SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। मासामानाधिकरण्याच्छतृप्रसङ्गः । एवमपि द्वितीयाया दुर्वारत्वेन 'पश्य मृग' इत्यादिवाक्यस्यैवाऽसम्भवापत्तेः। ... न च पश्येत्यत्र तमिति कर्माध्याहार्यम्। वाक्यभेदप्रसङ्गात्। उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतयाऽन्वयस्य प्रतिपिपादयिषितत्वाद्, अध्याहारेऽनन्वयापत्तेश्च । एवञ्च भावनाप्रकारकबोधे प्रथ दर्पणः प्रथमान्ताऽर्थसामानाधिकरण्येन विशेषितत्वान्मृगपदस्य द्वितीयान्तत्वे तदापत्त्या द्वितीया न भविष्यतीति शङ्कितुराशयः । न हि शत्रापत्तिद्वितीयाप्रतिबन्धिका, किन्तु कर्मणोऽभिधानम् । तदभावसत्त्वाच्च द्वितीया दुर्वारेत्याशयेन समाधत्ते-*एवमपीति। *असम्भवापत्तेरिति । मृगस्य कर्मतया दृश्यर्थेऽन्वयोपगमे 'धावन्तं मृगं पश्य' इति वाक्यस्यैवोचितत्वादित्यर्थः ।। ___ ननु अथैक्यादेकं वाक्यं साकाङ्क्षञ्चेद्विभागे स्याद्” ( पू० मी अ० २ पा० १ अ० १४ सू० ४६ ) इति जैमिनिसूत्राद् विच्छिद्य पाठे साकाङ्क्षत्वे सत्येकार्थप्रतिपत्तिजनकत्वमेकवाक्यत्वमित्यर्थो लभ्यते । प्रकृते तमित्युक्ते कमित्याकाङ्क्षासत्वाद्यथाकथञ्चिद्वाक्यद्वयस्य धावनाऽनुकूलकृतिमन्मृगकर्मकदर्शनरूपैकार्थप्रतिपादकत्वाच्च न वाक्यभेदप्रसङ्गोऽत आह-*उत्कटेति*। *अध्याहार इति* । पूर्वाऽनुपात्ताकासितपदस्याऽनुसन्धाने इत्यर्थः। *अन्वयापत्तेश्चेति । तत्पदेन मृगस्य धावनाऽनुकूलकृतिमन्मृगस्य वा परामर्शेऽपीप्सितस्य तादृशधावनक्रियाया दृश्यर्थकर्मत्वान्वयस्य तद्वाक्यादानाऽनुपपत्तेरित्यर्थः। उपसंहरति-*एवञ्चेति । आख्यातार्थविशेष्यकबोधाs परीक्षा न्तरवाक्यार्थबोधे सति यो महावाक्यार्थबोधस्तस्मिन् धावनस्य विशेषणतया भानं न स्यात् ; किन्तु प्राथमिकबोधविशेष्यस्य मृगस्यैव धावनं प्रति विशेषणत्वं स्यात् । एवं च मृगशब्दाद् द्वितीयापत्तिः । यदि च धावनानुकूलकृतिमान् मृगो दर्शनाश्रयत्वमिति बोधस्तदैकवाक्यत्वानुपपत्तिरस्त्येव । एकमुख्यविशेष्यकबोधजनकत्वं हि समुदायनिष्ठमेकवाक्यत्वम् , तद्भावसत्वात् । न च मृगपदार्थस्य कर्मतासम्बन्धेन दर्शनक्रियां प्रति विशेषणत्वमस्त्विति वाच्यम् । नामार्थधात्वर्थयोर्भेदसम्बन्धेनान्वयबोधस्याव्युत्पन्नत्वात् । एवमपि तिङा कर्मणोऽनभिधानेन द्वितीयापत्तिरस्त्येव । *एवम्*मृगपदाद् द्वितीयाप्रसङ्गे । *एवमपि*-लटः शत्रादेशप्रसङ्गऽपि । न हि लटः शत्रादेशो द्वितीयां प्रति प्रतिबन्धकः ; किन्तु कर्मणोऽभिधानम् ; तच्चात्र नास्तीति भावः । *वाक्यभेदप्रसङ्गादिति । एवं मुख्यविशेष्यकबोधजनकं ह्येकवाक्यम् । तथात्वं तु अस्य न स्यादित्यर्थः । ननु "अर्थक्यादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात्, इति जैमिन्युक्तैकवाक्यता अस्त्येव । विछिद्यपाठे साकाङ्क्षत्वे सत्येकार्थप्रतिपत्तिकरं ह्येक वाक्यमिति तदर्थात्, तच्चानास्त्येव । धावनानुकूलकृतिमन्मृगकर्मकदर्शनप्रतिपादकत्वस्यात्र सत्वादत आह-*उत्कटेत्यादि । *अनन्वयापत्तेश्चेति । क्रियाया इत्यादिः। तमित्यनेन शुद्धमृगस्य धावनानुकूलकृतिविशिष्टमृगस्य वा परामर्श सति तस्यैव दर्शनक्रियायां कर्मत्वं स्याद् । न तु धावनक्रियाया इति भावः । न च तामि
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy