SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। ज्ञायते घटः स्वयमेवेति किन्न स्यात् । एवं ग्रामो गम्यते स्वयमेवेत्याद्यपीत्याशङ्कां मनसि कृत्वाहनिर्वत्यै च विकार्ये च कर्मवद्भाव इष्यते न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः ॥७॥ ईप्सितं कर्म त्रिविधं-निर्वत्यं विकायं प्राप्यञ्च । तत्राद्ययोः कर्मवद्भावो, नान्त्ये । प्राप्यत्वञ्च-क्रियाकृतविशेषानुपलभ्यमान दर्पणः ण्यघटिताऽकर्मकत्वस्य तत्राऽभावेन द्वितीयस्य विषयतासमवायाभ्यां कर्मकठुभयवृत्तित्वेनाऽन्त्यदोषस्य वाऽभावात् । अधिकमग्रे वक्ष्यते। प्रकृतमनुसरामः-*किन्न स्यादिति ॥ क्रियते घटः स्वयमेवेत्यत्र घटस्योत्पत्तिरूपफलाश्रयत्ववदावरणभङ्गरूपफलाश्रयत्वस्यापि सत्वादिति भावः । ननु निर्वर्त्यविकार्यकर्मणोः कर्मवद्भावो, न प्राप्यकर्मणीत्यत्र किं मानमत आह मूले-सिद्धान्तोऽत्रेति* ॥ अत्र “कर्मवत् कर्मणा तुल्यक्रियः” (पा० सू० ३।११८७) । इतिसूत्रभाष्ये । तत्र हि "धातोरेकाच" इति सूत्रादनुवर्तमानधातुग्रहणेन धातुवाच्यक्रियया इत्यर्थलाभेन 'साध्वसिश्छिनत्ति 'स्थाली पचति' इत्यादौ करणाधिकरणाभ्यां तुल्यक्रिये कर्त्तरि वस्तुतः सतोऽपि व्यापारस्य धातुवाच्यत्वाऽभावादेवाऽनतिप्रसङ्गे कर्मग्रहणमतिरिच्यमानं कर्मस्थक्रियां लक्षयतीति सिद्धान्तो व्यवस्थित इत्यर्थः। कर्मस्थक्रियकत्वं च प्राप्यभिन्नकर्मण्येव सम्भवतीति दर्शयितुमादौ वक्ष्यमाणमपि विभागं सुखबोधायाऽऽह- ईप्सितङ्कमेति ॥ यद्यपि द्वेष्याऽऽद्यनीप्सितस्याऽप्येष्वेवान्तर्भावात् कर्म त्रि परीक्षा अत्रेदं बोध्यम्-गमिजानात्योरुक्तोभयार्थकत्वं व्यवस्थाप्य 'ज्ञायते घटः स्वयमेव, 'ग्रामो गम्यते स्वयमेव' इत्यस्यापत्तिरुक्ता सा, विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थितेति प्रथमकल्पाभिप्रायेणः क्रिया व्यवस्था तु अन्येषां शब्दैरव प्रकल्पितेति । द्वितीये कल्पे तु जानातेः केवलज्ञानार्थकत्वेऽपि पूर्वोक्तरीत्या कर्तस्थक्रियकत्वस्य सत्वेन कर्मवभावस्य न प्राप्तिः, सकर्मकस्योपपत्यर्थन्तु ज्ञानानुकूलव्यापारार्थकत्वमभ्युपेयमिति । एवं च “कर्मवत्कर्मणा तुल्यक्रियः” इत्यस्य यथाश्रुतार्थकत्वाभिप्रायेण शङ्का प्राप्यकर्मत्वदर्शनेन समाधानमुत्तरश्लोकेन करिष्यमाणमपि प्राचीनसम्मतरीत्यैव । एतेन जानातीत्यत्र ज्ञानानुकूलव्यापारविषयकशाब्दबोधप्रदर्शकपूर्वग्रन्थविरोधोऽपि नेति । *मनसि कृत्वेति । अत्र मनसीत्यस्य गतिसंज्ञाऽनत्याधाने तेन यथाशङ्का, तथैवोत्तरमितिध्वनितम् । सिद्धान्तः*-वैयाकरणसिद्धान्तः । अयम्भावः-“कर्मवत्कर्मणा" इति सूत्रे तुल्यक्रिय इत्येवास्तु "धातोरेकाच" इति सूत्राद्धातोरित्यस्यानुवृत्या धातोर्वाच्यक्रियया तुल्यक्रिय इत्यर्थस्य करणाधिकरणाभ्यान्तुल्यक्रियकर्त्तावर्त्तकस्य लाभे सूत्रे ऽतिरिच्यमानं कर्मपदं कर्मस्थक्रियको योधातुस्तदीयकर्मणो लाभार्थमिति । तत्र कर्मस्थक्रियकत्वं कस्यास्ति कस्य नेति दर्शयितुं कर्मणां विभागमादौ करोति-ईप्सितमिति* । *अन्त्ये*-प्राप्ये, विशेषेति । धात्वर्थव्यापारजननात्प्राक्
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy