________________
स्फोटनिर्णयः ।
३९१
स्वादयश्चेत्यर्थः ॥ ६१ ॥
ये तु प्रयोगान्तर्गतास्तिव्विसर्गादयो न वाचकाः । तेषां बहुत्वेन शक्त्यानन्य।पत्तेः, एधाञ्चक्रे ब्रह्मेत्यादावादेशलुगादेरभावरूपस्य बोधकत्वासम्भवाश्च । किन्तु तैः स्मृता लकाराः स्वादयश्च वाचकाः । लत्वस्य जातिरूपतया शक्ततावच्छेदकत्वौचित्यात् ।
दर्पणः
र्थः । बोधकत्वसिद्धौ च तदन्यथानुपपत्त्या पदार्थान्तररूपा शक्तिरपि सिद्धयेत्, तदभावे तु साऽपि नेति वाचकत्वसामान्याभावसिद्धिरिति भावः ॥ ६१ ॥
नैयायिकमतं दूषयितुमुपन्यस्यति--ये त्विति । वाचकत्वाभावे प्रयोजकमाह*तेषामिति । बहुत्वेनेत्युपलक्षणमनुगमकधर्माभावस्यापि तिङ्त्वसुप्त्वादीनामेकवच_नत्वादिवदनुगमकत्वासम्भवात्तित्वाद्युपस्थितिं विनापि कृत्याद्यर्थोपस्थितेर्व्यभिचारेण शक्ततानवच्छेदकत्वाच्चेति बोध्यम् ।
ननु तिबाधादेशिनामपि तत्तदनुबन्धभेदेन नानात्वान्नोक्तरीत्या तेषां वाचकत्वमत आह - * एधामिति । अनुप्रयुज्यमानधातूत्तरैधादीनापि तदर्थबोधोपपत्तेर्वोक्तदोषोऽत आह - * ब्रह्मेति । आदिना 'अद्य तिष्यो, लिट्, धुक्' इत्यादिसंग्रहः । लुगादेरित्यादिना, लुब्लोपयोः सः । *तैरिति । आदेशैरित्यर्थः । उक्तदोषमाशङ्क्याह—*लत्वस्येति* | *जातिरूपतयेति । लडादिलेषु ल - इत्यनुगत प्रतीत्या तत्सिद्धिरित्यभिप्रायः ।
नव्यास्तु — शक्ततावच्छेदकतया न तत्सिद्धिः, सर्वलकारसाधारणलत्वस्यातिप्रसक्तत्वाद्दशलकारमात्रवृत्तेस्तु शक्तिग्रहात् पूर्वमनुपस्थितेः पचन्नित्यादौ कृतिबोधापत्त्या परीक्षा
त्वस्य नैयायिकसम्मतस्य तदन्तर्गते तत्स्मृते वाचकत्वाभावस्यैव साधने धर्मिभेदादेकधर्मिकविरुद्ध नानाधर्मप्रकारकज्ञानस्यैव संशयत्वादत आह— साधुशब्दान्तर्गता इत्यादि । तथा च साध्वन्तर्गतस्मृतानाम्प्रक्रियानिर्वाहकानां लादीनां वाचकत्वसाधने तात्पर्य्यमिति भावः । “लः कर्मणिः” इत्यादि "स्वौजमौट्” इत्यादिषु विहितानामेव वाचकत्वम्, प्रयोगे श्रूयमाणादेशानान्तु तत्स्मारकतयोपयोग इति परेषाम्मतम् । एवञ्च साधुशब्दान्तर्गतवर्णस्मृतवर्णतावच्छेदेन कोटिद्वयसाधनमभिप्रेतमिति नोक्तदोष इत्याशयः । ' वाचकत्वमिति कोटिरन्येषाम्, नेति वैयाकरणानाम् । परेषाम्मतङ्खण्डयितुमुपक्रमते साधुशब्द इति । तेषामेव* - बोधजनकानामेव ॥ ६१ ॥
परमतमाह -*ये त्विति । तदन्तर्गतानां वाचकत्वाभावे साधकान्तरमाह-* तेषामिति* । बहुवचनेत्युपलक्षणम् । शक्ततावच्छेकधर्माननुगमादित्यपि बोध्यम् । किञ्चतित्वादीनां शक्ततावच्छेदकत्वे तद्धर्मप्रकारकज्ञानस्यार्थोपस्थितौ कारणता वाच्या, सा न सम्भवति, तिङ्त्वानुपस्थितावपि लत्वेनैवोपस्थिता वृत्त्या कृत्याद्यर्थस्योपस्थिविदर्शनेन व्यभिचारात् । नन्वानन्त्यम्भवतामपि स्मृतानां लडत्वलिडत्वादिरूपेण शक्तत्वस्य भवत्सम्मतत्वादत आह-* एवामिति । *असम्भवाच्चेति* श्रूयमाणा