SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ दर्पणपरोक्षासहिते भूषणसारेमान्तपदजन्योपस्थितिः कारणमितिनैयायिकोक्तं नादरणीयम् । किन्तु आख्यातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावो द्रष्टव्यः। भावनाप्रकारकबोधं प्रति तु, कृजन्योपस्थितिवद् धात्वर्थभावनोपस्थितिरपि हेतुः। 'पश्य मृगो धावति' 'पचति भवति' इत्याद्यऽनुरोधादिति दिक् । . दर्पणः ङ्गीकर्तृनये एकवाक्यताऽनुपपत्तिरूपदूषणदाव्य चेत्यर्थः। *नादरणीयमिति । उक्तदोषग्रस्तत्वादिति भावः । स्वमतनिष्कर्षमाह-*किन्विति । फले व्यभिचारनिरासायोपस्थितिविशेष्यतां विशिनष्टि-*भावनात्वावच्छिन्नेति । ___ ननु त्वन्मतेऽप्याख्यातस्य धात्वर्थमुख्यविशेष्यकबोधजनकन्वनियमभङ्गाप्रसङ्गोऽत आह-*पश्येति । तथाचोक्तनियम एतदतिरिक्तविषयक इति भावः । __ननु धावनकर्त्तत्वविशिष्टमृगरूपवाक्याऽर्थस्य कर्मतया दर्शनेऽन्वयः । तथाच न "नामार्थयोः” इति व्युत्पत्तिविरोधः । वाक्यस्यानामत्वात् । अत एव न ततो द्वितीयापत्तिरपि। धावनविशिष्टस्य दर्शनकर्मत्वाऽवगतौ विशेषणीभूतधावनस्यापि कर्मतालाभाच्च न प्रतिपिपादयिषितान्वयालाभोऽपि । 'चैत्रः पचतिभवति' इत्यादौ तूक्तदिशैकवाक्यत्वमुपपादितमेव । तथाचोक्तकार्यकारणभावकल्पे कथं तदनुरोधो बीजमत आह-दिगिति । तदर्थस्त्वेवं रीत्या वाक्यैकवाक्यताप्रतिपादने भाष्यकृसम्मतपदैकवाक्यतया प्रतिपिपादयिषितान्वयालाभ एव । किं चाभेदेन नीलविशिष्टघ परीक्षा त्यस्याध्याहारः कार्य्यः इति क्रियाया दर्शनेऽन्वयो भविष्यतीति वाच्यम् । सर्वनाम्नां प्रधानपरामर्शकत्वेन भवन्मते धावनक्रियाया विशेषणत्वेन तस्याः परामर्शासम्भवात् । *एवं च*-आख्यातार्थविशेष्यकशाब्दबोधाभावसिद्धौ च । भवत्सम्मतकार्य्यतावच्छेदकधाक्रान्तस्यैवाभावात् । किञ्च भवदुक्तरीत्याऽऽख्यातार्थभावनाप्रकारकप्रथमान्तार्थविशेष्यकशाब्दबोधस्य स्वीकारे यत्र चोभे नामाख्याते भवतो वाक्ये 'तत्र ते भावप्रधाने' इति नैरुक्तवाक्यान्तरविरोधापत्तिर्दुर्वारा । स्वसिद्धान्तमाह-किन्विति । *भावनात्वावच्छिन्नेति । भावनात्वेनावच्छिन्ना समानाधिकरणा या विषयता तया । भावनात्वप्रकारतानिरूपितविशेष्यतयेति यावत् । ननु केवलमृगमात्रस्य चेत्कमेतया ऽन्वयः, तदा द्वितीयाप्राप्तिः। कर्मतासम्बन्धेनान्वये तु भेदसम्भवेनान्वयसम्भवरूपो दोषः प्राप्नोति। धावनानुकूलकृतिविशिष्टमृगस्य कर्मतासम्बन्धेन दृशिक्रियायामन्वये तु मृगपदाद् द्वितीयापत्तिः । मृगपदस्य कमवाक्यार्थावाचकत्वात् । नापि नामार्थधात्वथयोर्भेदसम्बन्धेन व्युत्पत्तिविरोधान्वय इत्यस्यावसरः । नामार्थस्यानन्वयात् , अत एव "श्रुत्वा ममतन्माहात्म्यं तथाचोत्पत्तयः शुभाः" इत्यस्योपपत्तिरिति चेद् ? न। नीलाभिन्नघटस्य कर्मतयाऽन्वयविवक्षायां नीलं घटं पश्येति प्रयोगानुपपत्तेः। किञ्च भाष्यसम्मतैकवाक्यत्वानु *दिगिति* । दिगर्थस्तु धावनक्रियाकर्तृत्वापन्नस्य मृगस्य दृशिक्रियायां कर्मतया द्धाराच्च ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy