________________
दर्पणपरीक्षासहिते भूषणसारेलकारे सति, “कर्मवत् कर्मणा तुल्यक्रियः” ( पा०सू० ३।१।७) इत्यतिदेशेन यगात्मनेपदचिचिण्वदिटामतिदेशाद्यगादिसत्त्वेऽपि कर्तुरेवबोधाद् व्यापार एवाऽऽश्रयान्वयाञ्च । अबोधीत्यत्रापि बुध्यतेः कतरि लुङ । तस्य "दीपजन" (पा. सू०६४।१०४) इति चिण । "चिणो लुक्” (पा० सू० ६।१०४) इति तस्य लुग् इति साधनादित्याशङ्कायामाहउत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् । तस्माद् यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ॥ ४॥
*कर्मकर्तृविषयादौ-पच्यते ओदनः स्वयमेवेन्यादौ । अत्र ह्येकौदनामिन्नाश्रयकः पाकानुकूलो व्यापार इति बोधः ।
क्रमादिति आदिपदग्राह्यम् । अत्र सामान्यविशेषज्ञानपूर्वक एकनारदविषयकशानाऽनुकूलः कृष्णाभिन्नश्रयकोऽतीतो व्यापार इति बोधः ॥
दर्पणः तदेवोपपादयति-*कर्मणः कर्तृत्वविवक्षायामित्यादि । सौकातिशयद्योतनार्था च तद्विवक्षा तण्डुलादिगताग्निसंयोगादिरूपव्यापारस्यैव फलजनकतया धात्वर्थत्वविवक्षायामित्यर्थः।
वस्तुतस्तु फलस्यापि जनकव्यापारगतपौर्वापर्य्यारोपेण व्यापारत्वेन भानादिति पूर्वमुक्तत्वात्तण्डुलगतफलस्यैव व्यापारत्वेन विवक्षायामित्यर्थः । *साधनादिति । तथाच व्यभिचारान्न तडादीनां द्योतकतेति भावः। ___ *क्रमादित्यादि । कर्मकर्तृविषयादाविति मूलस्थादिपदेनेत्यर्थः । सामान्येत्यादि-क्रमादित्यस्य विवरणम् । सविषयधात्वर्थनिरूपितकर्मत्वस्य विषयत्वे पर्यावसानमित्यभिप्रेत्याह-विषयकेति । सकर्मकधातुसमभिव्याहृतयगादीनां कर्मयोतक
परीक्षा तायां व्यभिचारः । *कर्मण इत्यादि । सौकातिशयद्योतनाय ह्येतादृशी विवक्षा। अत्र फलव्यधिकरणव्यापारस्य धातुवाच्यस्य त्यागः: फलसमानाधिकरणव्यापारस्य तु धातुवाच्यत्वकल्पनम् । एवं च व्यापारान्तरस्य कन्तरनिष्ठस्याकल्पनेन साकर्यलाभ इति बोध्यम् । स च व्यापारः प्रकृते-तण्डुलनिष्ठोऽग्निसंयोगो मार्दवं वा विवक्षितमिति।
यद्वा फलमात्रस्यैव धातुवाच्यत्वविवक्षा, तत्रैव व्यापारगतपौर्वापर्य्यारोपेण व्यापारत्वस्य कल्पनमिति । *साधनादिति । एतेन तङादीनां द्योतकतायां व्यभिचारो दर्शितः । *आदिपदेति । कर्मकर्तृविषयादाविति मूले पदादिपदं तद्ग्राह्यम् ।।
*अत्र-क्रमादिवाक्ये श्रुते सतीति शेषः । क्रमपदार्थमाह-*सामान्यविशेषेति ।