________________
धात्वर्थनिर्णयः ।
दर्पणः
।
टस्य कर्मत्वे प्रतिपिपादयिषिते, 'नीलं घटं जानाति' इत्यादौ द्वितीयानुपपत्तिरिति । अत्र नैयायिकाः- धावन क्रियाकर्तृत्वावरुद्धमृगस्य कर्मतासम्बन्धेन दृश्यर्थेऽन्वयोपगमात् पदैकवाक्यताभङ्गः । तदवरुद्धत्वं च तदन्वयितया तात्पर्यविषयत्वम् । नचैवं कर्मतासंसर्गेण तण्डुलस्याऽप्यन्वयसम्भवात् 'तण्डुलः पचति' इति प्रयोगापत्तिरिति वाच्यम् । यतो न वयं सामान्यतः कर्मत्वादिभेदसम्बन्धेन नामार्थस्य धात्वर्थेऽन्वयमभ्युपेमः, किन्तु क्रियान्तरकर्तृत्वाऽवरुद्धस्य । नच तण्डुलस्तथा, येन पच्याद्यर्थं तस्य कर्मतासंसर्गः स्यात् । अत एव 'काष्ठं भस्मराशिः करोति' इति न प्रयोगः । भस्मराशेः कर्त्तृत्वानवरुद्धत्वात् । 'काष्ठं भस्मराशिः क्रियते' इत्यादौ कर्मत्वान्तरावरुद्धक्रियायां तु तदनवरुद्धम्यापि व्युत्पत्तिवैचित्र्यात् । तस्य तत्र तत्संसर्गत्वाऽनभ्युपगमे वाक्या भेदाssपत्या तद्वाक्यजबोधस्य 'काष्ठं नश्यते, 'भस्म क्रियते इति वाक्यद्वय. जबोधस्येव 'भस्मकाष्ठविकृतिर्वा' इति संशयनिवर्त्तकत्वानापत्तेरित्याद्यन्यत्र प्रपञ्चितम् ।
एवं चात्र पदैकवाक्यताया अनायासेनैवोपपत्तौ धात्वर्थभावनाप्रकारकबोधे भावनोपस्थितेर्हेतुत्वं निष्प्रमाणकमेव । नाऽपि मृगपदोत्तरं द्वितीयाऽऽपत्तिः । प्रातिपदिकार्थविशेष्यतया कर्मत्वस्याऽविवक्षणात् । अत एव न तत्र षष्ठीप्रसक्तिरपि । संसर्गस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव “षष्ठी शेषे” ( पा०सू० २।३।५० ) इत्यनेन तद्विधानात् । एवं 'घटो नास्ति' इत्यादावपि बोध्यम् । किन्तु प्रातिपदिकार्थे तत्र प्रथमैव । नाऽपि 'नीलं घटं जानाति' इति प्रयोगानुपपत्तिः । घटस्य क्रियान्तरकर्त्तृत्वाऽनवरुद्धत्वेन कर्मत्वान्तरविशेषणतानापन्नायां जानात्यर्थक्रियायां कर्मतायाः संसर्गत्वाऽसम्भवात् ।
'पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः ।
इत्यादावस्तीत्यध्याहार्य्यम् । वस्तुतस्त्वत्र दृष्टान्तेन 'तण्डुलः पचति' इत्यादौ बोधrssपादनं न विचारसहम् । कर्मताऽन्यसंसर्गकपच्यर्थविशेष्यकबोधस्याप्रसिद्धौ तथाऽऽपादनासम्भवात्। 'तण्डुलं पचति' इत्यादौ विभक्त्यर्थकर्मत्वसम्बन्धेन ताहशबोधः प्रसिद्ध इति चेत्तर्हि तादृशबोधे द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतीत्यानुपूर्वीज्ञानस्य हेतुतया तदभावादेवाऽऽपाद्यस्याप्यऽसम्भवात् । तदुक्तम्- यादृशं फलं क्वचित् प्रसिद्धं तादृशस्यैवाऽऽपत्तिः सम्भवति' इति ।
४१
परीक्षा
ऽन्वये तु न क्वाप्यनुपपत्तिः । तादृशक्रियाकर्तृत्वापन्नस्य कर्मत्वमित्यस्य धावनक्रियाकर्त्तृत्वनिष्ठ प्रकारता निरूपित विशेष्यत्वावच्छिन्ना या कर्मत्वसम्बन्धावच्छिन्न या ताशक्रियानिष्ठविशेष्यता निरूपितप्रकारता तच्छक्तित्वमित्यर्थः । एवं सति तण्डुलः पचतीत्यस्मात्कर्मत्व सम्बन्धावच्छिन्नतण्डुलप्रकार कशाब्दबोधापत्तिवारणाय भेदसम्बन्धावच्छिन्ननामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेनान्वये प्रत्ययजन्योपस्थितेर्विशेष्यतासम्बन्धेन हेतुत्वमिति यः कार्य्यकारणभावस्तद्विरोधोऽपि न । यत्र भेदसम्बन्धावच्छिन्ननामार्थनिष्ठप्रकारताया अन्यनिष्ठप्रकारता निरूपितविशेष्यतानवच्छिन्नत्वम्, तत्रैव कारणबाधः क्षतिकरः । अत एव पदैकवाक्यता । तादृशविशिष्ट वैशिष्ट्या वगाहिबोधजनकत्वान्नापि मृगपदाद् द्वितीयापत्तिः । सम्भवति यत्र प्रातिपदिकार्थविशेष्यतया कर्मत्वस्यान्वयविवक्षाः तत्रैव कर्मत्ववाचिका विभक्ति६ द० प०