________________
दर्पण परीक्षासहिते भूषणसारे -
त् । तथाच स्वार्थफलव्यधिकरणव्यापारवाचित्वादिरूपसकर्मकत्वोच्छेदापत्तिः । न च कृञादौ सकर्मकत्वव्यवहारो भाक्त इति नैयायिकोक्तं युक्तम् । व्यवहारस्य भाक्तत्वेऽपि कर्मणि लकारासम्भवात् । न हि तीरे गङ्गापदस्य भाक्तत्वेऽपि तेन स्नानादिकाय्यं कर्त्तुं शक्यम् । एवञ्च 'न हि यत्त' इत्यत्र यत्त्रमात्रम् इत्यर्थः ॥ ५ ॥
५८
दर्पण:
1
सूत्रोपयोगः । कर्त्तेत्यत्र तु कृञो यत्नबोधकत्वादेव नाऽचेतने स्वरसतः कर्त्तृपदप्रयोगः । एवञ्च कर्त्तृबोधनिर्वाहार्थं पचतीत्यादावाख्यातस्य कृतौ शक्तिरावश्यकी । तदर्थप्रयत्नस्याऽऽश्रयाश्रयिभावेन प्रथमान्तार्थेऽन्वयात् तद्बोधोपपत्तेः । यत्र तु न तद्बोfeat रथो गच्छतीत्यादौ, तत्र व्यापारे, आश्रयत्वादौ वा यथायथं लक्षणा । " स्वतन्त्रः कर्ता" ( पा० सू० ७ |४|५४ ) इतिसूत्रसामर्थ्येन, धात्वर्थव्यापाराऽऽश्रयं तत् प्रतियोगिनामपि कर्त्तत्वस्य परिभाषणान्न कर्तृबोधाऽनुपपत्तिः । यत्र प्रथमान्तसमभिव्याहारः । यत्र तु न समभिव्याहारस्तत्र कृत्यादिविशेष्यक एव बोधः । "अनभिहिते" इत्यस्याप्यबोधित इत्येवाऽर्थः । अबोधनं त्वाश्रयाऽतिरिक्तार्थे विशेषणतया कृत्याद्यर्थप्रबोधनमेवेतिनाऽभिधानाऽनभिधानव्यवस्थाऽनुपपत्तिः । चैत्रः पचतीत्यादौ कर्तृबोधस्य कृतिशक्त्यैव निर्वाहे तत्राऽख्यातशक्तिकल्पनाऽनौचित्याच्च । व्यापारव्यपदेशाऽभावेन विक्कत्त्यादीनामुक्तधर्मत्वस्योपलक्षणत्वाऽनुपगमात् पृथक् शक्तिरदुष्टैव । फलत्वं तु पूर्व निरूपितमेव । एवं सति क्वचिद् दूषणं प्रसक्तमवगणयिष्यते इत्याहुः । एवं सकर्मकत्वादिनिर्वचनानुपपत्त्या धातोरुभयार्थकत्वमावश्यकमिति पर्यवसितम् ।
व्यापारमात्रशक्तिवादिनस्तु — द्वितीयाद्यर्थान्वय्यर्थकत्वं सकर्मकत्वम् । पच्यादिसमभिव्याहारे द्वितीयाया विक्लत्याद्यर्थकत्वात् । जानात्यादिसमभिव्याहारे च विषयत्वाऽद्यर्थकत्वात् तदन्वयित्वं तदर्थेऽक्षतमित्याहुः । जानात्यादियोगे घटादीनां गौणकर्मत्वमिति वदतां मतमाशङ्कय निराचष्टेन चेति । *भाक्त इति । भज्यते आमृद्यते सेव्यते वा शक्यार्थोऽनयेति भक्तिर्लक्षणा तया शक्यार्थस्य तिरोधानात् । स्वज्ञाने घटकतया शक्यार्थस्यापेक्षणाच्च । तत आगतो भाक्त इत्यर्थः ॥
*भाक्तत्वेऽपि*— लक्षणा निबन्धनत्वेऽपि ॥ *कर्मणीति ॥ मुख्यसकर्मत्वमादाय शास्त्रस्य चारितायें गौणे तद्व्यापारे मानाभावादिति भावः । तत्र लाकिकं दृष्टान्तमाह-न हीत्यादि । भाक्तराजपदव्यवहाय्र्येण पुरोहितादिना तदीयकार्यप्रवर्त्तनापरीक्षा
पूर्वार्द्धनोक्तरीत्या साधयित्वा । *भाक्तो - गौणः, सविषयकार्थवाचक धातुसमभिव्याहारे विषयत्वरूपं गौणं कर्मत्वमिति तदीयव्यवहारात् । *नैयायिकोक्तम्*प्राचीननैयायिकोक्तम्, नवीनैरुभयोर्वाच्यतायाः स्वीकारात् भज्यते - आश्रीयते, स्वप्रयोजकतया शक्यार्थोऽनया सा भक्तिर्लक्षणा 'तत आगतः, तत्परत्वाभावसम्पादकतया लक्ष्यार्थस्तस्या भक्तः सम्बन्धी भाक्तः । *भाक्तत्वेऽपीत्यर्थः - गौणत्वेऽपीत्यर्थः । *असम्भवादिति* । मुख्ये कर्मणि 'पच्यते तण्डुल' इत्यादौ "लः कर्मणि” इत्यस्य चरितार्थत्वात् । तत्र लौकिकं दृष्टान्तमाह-न हीति-अधिकमन्यत् ; तद् ऊहनीयम् ॥५॥