SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । ४३ इत्थञ्च पचतीत्यत्रैकाऽऽश्रयिका पाकाऽनुकूलाभावना । पच्यते इत्यत्रैकाऽऽश्रयिका या विक्लित्तिस्तदनुकूला भावनेति बोधः । दर्पणः शिष्टा पाककृतिर्वर्त्तमानभावनाऽऽश्रयिका' इति बोधात् तत्राऽप्येकवाक्यत्वाऽक्षतेरिति । एवञ्च 'प्रकृतिप्रत्ययार्थयोः' इतिन्यायाऽविरोधेनैव भाष्यकारोक्तपदैकवाक्यता न्यायनयेऽपि सूपपादेत्यलं परमताऽनुवर्णनेन । फलितमाह — इत्थञ्चेति । आख्याऽर्थकर्त प्रकारकबोधं प्रति धात्वर्थ भावनोपस्थितेस्तादृशकर्म प्रकारकबोधे तादृशफलोपस्थितेर्हेतुत्वे चेत्यर्थः । भावनेत्यस्य वर्तमानेत्यादिः । कर्माssख्याते भावनाविशेष्यकबोधोपवर्णनं तु प्राचामनुरोधेन । नव्यास्तु — कर्म कृतिफलविशेष्यबोधस्य दृष्टत्वेन कर्माख्यातेऽपि तद्विशेष्यकबोध एव न्याय्यः । एवञ्च प्रत्ययार्थे साक्षात्प्रकृत्यर्थविशेष्यान्वयित्वमिति व्युत्पत्तिरपि न विरुध्यते । अत एव 'इष्यते पुत्रः' इत्यर्थे, पुत्रीयतीति न । भिन्नार्थकत्वात् । किन्तु पुत्रमिच्छतीत्यर्थ एवेति "सुप आत्मनः " ( पा० सू० ३।१।८) इति सूत्रे भाष्ये उक्तम् । अन्यथोभयत्राऽपि व्यापारविशेष्यकबोधेन भिन्नार्थकत्वकथनाऽसङ्गतिः । अस्मन्मते त्वेकत्र व्यापारो विशेष्योऽन्यत्रेच्छारूपं फलमिति भिन्नार्थकत्वं ष्टमेव । क्यजन्तात्तु कर्मणि प्रत्ययो दुर्लभोऽकर्मत्वात् । उक्तञ्च कैयटेन- 'यदा क्रियाफलस्य प्रधान्यं तदा वाक्यमेव - 'इष्यते पुत्रः, न तु क्यजन्तस्तस्याकर्मकत्वात् कर्मणि प्रत्ययाऽनुत्पादात्' इति । इत्थञ्च 'भावनाजन्यैकाश्रयिका वर्त्तमाना विक्लित्तिः' इति बोध इत्याहुः । स्प भावाख्याते तु भावनैव विशेष्या । तथैवाऽनुभवात् । तिङ्त्वनुवादक एव, किन्तु लत्वादिना कालार्थकः । संख्या तु न तदर्थः । कर्त्रादिरूपाऽर्थोपस्थित्याऽत्मक हेत्वभावेनैव तदर्थसंख्याया अन्वयाऽसम्भवात् । किन्तु 'न केवला' इत्यादिन्यायेन साधुत्वार्थमेकवचनमेव । “एकवचनमुत्सर्गतः करिष्यते” इति सिद्धान्तात् । काले युक्ताभिसरणे मुह्यन्ते मृगमोहिकाः । उष्ट्रासिकाः समास्यन्ते शय्यन्ते हतशायिकाः ॥ इत्यत्र बहुवचनं तु भाष्यकारप्रयोगादेवेति प्राञ्चः । नव्यास्तु — एकवचनस्यौत्सर्गिकत्वं सत्येव गमके, यथाऽव्ययात् तदुत्पत्तौ 'अव्ययाद्दाप्युपः” इति । अत एव, "ड्यापू" ( पा० सू० ४।१।१ ) इति सूत्राभावे तिङन्तेभ्यस्तदुत्पत्तिमाशङ्कय तिङा संख्याया उक्तत्वान्नेति परिहृतं भाष्ये । त्वदुक्तरीत्या परीक्षा यापत्तिरिति नैयायिकानुसारिमतम् । तन्न मनोरमम् । भाष्यसम्मतैकवाक्यताया अनुपपादनादिति । *इत्थं च*-पूर्वोक्तव्यवस्थासिद्धौ च । इति बोध इति । प्राचीनैः कर्माख्यातसमभिव्याहारेऽपि भावनाविशेष्यक एव शाब्दबोधः स्वीक्रियते, तदभिप्रायेणेदम् । तेषां "सुप आत्मनः क्यच्” इति सूत्रभाष्ये “अथेह कस्मान्न भवति - इष्यते पुत्रः, - इष्टः पुत्र, इति । भिन्नार्थत्वात्" इत्युक्तम् । तत्रेष्यते पुत्र इत्यत्र भिन्नार्थकत्वं फलव्यापारयोर्व्यत्यासेनोपपादनीयम् । पुत्रीयतीति क्यजन्तात्पुत्रकर्मकेच्छानुकूलव्या
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy