SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः। देवदत्तादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्याऽभेदाऽन्वयः । 'घटो नश्यति' इत्यत्राऽपिघटाऽभिन्नाऽऽश्रयको नाशाऽनुकूलो व्यापार इति बोधः । स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसम दर्पणः यम् । एवञ्च हतशायिका इत्यत्रोपमाने बहुत्वोपपादकबहुवचनवत् प्रकृते कारके कस्य. चिद् द्वित्वाद्युपपादनस्याभावात् तदारोपासम्भवः । नच चैत्रमैत्राविति द्विवचनादितस्तदवगतिः । चैत्रो मैत्रश्च पचत इत्यादौ तदभावात् कारकान्वयात्प्रागेव चैत्राद्यन्वितायास्तस्याः कारकानन्वितत्वाच । भावाख्याते स्वोत्तरतिवाच्यकारका प्रसिद्धया द्विवचनासम्भवाच्च । 'कस्यैकत्वे' इत्याकाङ्क्षाया योग्यजिज्ञास्यसम्बन्धिन्या एवौचित्यात् । क्रियाया असत्त्वेन परिच्छेदकाकाङ्क्षाया एवासम्भवेन तत्र तदन्वयोक्तेः पराहतत्वाच्च । पचतीत्यादिजन्यबोधानन्तरं जायमानस्य सर्वसिद्धैकन्वादिवैशिष्टयेन जिज्ञास्यकारकबोधक 'कः कौ' इत्यादिप्रश्नस्याऽनुपपत्या सिद्धायाः कारकसंख्यान्वयप्रतीतेरनुपपत्तरेव कर्मणीत्यादिपदानुवृत्तौ मानत्वात्। उक्तवाक्यपदीयस्याप्याख्यातार्थक्रियाया एकत्वेऽपि संख्यासामान्याभाववत्त्वेऽपि कचित् कर्तृकर्मादिबाहुल्येन सा नानैव प्रतीयते इत्यर्थान्न तद्विरोधोऽपि । ततः शब्दम व्दया धात्वर्थे तिर्थसङ्ख्याऽन्वय इत्यर्थस्यालाभाच्च । “गुणानां च परार्थत्वाद। (जै० ३।१॥ ९) इति तु प्रधानस्यान्वययोग्यत्वे सत्येव । अत एव कैयटादिभिस्तिङर्थसंख्यायाः कारक एवाऽन्वयः स्वीकृतः । एवञ्च भाष्यकारप्रयोगादन्यत्र भावाख्याते द्विवचनाद्यसाध्वेवेत्यधिक स्वयमूह्यम् ।। ___ *आख्यातार्थकादिभिरिति* । 'समानविभक्तिकयोरेवाऽभेदान्वय' इति नियमस्य प्रागेव दूषितत्वादिति भावः । अकर्मकस्थलेऽपि फलव्यापारोभयार्थकत्वं धातोरन्यैरपि स्वीकार्यमितिसूचयञ्च्छाब्दबोधप्रकारमाह-*घटो नश्यतीति । तद्व्यापाराऽऽकाङ्क्षायामाह-*स चेति । *प्रतियोगित्वेति । प्रतियोगित्ववैशिष्टयन्तु निरूपकतासम्बन्धेन बोध्यम् । तत्समवधानमेव तदनुकूलो व्यापार इत्यर्थः। परीक्षा *तदर्थस्य-देवदत्तादिपदार्थस्य । सकर्मकधातुस्थले फलव्यापारयोर्वाच्यत्वं व्यवस्थाप्याकर्मकधातूनामप्युभयवाचकत्वमिति व्युत्पादयितुमकर्मकविशेषे बोधप्रक्रियामाह-*घटो नश्यतीत्यादिना* । *प्रतियोगित्वविशिष्टेति । सामानाधिकरण्यसम्बन्धेन प्रतियोगित्वविशिष्टेत्यर्थः । नाशसामग्रीसमवधानम् । नाशस्य या सामग्री नाशानुकूलासामग्री, तस्या मेलनमेकन स्थितिः। एतेनान सामग्रीरूप एव व्यापार इत्यर्थादुक्तं भवति । तथाच नाशस्तदनुकूलप्रतियोगित्वविशिष्टा नाशानुकूला सामग्री च धात्वर्थ इत्युक्तम् । फलव्यापारयोरेकाधिकरणवृत्तित्वोपपत्तये-प्रतियोगित्वविशिष्टेति । इदमुपलक्षणं कचिद् व्यवहितदेशसम्बन्धानुकूलो व्यापारोऽपि धात्वर्थः । अत एवोत्पत्तिकाले 'नष्टं तद्गृहं भवति' इति निष्ठासंज्ञासूत्रे भाष्ये प्रयोगः सङ्गच्छते । येषां तु मते नाशमानं धात्वर्थस्तेषां मते नाशे, उत्पन्ने, नाशस्य नाशा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy