SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - दर्पणः तिङा कारकगतायास्तस्या उक्तत्वेऽपि प्रकृत्यर्थ गतायास्तस्या अनुक्ततयौत्सर्गिकतया वैकवचनस्याशक्यवारणत्वेन तदसङ्गतिः स्पष्टैव । ४४ “द्वयेकयोः - " ( पा०सू० ७।४।२२ ) इत्यादेः “लः कर्मणि" इत्यनेनैकवाक्यताऽपि लकाराः कर्मादौ भवन्ति तेषां स्थाने चैकत्वादौ तिबादयो भवन्तीत्याकारैव । नहि तत्र द्वितीया कर्मणीत्याद्यस्ति, येन संख्यायाः कारकविशेषणता प्रतीयेत । आवृत्तौ च न मानम् । तस्मात् सर्वत्र संख्यायाः प्रकृत्यर्थ एवाऽन्वयः । 'कस्यैवाद, इत्याकाङ्क्षायामुपस्थितत्वात् प्रकृत्यर्थाऽन्वयस्यैवोचितत्वात् । कत्यादेरपि विधेयं प्रति विशेषणत्वेन, 'गुणानां च परार्थत्वात्' इतिन्यायेन संख्यायामसम्बन्धात् कर्मणीत्यादेः कस्य कर्मणीत्याकाङ्क्षासत्त्वेन तत्र धात्वर्थान्वयस्य क्लृप्तत्वात् । क्रियायामप्येकत्वमस्त्यतः - " एका क्रिया" इति रूपप्सूत्रभाष्यात् । एवञ्च तस्य प्रकृत्यर्थेऽन्वयादेकवचनम् । द्वित्वादिकं तु स्वोत्तरतिङ्वाच्यकारकगतं तत्रारोप्य कर्त्तृकर्मकेषु तिङ्क्षु द्विवचनादिसिद्धिः । अत एव न साधने द्वित्वादिसंशयः । क्रियागतसंख्यारोपस्य साधनज्ञाननिमित्तत्वात् । अनेकः पचतीत्याद्यनुरोधेन साधनेऽपि संख्यारोपस्य तवाऽपि वाच्यत्वात् तस्याऽप्यऽन्वयः प्रकृत्यर्थ एव । प्रकृते हतशायिकाः शय्यन्ते इत्यादौ हतशयनसदृशानीत्यर्थे उपमाने बहुत्वोपपादनसामर्थ्येनोपमेये ि न्तार्थक्रियारूपे उपमानगतबहुत्वारोपेण बहुवचनम् । तिङ्वाच्यकारकगताया एवारोपो, नाऽन्यगताया इत्यत्र धात्वर्थशक्तिस्वभाव एव बीजम् । अत एव भावे द्विवचनादि । तदुक्तम् एकत्वेऽपि क्रियाssख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । एवञ्चाख्यातार्थप्रकारकबोधे धातुजन्योपस्थितिः कारणमित्येक एव कार्यकारणभाव इति लाघवम् । “प्रत्ययानाम्” इति व्युत्पत्तिपरिपालनं चेत्याहुः । तदपरे न क्षमन्ते । औत्सर्गिकैकवचनस्य समयपरिपालनार्थकतया तत्र गमकाssकाङ्क्षाया अभावेन 'सत्येव गमके' इत्युक्तिर्व्यर्था । यदपि गमकतया ड्याप्सूत्रभाष्योपन्यसनं, तत् तथैव । यतस्तदेव भाष्यं क्रियायां संख्यासामान्याभावबोधकम् । तथाहि - ड्यासूत्राभावे तिङन्तात् सुबुत्पत्तिशङ्का प्रत्ययार्थकारकसंख्यामादाय प्रकृत्यर्थगत संख्यामा राय वा वक्तव्या । तत्र प्रकृत्यर्थस्याऽसत्त्वरूपतया संख्यान्वयायोगात् कारकगतर्मंख्यामादायैव प्रसक्ता, सा तिङोक्तत्वादित्यनेन निराक्रियते । समय परिपालनस्य तिजैव कृतत्वात् तदप्राप्त्यैव तन्निराकरणस्याऽप्रसक्तेः । 'सुप्तिङन्तं परम्' 'तिङतिङः' इत्यादिसूत्रस्वारस्यादुक्तार्थज्ञापनापेक्षया तिङ्ङन्तादौत्स - Prasaarभावस्यैव तेन ज्ञापयितुमुचितत्वाच्च । 'एका च क्रिया' इतिभाष्यमपि न क्रियायामेकत्वं बोधयति, किन्तु संख्यासामान्याऽभावमेव । कथमन्यथा साधारणैकवचनेनैवोपपत्तौ वचनारम्भसार्थक्यम् । किञ्चोपमाने बहुत्वोपपाइनसामर्थ्येनेति वदता कारके द्वित्वाद्युपपादनसामर्थ्येनेत्यऽप्युक्तप्रापरीक्षा पार इति बोधः । 'इष्यते पुत्रः' इत्यस्मात्तु व्यापारजन्यपुत्राभिन्नकर्मकेच्छेत्याकारकः शाब्दबोध इति । एवमेव सर्वत्रोपपादनीयम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy