________________
३९२
दर्पणपरीक्षासहिते भूषणसारेअव्यभिचाराश्च । आदेशानां भिन्नतया परस्परव्यभिचरितत्वात् । "लः कर्मणि" इत्याद्यनुशासनानुगुण्याञ्च । न ह्यादेशेष्वर्थवत्ताबोधकमनुशासनमुपलभामहे इत्याहुः । तान् स्वसाधकयुक्तिभिर्निराचष्टे
व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा ॥ किश्चाख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि ॥ ६२॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ।। व्यवस्थानुरोधात् प्रयोगान्तर्गता एव वाचकाः, न तु तैस्तत्स्मृ. ता इत्यर्थः । तथाहि-पचतीत्यादौ लकारमविदुषो बोधान्न तस्य
दर्पण: तस्य शक्तत्वाऽवच्छेदकत्वासम्भवाच्च तिप्तस्त्वादिकमेव तदवच्छेदकमित्याहुः । तथाचोक्तविप्रतिपत्तौ प्राचीनैः सह विवाद एवेति बोध्यम् ।
*अव्यभिचाराच्चेति । लत्वावच्छिन्नशक्तिग्रहस्य कृतिबोधात् पूर्व नियमेन सत्त्वात् , तिप्त्वादीनां शक्यतावच्छेदकत्वे तु तदवच्छिन्नशक्तिग्रहं विनाऽपि तसादिशक्तिग्रहवत् कृतिबोधेनाऽऽदेशवाचकतावादिमते व्यभिचारो दुरि इति भावः।
ननु कार्य्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशान्नेयमापत्तिरत आह-*ल: कर्मणीतीति । *इत्याहुरिति । तथाचादेशानामेव वाचकत्वं सप्रमाणमिति तद्भावः। *स्वसाधकेति । स्वमतपरिपोषकेत्यर्थः । व्यवस्थितरित्यादिपञ्चम्यन्तत्रयस्य पूर्वकारिकास्थबोधकपदार्थेऽन्वयं प्रदर्शयन्नादौ व्यवस्थितेरित्येतद्विवृणोति-*व्यवस्थानु.
परीक्षा देशा एव वाचका इति भवत्सम्मतम्-तथा च प्रकृते आदेशानामश्रवणेनार्थबोधो न स्यादिति भावः। यद्यप्येधाञ्चक्र इत्यादावप्रयुज्यमानानामादेशानां सम्भवति तथापि ब्रह्मत्यादावसम्भव एवेत्याशयेन द्वितीयोपादानम्। आदिना "अतो हेः” इति लुग्विषये भवेदित्यादेरजर्घा इत्यादेश्वोपग्रहः लुगादेरित्यादिना लोपस्य संग्रहः। *तैः = आदेशैः । - ननु लकारस्य वाचकत्वेप्युक्तरीत्याऽनुपपत्तिरेवातआह-*लत्वस्येति । जातिरूपतयेति*-लत्वेऽनुगतप्रतीत्या तस्य सिद्धिरित्याशयः। *अव्यभिचारादिति । लिट्त्वादीनां शक्ततावच्छेदकत्वे स्वावच्छिन्नज्ञानाद्यनार्थोपस्थितिस्तत्रार्थोपस्थितेः प्रकृतित्वावच्छिन्नज्ञानाभावाद्वयभिचारः। एवमन्यत्रापि बोध्यम् । लत्वस्य शक्ततावच्छेदकत्वम्पाणिनिसम्मतमपीत्याह-*लः कर्मणीति* । नच लत्वस्य लवणादिशब्दघटकलकारेऽपि सत्वेनातिप्रक्तत्वमिति वाच्यम् । लट्त्वाधन्यतमत्वसामानाधिकरण्यविशिष्टलत्वं शक्ततावच्छेदकमित्यभिमानात् । *स्वसाधके. ति । स्वमतनिर्दुष्टसाधकेत्यर्थः । *व्यवस्थितेरिति । पञ्चम्यन्तन्तत्र यस्य हेतुसूचकस्य पूर्वकारिकाप्रतिपाद्यसाध्यसाधकत्वन्तत्रैवान्वयो बोध्यः । एतद्विवरणेन दर्शयति-*व्यवस्थानुरोधादित्यादिना । प्रमाणेन वस्तुतस्त्वस्य निर्धारणं व्यवस्था, तस्यास्साधकयुक्तिमित्यर्थः । *अविदुष इति*-अवैयाकरणस्येति शेषः ।, *तल्य*
AHANI