SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - स्वयमेवेति न दर्शनस्य घटावृत्तित्वात्, तथा यत्नस्यापि इति तथा प्रयोगाना पत्तेरिति ॥ ६ ॥ ६० नन्वेवं कृञदेवि जानातीत्यादेरपि विषयावच्छिन्नावरणभङ्गादिफलवाचित्वमावश्यकम् । अन्यथा सकर्मकतानापत्तेः । तथाच दर्पणः स्यादिति लक्ष्यकोटावुपात्तमिति ॥ *घटावृत्तित्वादिति ॥ घटमात्रवृत्तित्वाऽभावेन कर्मस्थक्रियकत्वाभावादिति तु परमार्थः ॥ ६ ॥ * एवमिति ॥ कर्मवद्भावाऽनुरोधेन करणाऽर्थ करोतेरुत्पत्तिसहितयत्नाऽर्थकत्वाऽभ्युपगमे इत्यर्थः । जानात्यादेरपीत्यादिपदाद् गम्यादिपरिग्रहः । आवरणभङ्गादीत्या - दिपदेन तु संयोगादेः सः । आवश्यकमित्यनेन तत्र ज्ञानस्यव फलत्वाङ्गीकारे तदना• श्रयत्वाद् घटादेः कर्मत्वानुपपत्तिरपि सूच्यते । आवरणभङ्गस्याऽप्यतीतादौ यथा फलत्वं तथा सारे एव सुबर्थनिर्णये वक्ष्यते ॥ *सकर्मत्वाऽनापत्तेरिति ॥ स्वार्थफलव्यधिकरणेत्याद्युक्तरूपस्य तत्राऽसम्भवादिति भावः । वस्तुतस्तु-जानातेर्ज्ञानरूपफलार्थकत्वमेव युक्तम् । 'नच कर्तृस्थभावकानां कर्मणि क्रियायाः प्रवृत्तिरस्ति' इति भाष्येण कर्तृस्थभावकानां क्रियाफलस्य कर्ममात्रे वृत्ति - र्नास्तीत्यर्थकेन कर्त्तृकर्मोभयसाधारणफलार्थकत्वं कर्त्तृस्थक्रियकत्वं वदता कर्ममात्रवृत्तिफलार्थत्वरूपकर्मस्थक्रियकत्वस्यैवाऽभ्युपगमेन तत्राऽऽवरणभङ्गस्य फलत्वे तत्पक्षे कर्मवद्भावस्य दुर्निवार्यतापत्तेः । तादृशश्चायमेव पक्षो जनातीत्यादौ ज्ञानेच्छाद्यनुकूलो व्यापार इति शाब्दबोधप्रकारं दर्शयता ग्रन्थकृताऽपि । प्रकृते आशङ्कासमाधाने तु भाष्यहर्य्याद्युक्तप्रथमकल्पाऽभिप्रायेणेति सारे एव स्फुटम् । नचोक्तकल्पे ज्ञानस्य समवायेन घटादावसत्त्वात्तेषां जानातिकर्मत्वानुपपत्तिः । ज्ञानस्य तदनुकूलव्यापारस्याश्रयतादेश्व सामानाधिकरण्यादकर्मकत्वापत्तिः, कर्तृस्थभावकत्वानुपपत्तिश्चेति वाच्यम् । शास्त्रे ज्ञानं, घटे ज्ञानमिति प्रतीत्या विषयतया तस्य ज्ञानाश्रयताभ्युपगमेनाद्यदोषस्य फलताऽवच्छेदकसम्बन्धघटितसामानाधिकर परीक्षा विहितं लक्ष्यत इत्यर्थः । *घटावृत्तित्वादिति । घटमात्रवृत्तित्वाभावादित्यर्थः । यत्र फलताव्यापारजन्यतान्यतरावच्छेदकसम्बन्धेन कर्तृकर्म्माभयसाधारणं फलं धातुना प्रतिपाद्यते, तत्र क्रियायाः कर्त्तस्थत्वव्यवहारात् । यथा दृश्धातुना । अयं हि फलतावच्छेदकविषयतया कर्मनिष्टं ज्ञानरूपं व्यापारजन्यतावच्छेदकसमवायेन कर्त्तृनिष्टं फलं प्रतिपादयति, एवं यत्नस्यापि बोध्यम् ॥ ६ ॥ *एवमिति । कर्मवद्भावानुरोधेन करोतेरुत्पत्यनुकूलव्यापारार्थकत्वस्वीकारे इत्यर्थः । *जानातीत्यादेरिति । आदिना गम्यादिपरिग्रहः ॥ *विषयावच्छिन्नेति। विषयसम्बद्धेत्यर्थः। इदं स्वरूपकीर्त्तनम्, न तु धात्वर्थकुक्षिप्रविष्टम् । आवरणभङ्गानुकूलव्यापारस्यैव तदर्थत्वात् । अन्यथाऽकर्मकत्वापत्तिः स्यात् । आदिपदेन संयोगस्य परिग्रहः । *अन्यथा * -- उभयोर्ज्ञानसंयोगमात्रार्थकत्वे । *सकर्मकतानापत्तेरिति । फलव्यापारोभयवाचकत्वाभावेन स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वाभावापत्तेरित्यर्थः ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy