SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । ४७ नन्वाख्यातस्य कर्तृकर्मशक्तत्वे, पचतीत्यत्रोभयबोधापत्तिः । कर्तृमात्रबोधवत् कर्ममात्रस्यापि बोधापत्तिरित्यतस्तात्पर्य ग्राहक माह - फलव्यापारयोस्तत्र फले तय चिणादयः ॥ व्यापारे शपूइनमाद्यास्तु द्योतयन्त्याश्रयान्वयम् ||३|| तङादयः फले आश्रयाऽन्वयं द्योतयन्ति । कर्मत्वात् तद्द्योतकाः कर्मद्योतकाः । व्यापाराऽन्वय्याश्रयस्य कर्तृत्वात् तद्योतकाः कर्तृद्योतका इति समुदायार्थः । द्योतयन्तितात्पर्यं ग्राहयन्ति ॥ " " घ्या फलाऽन्वयाश्रयस्य नन्वेवं 'क्रमादमुं नारद इत्यबोधि स' इत्यादौ, 'पच्यते ओदनः स्वयमेव' इत्यादौ च व्यभिचारः । कर्मणः कर्तृत्वविवक्षायां कर्त्तरि दर्पणः उपोद्घातसङ्गत्या शबादीनां द्योतकतां निरूपयितुमाह- नन्विति । ननु ' सकृदुच्चरितः शब्दः सकृदर्थं गमयति' इति व्युत्पत्तेर्ने कदाऽर्थद्वयबोधोऽत आह-*कर्तृमात्रबोधवदिति । मात्रशब्दोऽवधारणे । तात्पर्य्येति । तत्तदर्थप्रतीतीच्छयोच्चरितत्वरूपतात्पर्य प्रहजनकमित्यर्थः । अत एव “कर्त्तरि श” इत्यादौ कर्त्रादिग्रहणं सार्थकम् । अन्यथा “लः कर्मणि” (पा०सू० १।४।६९) इत्येतद्विहितलादेशैरेव कर्त्रादिबोधेनान्यलभ्यत्वात्तद्वैयर्थ्यं स्पष्टमेवेति भावः । मूले *फलव्यापारयोस्तत्रेति । तत्रेति धातूपस्थाप्ययोरित्यर्थः । 'फलव्यापारयोः' इति निर्द्धारणे सप्तमीत्याशयेन व्याचष्टे सारे*फल इति ॥ ३ ॥ *व्यभिचार इति । यगादीनामन्वये, शबादीनां व्यतिरेके चेत्यर्थः । यगादिसवेsपि फले आश्रयाऽन्वयाऽबोधाच्छबाद्यभावेऽपि व्यापारे तिङर्थ आश्रयान्वयात् परीक्षा रूपज्ञानेन भङ्गेऽपि तयोरभानापादकस्याज्ञानरूपावरणस्य परोक्षज्ञानेनानिवृत्तेः ॥ २ ॥ पचतीत्यादिपरिनिष्ठितघटको धातुस्ततो विहिता लडादयस्तेषामर्थाः - संक्षेपत उक्ताः । उपोद्घातसङ्गत्या तन्निमित्तकविकरणानां तु द्योतकत्वमित्याह -* नन्वाख्यातस्येत्यादिना । ननु 'सकृदुच्चरित' इति न्यायेन नोभयबोधोऽत आह-* कर्त्तमात्रेति* । अत्र मात्रशब्दोऽवधारणे । तात्पर्येति । तत्तदर्थविषयकप्रतीतीच्छयोच्चरितत्वरूपं यत्तात्पर्य्यं तद्ग्रहजनकसत्वात् । यथा “कर्त्तरि शप्" इत्यादि । *तत्र* पूर्वोनिष्कृष्टार्थे सति । फलव्यापारयोरिति निर्धारणे सप्तमी, अस्याः फलेऽन्वयः । *तद्योतकाः* । फले- आश्रयान्वयद्योतकाः । कर्मद्योतकाः । द्योतकतारूपा या व्यञ्जना तया कर्मप्रतिपादकाः । एतेन पञ्चकं धात्वर्थ एवः प्रत्ययास्तु द्योतका इति सिद्धान्तः सूचितः ॥ ३ ॥ पूर्वोक्तस्य द्योतकत्वकथनस्यौत्सर्गिकत्वमिति बोधयितुमाशङ्कते -*नन्वेवमिति । *व्यभिचार इति । यागादिसत्वेऽपि फलें - आश्रयानन्वयात्फले; आश्रयान्वयद्योतक
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy