________________
दर्पणपरीक्षासहित भूषणसारे
दर्पणः एतेन .“पश्य लक्ष्मण इत्यत्र "अस्तिर्भवन्तीपरोऽनुप्रयुज्यमानोऽप्यस्ति" इति भाष्यस्थाऽपिशब्दस्वारस्येन वाक्यपरिपोषकक्रियान्तराऽभावेऽस्तेरध्याहार इत्यर्थलाभेन प्रकृते वाक्यपरिपोषिकाया दर्शनक्रियायाः सत्त्वेन तदध्याहारे मानाभावात् कर्मतासंसर्गेणाऽन्वयोऽनुपपन्न इति दूषणमलग्नकम् । एवञ्चाख्याते प्रथमान्तपदसमभिव्याहारे प्रायः प्रथमान्तार्थविशेष्यकबोधो निराबाधः । अत एव 'यो यः शूद्रस्य पचति द्विजोऽन्नं सोऽतिनिन्दितः' इत्यत्र प्रधानपरामर्शितदो द्विजपरामर्शकत्वमनायासेन सङ्गच्छते। । ननु प्रथमान्तार्थविशेष्यकबोधवादिमते 'पचतिकल्पं चैत्रः “पचतःकल्पं चैत्रौ” इत्यादौ कल्पबाद्यन्तस्य नामतया तद्विशेषणवाचकतया च प्रथमान्तचत्रादिपदसमानलिङ्गवचनत्वाऽऽपत्तिराख्यातार्थकृतेः प्रथमान्तार्थचैत्रादावभेदान्वयापत्तिश्चेति चेद् ? न । स्वार्थिकानां प्रायशः प्रकृत्यर्थताऽवच्छेदकगतकुत्सादिद्योतकतया प्रकृते प्रकृत्यर्थताऽवच्छेदकक्रियागतेषदसमाप्तत्वस्य कल्पबाद्योतनात् सत्त्वासत्वाभ्यां प्रकृत्यर्थतावच्छेदकसमानस्य भावेषदसमाप्तत्वप्रतिपादककल्पबाद्यन्ते नपुंसकैकवचनान्तत्वयोरौचित्यात् । कल्पबाद्यन्तस्य नामत्वेन समानविभक्तिकत्वेन च तदर्थस्य चैत्रेऽभेदान्वयाऽऽपत्तिरिति तु मूर्खप्रलपितत्वादनादेयम् । लक्ष्यार्थकर्तुरभेदान्वयस्येष्टत्वात् । शक्यार्थस्य त्वयोग्यत्वादेवानन्वयात् । 'घटः पट' इत्यादौ व्यभिचारवारणाय व्युत्पतावसति बाधके इति विशेषणाच्चेत्याहुः । ____ अत्रेदमाभाति-प्रथमान्तकर्तवाचकपदसमभिव्याहारे प्रायः प्रथमान्तार्थविशेष्यकबोध एव नैयायिकानाम् । क्वचित्तु 'पश्य मृगो धावति' इत्यायेकवाक्यताऽनुरोधात् तिर्थभावनाविशेष्यकोऽपि सः । तथाहि-वैयाकरणैरुक्तस्थलीयैकवाक्यतानुरोधाधात्वर्थभावनाप्रकारकबोधे धातुजन्यभावनोपस्थितेहेतुता कल्प्यते।। __नैयायिकैस्तु कर्मतासम्बन्धेन तिङर्थभावनाविशेष्यकबोधे धातुजन्यभावनोपस्थितेस्तदिति सममेव। 'प्रकृतिप्रत्ययार्थयोः इति प्रवादानुरोधात्प्रथमान्तार्थकर्तृप्रकारकबोधे क्रियान्तरकतत्वविशेष्यतापन्नतिङर्थभावनोपस्थितेरपि तत्कल्प्यते । तथाचोक्तस्थले आधेयतासम्बन्धेन मृगविशिष्टधावनाऽनुकूलकृतेः कर्मतया दृश्यर्थेऽन्वये मृगनिष्ठा या धावनाऽनुकूला कृतिस्तत्कर्मकदर्शनाऽऽश्रयस्त्वमिति वाक्यार्थबोधः।धावनविशिष्टकृतौ च बोधितकर्मत्वस्य “सविशेषणे हि" इति न्यायाद्धावने पर्यवसानाच्च प्रतिपिपादयिषितार्थस्याऽपि लाभः । नापि मृगपदोत्तरं द्वितीयाऽऽपत्तिः, मृगकर्मताया।एतवाक्यादलाभादू । एवञ्च 'पचतिभवति' इत्यत्रापि 'प्रथमान्तार्थकर्तृवि
परीक्षा रिति स्वीकारात् । प्रकृते तु तस्य संसर्गतया भानेन क्षत्यभावादिति । अत एव "चैत्रःपच्यते तण्डुल" इत्यत्र कर्तृत्वसम्बन्धेनान्वयवारणाय व्युत्पत्यन्तरकल्पनं तद्विरोधोऽपि न । भेदसम्बन्धावच्छिन्नशुद्धनामार्थप्रकारकशाब्दबोधस्याप्रसिद्धतयैव तदा. पत्तेरभावात् । 'तण्डुलं पचति, 'चैत्रेण पच्यते, इत्यादौ च विभक्त्यर्थविशेष्यक एव बोधः प्रसिद्धः । यत्रतु 'पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः' इत्यादिप्रयोगः, तत्रास्तीत्यस्याध्याहारेण बकपदार्थस्य तादात्म्यसम्बन्धावच्छिन्नपरमधार्मिकनिष्टप्रकारतानिरूपितविशेष्यतावच्छिन्नस्यैव कर्मतासम्बन्धेन दृशिक्रियाकर्मत्वमतो न द्विती