SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारेअपिच आख्यातार्थप्राधान्ये तस्यदेवदत्तादिभिःसममभेदान्वयात्प्रथमान्तस्य प्राधान्यापत्तिः। तथाच पश्य मृगो धावति इत्यत्र भाष्यसिद्धेकवाक्यता न स्यात् । प्रथमान्तमृगस्य धावनक्रियाविशेष्यस्य द्वशिक्रियायां कर्मत्वापत्तौ द्वितीयाए । नचैवमप्रथ दर्पणः क्षायामेव सप्तमीविधानात्। एवमाधेयत्वस्य प्रकारतयाऽविवक्षणाच्च । इदं चाख्यातार्थकृतिमुख्यविशेष्यकबोधमभिप्रेत्योक्तम् । वस्तुतस्तु 'चैत्रः पचतिभवति इत्यादौ प्रथमान्तार्थविशेष्यकबोधाभ्युपगमेऽपि नैकवाक्यताक्षतिः। भवनकर्त्तत्वाऽन्विताया एव पाकविषयकभावनायाश्चैत्रांशे प्रकारतया भानसम्भवात्।। ___एतेन कृतिविशेष्यकबोधाभ्युपगमे प्रथमान्तार्थप्रकारकबोधे तिङर्थभावनोपस्थितेहेतुत्वकल्पने गौरवमिति दूषणमलग्नकम् । विशेषणतयैव तदऽन्वयाभ्युपगमादित्यरुचेराह-अपि चेति । *अभेदान्वयादिति । इदं च तन्मतेऽपि कर्ताऽऽख्यातार्थ इति स्वीयवासनाऽनुसारेण । नैयायिकमते तु कृतेराख्यातार्थतया तस्या आश्रयत्वेनैव प्रथमान्तपदाऽर्थेऽन्वयादित्यवधेयम् ॥ ___*भाष्यसिद्धेति । "क्रियाऽपि कृत्रिमं कर्म, क्रियाऽपि हि क्रिययेप्सिता भवति, कया संदर्शनप्रार्थनादिक्रियया” इति “कर्मणा यम्" ( पा० सू० ११४।३२ ) इति सूत्रस्थभाष्यसिद्धेत्यर्थः । त्वन्मते धावनाऽनुकूलकृतिमान्मृग इत्यवान्तरवाक्यार्थबोधस्य तत्र जायमानत्वेन धावनस्य कर्बवरुद्धतया विशेषणतयाऽन्यत्राऽन्वये नैराकाङ्क्षयेण दर्शने कर्मतयाऽन्वयाऽयोगात्। किन्तु धावनाऽनुकूलकृतिमान् मृगो दर्शनाश्रयस्त्वमित्येव बोध एष्टव्यः । एवञ्चैकमुख्यविशेष्यकबोधजनकत्वरूपैकवाक्यत्वाsभावात् तद्विरोधो दुर्वार इति भावः। । ननु धावनाऽनुकूलकृतिमन्मृगस्यैव कर्मतया दृश्यर्थेऽन्वयानोक्तदोषोऽत आह*प्रथमान्तेति* । *कर्मत्वापत्ताविति । कर्मत्वेन प्रकारतापत्तावित्यर्थः। कर्मतासम्बन्धेन मृगस्य दर्शनक्रियायायामन्वयस्त्वसम्भवी । “नामार्थधात्वर्थयोः” इति व्युत्पत्तिविरोधात् , वक्ष्यमाणद्वितीयाऽऽपादनविरोधाच्चेति भावः। द्वितीयापत्तेरिति । कर्मणोऽत्र तिङ्गाऽनभिधानेन अनभिहिताधिकारीय “कर्मणि द्वितीया" (पासू०२।३।१) इत्यस्य जागरूकत्वादिति भावः॥ *एवमिति । मृगपदोत्तर द्वितीयाप्रसङ्गे इत्यर्थः । शतृशानविधौ लडर्थकर्तुः परीक्षा त्यन्वयबोधस्वीकारेणोपपत्तिसम्भवादित्यत आह-अपि चेति । *अभेदाम्वयादिति । एवमभिधानं कर्तुराख्यातवाच्यत्वमिति स्ववासनया । नैयायिकमते तु कृतेर्वाच्यतया तस्याः प्रथमान्तपदार्थे भेदसम्बन्धेनैव विशेषणत्वम् । भाष्यसिद्धकवाक्यत्वानुपपत्तिस्तूभयथाऽप्यस्त्येव । तथाहि-“कर्मणा यमभिप्रैति" इति सूत्रभाष्येक्रियाग्रहणं कर्त्तव्यम्' इति वार्तिकखण्डनावसरे क्रियाऽपि कृत्रिमकर्मरूपा, क्रिययासन्दर्शनप्रार्थनादिक्रिययेत्युक्तम् , तद्रीत्या 'पश्य मृगो धावति' इत्यत्र धावनक्रियया दर्शनकर्मत्वमिष्यते। भवन्मते धावनक्रियाया आख्यातार्थ प्रति विशेषणत्वादू, अवा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy