास्त्रबोधितादेशादेशि. भावनिमित्तनिमित्तिभावान्यतरसम्बन्धेन। तेन अस्यापत्यं 'इ.' 'इयानात्यादे संग्रहः। ___ *विधिकोटिरिति । समुच्चयव्यावृत्ता कोटिताख्या विषयता संशये आवश्यकीति सूचनायोक्तं-*कोटिरिति । *अन्येषाम्*-नैयायिकानाम् । तैः "लः कर्मणि" ( पा०सू० ३।४।६९ ) "स्वौजसमौट्” ( पा०सू० ४।१।२) इत्यादिविहितप्रत्ययानामेव वाचकत्वम् , तिब्विसर्गादीनां त्वादेशिस्मृतिद्वारा बोधकत्वमेव लिपिवदित्यभ्युपगमात् । तथाच साध्वन्तर्गतवर्णस्मारितवर्णत्वावच्छेदेन मतभेदेनोभयसाधनान्नोक्तदोष इति भावः । यथाश्रुतमूलोक्तविप्रतिपत्तिमनुसृत्याह-*साधुशब्द इत्यादि । ननु सा. ध्वन्तर्गतवर्णानां बोधकत्वसाधनेऽपि न वाचकत्वसिद्धिरत आह-*बोधका वाचकाइति । *तस्यैवेति । बोधकत्वस्यैवेत्यर्थः । *प्रागिति । शक्तिनिरूपणावसर इत्य परीक्षा ___ *तत्र = अष्टसु । तान् = स्फोटान् । विप्रतिपत्तिरिति । संशयजनककोट्युपस्थापकं वाक्यमित्यर्थः । साधारणासाधारणधर्मवत्ताज्ञानजन्यकोट्युपस्थितेर्यथा संशयजनकत्वम् , तथा विप्रतिपत्तिवाक्यजन्यकोट्युपस्थितिसत्षेऽपि संशयो भवति, साधारणो धर्म:-कोटिद्वयसामानाधिकरणो धर्मः, स्थाणुत्वस्थाणुत्वाभावसमानाधिकरणो धर्मवानयम्-वह्निमदवृत्तिवह्नयभाववद् पर्वतत्ववानयमिति वा ज्ञानं, यत्र ततः स्थाणुत्वतदभावयोर्वह्नित्वतदभावयोर्वोपस्थितावयं स्थाणु नवाऽयं वह्नि नैवेति संशयो भवति, तथा चैत्रेण शब्दो नित्यो वाऽनित्यो वेत्युच्चारिते मैत्रस्य ततः कोटिद्वयोपस्थितौ शब्दत्वावच्छिन्नैकविशेषतानिरूपितोभयकोटिप्रकारताकः संशयो भवति । असाधुशब्दान्तर्गतवर्णानां वाचकत्वमप्रस्तुतम् , अतः साधुशब्द इत्युक्तिर्मले ता. शविप्रतिपत्तिवाक्येन साधुशब्दान्तर्गतवर्णत्वसामानाधिकरण्येन वाचकत्वं साध्यते, तदवच्छेदेन वा। आद्य-नैयायिकैरपि केषाञ्चित्तादृशानामिजादिप्रत्ययानां दाक्षि. रित्यादौ वाचकत्वस्वीकारात्सिद्धसाधनापत्तेः । द्वितीये नैयायिकानाम्परेषाञ्च बाधः। विकरणानामनर्थकत्वादत आह-*नतु तैः स्मृता इति । नन्वेतावतापि न विप्रतिपत्तिशरीरनिष्पत्तिः, साधुशब्दान्तर्गतवर्णत्वसामानाधिकरण्येन वाचक
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy