________________
धात्वर्थनिर्णयः।
अत एवाहकिन्तूत्पादनमेवातः कर्मवत् स्याद् यगाद्यपि । कर्मकर्तय॑न्यथा तु न भवेत् तद् दृशेरिव ॥ ६॥
उत्पादनम्-उत्पत्तिरूपफलसहितं यत्नादि कृअर्थ इत्यर्थः । फलस्य वाच्यत्वे युक्त्यन्तरमाह-*अत इत्यादि* ॥ यतः कृतो यत्नमात्रमों नेष्यते, अतः कर्मवत् स्यादिति पदेन "कर्मवत् कर्मणा तुल्यक्रियः" (पासू०३।१।७) इति सूत्रं लक्ष्यते । अयमर्थःयत एवास्योत्पादनार्थकता, अतः पच्यते ओदनः स्वयमेवेतिवत् क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते । अन्यथा यत्नस्य कर्मनिष्ठत्वाऽभावात् तन्न स्यात्, इशिवत् । यथा दृश्यते घटः
दर्पणः न्महद्भूतश्चन्द्रमा इत्यादावात्ववारणायाऽऽश्रितस्य गौणमुख्यन्यायस्य विशिष्यार्थीपस्थापकविशिष्टरूपोपादानपुरस्सरपदकार्यविषयकत्वस्याऽन्यत्र व्यवस्थापनाच नाऽत्र तद्विषयतेत्यन्ये।
परे त्वेतच्छास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थकत्वमेव सकर्मकत्वम् । सकर्मकपदात्, कर्मणा सहेत्यर्थकाच्छब्दमर्यादया पूर्वोक्तार्थालाभाच्च "लः कर्मणि" इत्यादौ सकर्मकपदादुभयबोधाऽनापत्तेः । तदनन्वय्यर्थकत्वमकर्मकत्वम् । अत एवाऽध्यासिता भुमयः इत्यादौ कर्मणि तोपपत्तिः । अन्वयस्य पृथगुपस्थितसंसर्गरूपतया न जीवत्यादिषुदोष इत्याहुः। ___ अयमेव पक्षः 'फलाऽवच्छिन्नव्यापारबोधकत्वं सकर्मकत्वम्' इति वदनिराश्रितः । फलस्य कर्मतायाः सर्वैरेवोपगमात् । फलाऽन्वय्यर्थकत्वस्य सकर्मकेषु सत्त्वात् । यदि चैकोपस्थितिविषयत्वानोक्तः प्रकारः सम्भवतीति विभाव्यते तदा पृथक् शक्तिवादिमते निर्दुष्टत्वमेव । अवच्छिन्नपदस्य सम्बन्धपरत्वेन कर्मीभूतफलसम्बन्धिव्यापाराऽर्थकत्वस्य सुस्थत्वात् । अकर्मकाणां फलार्थत्वाऽनङ्गीकारेणातिव्याप्त्यव्याप्त्योरनवकाशादित्यवधेयम् । 'अध्यासिताभूमय' इत्यादौ यथोक्तोपपत्तिस्तथोपपादितं प्राक्॥६॥ । ननु 'कर्मवत् स्याद् यगाद्यपि' इति मूलस्य कर्मवद् यगाद्यपि भवेदित्यर्थो लभ्यते । स च बाधितोऽविवक्षितश्चेत्यत आह-*कर्मवत्स्यादिति पदेनेति* ॥ *सूत्रं लक्ष्यत इति । सूत्रविहितं लक्ष्यते इत्यर्थः। यथाश्रुते कर्मपदात् स्वघटितत्वेन लक्षणया सूत्रोपस्थितावपि तस्य यगादिकमित्यनेनाऽनन्वयापत्तेः । एतबोधनायैव,
परीक्षा
*अत एव*-उक्तरीत्या धातूनां फलव्यापारोभयवाचकत्वादेव । *फलसहितमिति* । उत्पत्त्यनुकूलव्यापारस्य कृज्वाच्यत्वमित्यर्थः। अतः पूर्वोक्तं सकर्मकत्वं सुगमतयोपपद्यते, कर्मणि लकारश्वोपपद्यते । 'क्रियते कटः' इत्यादौ तेषामुत्पत्त्यादिरूपव्यापारव्यधिकरणफलाश्रयत्वेन कर्मत्वादिति भावः । *सूत्रं लक्ष्यते इति । सूत्र