SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ स्फोटनिर्णयः । ३९३ वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमाद् बोधः । तस्य भ्रमत्वे मानाभावात् । आदेशिनामपि तत्तद्वैयाकरणैः स्वेच्छया भिन्नानामभ्युपगमात् , कः शक्तः को नेति व्यवस्थानापत्तेश्च । सर्वेषां शक्तत्वे गौरवं, व्यभिचारश्चास्त्येव । मादेशानां प्रयोगान्तर्गततया नियतत्वाद् युक्तं तेषां शक्तत्वम् । तथाचाऽऽदेशिस्मरण. दर्पणः रोधादिति । प्रमाणेन पदार्थनिर्धारणं व्यवस्था तदन्यथानुपपत्तेरित्यर्थः । *शक्तिभ्रमादिति । लत्वावच्छिन्ननिष्ठवाचकत्वस्य तत्रारोपादित्यर्थः । *मानाभावादिति । विषयबाधस्यैव भ्रमत्वे तन्त्रतया प्रकृते बोधकत्वशक्तेस्तनाबाधादिति भावः । । नन्वादेशानां बहुत्वमेव तत्र शक्तिस्वीकारे बाधकमत आह-*आदेशिनामपी. ति* । *वैयाकरणैः । शाकटायनप्रभृतिभिः । *व्यवस्थेति । इदमेव वाचकमिति निर्धारणाऽनुपपत्तेरित्यर्थः। अनुशासनस्य सर्वत्रापि सत्त्वादिति भावः । सर्वेषामित्यस्य विनिगमकाभावादित्यादिः । ननु तथाप्यादेशापेक्षयाऽऽदेशिनामल्पत्वेन तत्प्र. युक्तालाघवादादेशिष्वेव वाचकत्वं सेत्स्यतीत्यत आह-*व्यभिचारश्चेति । ननु विनिगमनाविरहादेवादेशिनां वाचकतासिद्धिरत आह-*आदेशानामिति । तथाच गौरवादिदोषस्य तत्परिहारस्य चोभयोः साम्येऽप्यादेशिस्मरणकल्पनाविरहप्रयुक्तलाघवसहकृतप्रयोगनैयत्यमेवादेशानां वाचकत्वे विनिगमकमित्यखण्डलार्थः। ___ ननु बोधकतायाः शक्तित्व एव भवदुक्तव्यवस्थोपपत्तिः । न च बोधकत्वस्य शकित्वं तन्मतसिद्धं, किन्तु सङ्केतस्य पदार्थान्तरस्य वा तत्त्वम् । तथाचानुशासनेन यत्र सा प्रतिपाद्यते तत्रैव तदङ्गीकारेण कथं तिबादिषु तत्सिद्धिः। स्मरणकल्पनागौरवं तु प्रामाणिकत्वादपि न दुष्टमित्यस्वरसात् प्रयोगे श्रूयमाणानां तिबादीनां वाचकत्वे सा. परीक्षा लत्वावच्छिन्नस्य, *तेषाम्*-अवैयाकरणानाम् । *शक्तिभ्रमादिति। बोधकत्वरूप. शक्तरारोपादित्यर्थः । *मानाभावादिति । बोधकत्वरूपायाः शर्वाधाभावादिति भावः । लकारस्यैव कर्मत्वादौ विधानं यदि सर्वव्याकरणे प्रासद्धन्तदा भवदुक्त सम्भवः स्यात् , तदेव तु न । ललिडितिवत्ककिडित्यादिरीत्या विधानेऽपि प्रयोगो. पपत्तेरित्याशयेनाह-*आदेशिनामपीति | *वैयाकरणैः-शाकटायनादिभिः । *व्यवस्थानापत्तेश्चेति । इदमेव वाचकमिति निर्णयानुपपत्तेरित्यर्थः । अनुशासनानुरोधो हि भवताम्बलम्, तत्त्वनुशासन सम्भवतीति भावः। ___ नन्वस्तु विनिगमनविरहात्सर्वेषां वाचकत्वमत आह-*सर्वेषामिति । नन्वादेशापेक्षया आदिशिनामल्पत्वमेवेत्याशङ्कायामाह-व्यभिचार इति* । लत्वावच्छिन्न. ज्ञानाद्यनार्थोपस्थितिस्तत्र तिब्त्वावच्छिन्नज्ञानस्य ततः पूर्ववर्तिस्वाभावेन व्यमि. चार इत्यर्थः । स्वमतस्योपपत्तिमाह-*आदेशानामिति । यद्यप्यादेशिनामादेशापेक्षया आधिक्यागौरवम् । एवम्प्रत्येकज्ञानस्य कारणतायां व्यभिचारश्च । अस्मन्मतेऽपि तथादेशिस्मरणकल्पना नेति लाघवसहकृतप्रयोगनियतत्वमस्माकं विनिगमकम् । व्यभिचारवारणन्त्वव्यवहितोत्तरत्वसम्बन्धेन कारणवैशिष्टयस्य कार्यता -०८०प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy