SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । अयम्भावः-फलांशस्यावाच्यत्वे व्यापार एव धात्वर्थः स्या ५७ दर्पणः ननु कृञः फलवाचकत्वे कथमकर्मकत्वमत आह-अयं भाव इति । वाचकत्वादीत्यादिना स्वार्थव्यापारव्यधिकरणफलवाचकत्वस्य नैयायिकनये फलाऽवच्छिन्नव्यापाराऽर्थकत्वस्याऽपि सकमर्कत्वात्तस्य च सङ्ग्रहः । जानात्यादीनामेव फलार्थकत्वानभ्युपगम उच्छेदपदार्थोऽव्याप्तिः, सर्वेषामेव तदनभ्युपगमे त्वसम्भवः । तथाच-कृञ्धातुः फलवाचकः; सकर्मकत्वात् पच्यादिवदित्यनुमाने विपक्षबाधकतर्क प्रदर्श कम् *कृञो ऽकर्मके*त्यादीति बोध्यम् । वस्तुतस्तु -- व्यापारो भावना सवेति पूर्वार्द्धमेव विवरणप्रतिपादनेन धातोः फलव्यापारोभयार्थत्वसाधकम् । तथाहि — धातोर्व्यापारार्थकत्वेऽसिद्धे भावनादिपदै - र्व्यापारपदविवरणपरतैव तस्य वाच्या । व्याख्यातं च तथैव सारकृता । तथाचव्यापारार्थककुजेव विक्लित्याद्यर्थ कपाका दिपदेनाऽपि विवरणादुभयोरपि धात्वर्थत्वसिद्धिः, तत्र जानात्यादौ फलांशे विप्रतिपन्नं नयायिकं प्रत्युक्तार्थोपष्टम्भकतया कृञो ऽकर्मकतेत्याद्युक्तम् । धातुमात्रे व्यापाराऽवाचकत्वं वदन्तं मीमांसकं प्रति तु तदुपपादकतयैव तस्मात्करोतिरित्यादि । यद्यपि व्यापारांशे विप्रतिपन्नं प्रत्यपि कृञ इत्याद्युपष्टम्भकम्, तथापि विवरणस्यैवाssख्यातपरतया सकर्मकत्वस्य व्यापारार्थकत्वं विनाऽप्यन्यथासिद्धावुद्भावितायां तदुग्रन्थस्याऽऽवश्यकत्वादिति । नव्यनैयायिकास्तु-सकर्मकधातूनां फले तज्जनकत्वेन विवक्षितव्यापारेषु चोपलक्षणीभूतसाधनाऽऽकाङ्क्षोत्थापकताऽवच्छेदकधर्म समानाऽधिकरणधर्मत्वाऽनुगतीकृततत्तद्धर्मावच्छिन्नेषु शक्तिः सम्भवति ; फलजनकतया विवक्षितानां तेषां विभिन्नधर्मवत्त्वम् । यत्र त्वेकधर्माऽवच्छिन्नस्यैव फलाऽनुकूलत्वं विवक्षाविषयस्तत्र तदवच्छिन्न एव धातोः सा । न हि सर्वत्र समुद्राय एव शक्तिरिति राजाऽऽज्ञाऽस्ति । 'क्रिया नामेयम्' इत्यादि भाष्यं तु बहुकालसाध्योक्तधात्वर्थविषयमिति न तद्व्याकोपः । अन्यथा सर्वत्राऽगतिकगत्यारोपाश्रयणापत्तेः । तेषामेव च व्यापारपदव्यपदेश्यत्वम् । कृतित्वस्य तादृशधर्मसमानाधिकर णधर्मत्वेऽपि न तस्य पच्याद्यर्थताऽवच्छेदकत्वम् । तदंशे तस्योपलक्षणत्वाऽनङ्गीकारात् । अत एव व्युत्पन्नानां न कदाचिदपि तत्तात्पर्येण यागपाकादिपदप्रयोगस्तथा प्रयुक्तादपि तस्मात्पाकादिकृतिबोधश्च । एतेन तस्या अपि व्यापारतया धातोरेव लाभान्न तिङस्तत्र शक्तिरितिनिराकृतम् । जानात्यादीनां तु विषयत्वं फलं तन्निर्वाहकज्ञानादिव्यापारश्च शक्यम् । कृञस्तु सांध्यत्वं यत्नश्चाऽर्थः । तेन तद्धात्वर्थ फलसम्बन्धित्वरूपं मुख्यकर्मत्वं घटादीनां निराबाधम् । एवं स्वार्थफलव्यधिकरणत्वरूपं सकर्मकत्वमपि । यत्याद्यकर्मकाणां तु तत्तद्धर्मावच्छिन्नयत्नादिरूपव्यापार एव सा । भोजनं यतते - इत्यप्रयोगेण तद्विषयत्वस्य धातुशक्यत्वाऽनुपगमात् । यतत इत्युक्ते कर्माकाङ्क्षाया अभावाच्च । अध्याद्युपसृष्टशीङादीनां तु फले निरूढलक्षणैव । शीङादितः सर्वत्र फलाबोधात् । तदर्थेऽनादितात्पर्य्यग्राहकतयैव च "अधिशीस्थासाम्” (पा० सू : ७१४:४६ ) इत्यादि ८ दु० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy