________________
. धात्वर्थनिर्णयः।
दर्पणः कृत्यर्थानन्वयेऽपि प्रकृत्यर्थान्वयनियमोऽक्षत एव । “अणुरपि विशेषोऽध्यवसायकर" इति न्यायात्।
किञ्चाऽऽख्यातस्य कर्थकत्वे राजसम्बन्धिपुरुषाऽभिन्नकर्तृकं गमनमित्यभिप्रायेण 'राज्ञः पुरुषो गच्छति' इतिवत् स्वस्वामिभावादिसम्बन्धेन राज्ञः कर्तृत्वेन विवक्षया राजा पुरुषो गच्छतीति प्रयोगापत्तिः। नच तत्र षष्ठीप्रसक्तिः । तदर्थस्य प्रातिपदिकार्थविशेष्यतया विवक्षायामेव तत्प्रसरात् । व्यक्तीभविष्यति चैतदुपरिष्टात् । आख्यातार्थकर्तुरनामधात्वर्थत्वेन "नामार्थधात्वर्थत्वयोः” इति व्युत्पत्तिविषयताया अप्यभावात्। __ नच तवापि 'चैत्रस्य पाकानुकूला कृतिः' इति चैत्रस्य पचतीति प्रयोगापत्तिरिति वाच्यम् । षष्ट्यर्थस्य नामार्थसाकाङ्क्षतयाऽऽख्यातार्थकृतेश्च प्रथमान्तार्थसाकाङ्क्षतया परस्पराकाङ्क्षाविरहात् । “गुरुविप्रतपस्विदुर्गतानाम्" इत्यादाविव पाकादिसम्बन्धितया चैत्रादिविवक्षायां षष्ठयन्तप्रयोगस्य सर्वै रेवोपगमाच्च । तस्माद्धात्वर्थक्रियाया आख्यातार्थ प्रति प्राधान्ये निरुक्तमानोपन्यसनं मुधैवेति कोविदो विदांकुर्वन्तु। __ पचतिभवतीत्यादौ तु पाकानुकूलाऽऽख्यातार्थकृतौ भावनाश्रयत्वरूपभवतीति तिङन्तार्थभावनाऽन्वयोपगमेन पाकविशिष्टकृतौ भवनकर्तृत्वेऽवगते तद्विशेषणपच्यर्थक्रियायामपि तल्लाभात् “पचादयः क्रियाः भवतिक्रियायाः कयो भवन्ति" इति भाष्यस्थादिपदस्य हेतुपरतया तेन व्यापाराऽर्थकपचादिशब्दस्य समासे पच्याद्यर्थहेतवः क्रियाः कृत्यात्मकव्यापारा भवनक्रियानिरूपितकर्तृत्ववत्यो भवन्तीत्यर्थस्य तस्माल्लाभाद् वा तादृशैकवाक्यत्वस्यास्माभिरभ्युपगमान्न भूवादिसूत्रस्थभाष्यविरोधोऽपि । तादृशभाष्यप्रामाण्यादेव च भवन्मते धात्वर्थप्रकारकबोधे धातुजन्योपस्थितेहेतुत्ववन्मन्मतेऽप्याख्यातार्थभावनाप्रकारकबोधे तिजन्यभावनोपस्थितेरपि विशेष्यतासम्बन्धेन हेतुत्वस्य कल्प्यतयोक्तैकवाक्यत्वस्य सूपपादत्वात् ।
न चोक्तबोधाभ्युपगमे आख्यातेन कर्तुरबोधनाच्चैत्रादिपदोत्तरं तृतीयाऽऽपत्तिरिति वाच्यम् । तस्यां चैत्रस्याऽऽधेयतासम्बन्धेनाऽन्वयाभ्युपगमेन मुख्यविशेष्यतयैव तदानेन आश्रयातिरिक्तांशे विशेषणतया कृत्याश्रयबोधनरूपस्याभिधानस्य तत्र सत्वात्तृतीयाऽऽपत्त्यसम्भवात्।
नच चैत्रः पचतीत्येतावन्मात्रप्रयोगेऽपि चैत्रस्याऽऽधेयतासम्बन्धेनान्वयाऽऽपत्तिरिति वाच्यम् । प्रथमान्ताऽर्थप्रकारकबोधे तिर्थविशेष्यतापन्नभावनौपस्थितेहेतुत्वस्यापि कल्पनेनोक्तदोषाऽप्रसक्तः।
नच चैत्रे पाकानुकूला कृतिरित्यत्रेव चैत्रः पचतिभवतीत्यादौ सप्तम्याऽऽपत्तिर्दुरैवेति वाच्यम् । धात्वर्थविशेषणीभूताधेयत्वस्य प्रातिपदिकार्थविशेष्यतया विव
परीक्षा कार्या । भविष्यत्वादिघटकवर्त्तमानत्वं न शब्दप्रयोगाधिकरणक्षणवृत्तित्वरूपम् । किन्तु वर्तमानत्वेन ज्ञायमानत्वरूपम् ।
ननु प्रत्ययार्थकृतेः प्राधान्येऽपि निरुक्तभाष्योपपत्तिर्भविष्यतिः तत्रत्यभावशब्दः कृतिपर एव, तस्याश्च प्रथमान्तपदासमभिव्याहारे प्राधान्यस्यानुभवसिद्धत्वात्, भूवादिसूत्रस्थभाष्यस्यापि भवनक्रियाकर्तृविक्लित्यनुकूलव्यापारानुकूलकृतिमानि