________________
४३
दर्पणपरीक्षासहिते भूषणसारेवधानम् । अत एव तस्यां सत्यां नश्यति, तदत्यये नष्टः, तद्भावित्वे नयती(१)ति प्रयोगः। देवदत्तो जनाति, इच्छतीत्यादौ च देवदत्ताभिन्नाऽऽश्रयको शानेच्छाद्यनुकूलो वर्तमानो व्यापार इति बोधः । स चान्तत आश्रयतैवेति रीत्योह्यम् ॥२॥
दर्पणः *अत एवेति । यतो नाशमानं नार्थः, किन्तु प्रतियोगित्वविशिष्टनाशफलकतत्तत्सामग्रीरूपो व्यापारोऽप्यत एवेत्यर्थः। फलव्यापारयोरकाधिकरण्याच्च न सकर्मत्वम् । एतदर्थमेव प्रतियोगित्वविशिष्टेत्युपात्तम् । यन्मते नाशमानं न धातोरर्थस्तन्मते नाशोत्पत्त्यनन्तरं नाशस्य सदैव सत्त्वानश्यतीति प्रयोगापत्तिस्तस्य ध्वंसाsप्रतियोगित्वाच्च नष्ट इति प्रयोगाऽनुपपत्तिरिति सूचनाय, तस्यां सत्यामित्यादिना त्रैकालिकप्रयोगप्रदर्शनम् । नैयायिकमतं तु लुङर्थनिरूपणे वक्ष्यते। ___जानात्यादिसविषयार्थकानां ज्ञानाद्यतिरिक्तव्यापाराद्यर्थकत्वानभ्युपगमे सकर्मत्वानुपपत्तिं सूचयन् स्वमते शाब्दबोधं दर्शयति-*देवदत्तो जानातीत्यादि । आदिपदग्राह्यार्थमाह-*इच्छादीति* । कचिजानातीत्यादावित्येव पाठः । *स चेति । ज्ञानानुकूलो व्यापारश्वेत्यर्थः । तदन्वेषणायात्ममनःसंयोगस्यैव सुलभत्वादाह-*अन्तत इति । तदनुपस्थितावित्यर्थः। *आश्रयतैवेति । तस्या अनवयवत्वेऽपि साऽवयवत्वारोपाद्व्यापारत्वं निर्वाह्यमिति भावः ॥ २ ॥
परीक्षा भावेन नष्ट इत्यादौ भूतार्थक्तप्रत्ययानुपपत्तिः । मन्मते तु नेत्याह-*अत एवेति । नाशसामग्रीरूपव्यापारस्य धात्वर्थत्वादेव । *तदस्याम्*-सामय्याम् । *इति प्रयोग इति। कालरूपस्य प्रत्ययार्थस्य सकर्मकस्थल इवाकर्मकस्थलेऽपि व्यापार एवान्वयाभ्युगमादिति । फलतावच्छेदकसम्बन्धेन फलानधिकरणवृत्तित्वं व्यापारतावच्छेदकसम्बन्धेन व्यापारस्य यत्र तत्रोभयवाचको धातुःसकर्मको भवति । अन्यथा त्वकर्मकः । प्रकृते फलतावच्छेदकसम्बन्धः प्रतियोगितैव । व्यापारतावच्छेदकसम्बन्धस्तु तादृशस्य व्यापारस्याश्रयतेति बोध्यम् । जानातीत्यादिसकर्मकधातूनामुभयावाचकत्वेऽपि गौणं सकर्मकत्वमिति ये नैयायिका वदन्तिः तेषां मतमसमञ्जसमिति दर्शयितुं तेषां यत्र प्रयोगस्तत्र बोधप्रक्रियामाह-*देवदत्तो जानातीत्यादिना । ज्ञानेच्छाद्यनुकूल:-ज्ञानानुकूलः, इच्छानुकूलश्चेत्याद्यर्थः। *अन्ततः । तस्य गवेषणायां व्यापारान्तरस्यास्फूर्ती । यद्यप्याश्रयता निरवयवा, तथाप्यारोपात्सावयवत्वकल्पनया व्यापारत्वमस्या बोध्यम् । *आदिना*-यतते इत्यस्य परिग्रहः । विषयताचात्र फलतावच्छेदकः सम्बन्धः । व्यापारश्चात्ममनःसंयोगः । अत एव मनोजानातीत्युपपद्यते । एतदनुसन्धानाभावे त्वाश्रयतायास्तत्वमुक्तम् । यत्त्वावरणभङ्गानुकूलो ज्ञानरूपो व्यापार एव जानात्यर्थ इति, तन्न । धर्माधर्मो जानातीत्यादावनुपपत्तेः । अत्र हि धर्माधर्मों कर्मणी परोक्षौ तयोर्यदावरणं तयोरसत्वापादकं तस्य परोक्षवृत्ति
( १ ) इदं च दूषणं वर्तमानध्वंसप्रतियोगित्वरूपमतीतत्वं प्रत्ययार्थ इति मते । वर्तमानध्वंसप्रतियोगिकालवृत्तित्वस्य तदर्थकत्वे तु नोक्तं दूषणमिति भावः।