________________
धात्वथनिणयः।
४९ *यथोचितमिति*-सकर्मकधातुसमभिव्याहृतभावसाधारणविधिविधेयचिण्यगादि कर्मद्योतकमिति भावः ॥ ४॥
एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्यार्थमुपवर्ण्य, फलव्यापारयोः इति प्रतिज्ञातं धातोापारवाचित्वं लडाद्यन्ते भावनाया . अवाच्यत्वं वदतः प्राभाकरादीन् प्रति व्यवस्थापयति
व्यापारो भावना सैवोत्पादना सैव च क्रिया। कृतोऽकर्मकतापत्तेनहि यत्नोऽर्थ इष्यते॥५॥
दर्पणः त्वादाह-*सकर्मकेति । पच्यते तण्डुलः स्वयमेवेत्यादौ । यगादि तु न तथा, किन्त्वातिदेशिकम् । “कर्मवत् कर्मणा” (पासू० ३।११८७) इति विहितातिदेशे कार्यातिदेशत्वस्याऽऽकरे सिद्धान्तितत्वान्न तत्र व्यभिचार इति भावः । *भावसाधारणेति । भावकर्मणोः “सार्वधातुके यक्॥ इत्यादिविहितेत्यर्थः । तेन "दीपजन" (पासू० ३।११६१ ) इत्यादिविहितव्यावृत्तिः ॥४॥ ___ *एवमिति* । उक्तप्रकारेणेत्यर्थः । ननु फलव्यापारयोरित्यनेन सामान्यतो धातोः फलव्यापारवाचकत्वप्रतिज्ञातस्योत्तरक्षणे एवोपपत्तिभिस्तव्यवस्थापन कर्तुमुचितम् , न तु वाक्यार्थनिरूपणानन्तरम् , तेन जिज्ञासाविच्छेदादित्याशङ्कायामाह-सूचीकटाहन्यायेनेति तथाच सामान्यतः फलव्यापारयोर्धात्वर्थत्वे. आश्रयस्य तिङर्थत्वे च ज्ञाते, निरसनीयल्यबादिविप्रतिपत्तिकत्वेन सुप्रतिपाद्यतया च प्रथमं वाक्यार्थे एव शिष्यजिज्ञासोदयात् । स एवाऽऽदौ निरूपितो, न तु धात्वर्थः । निरसनीयबहुवादिविप्रतिपत्तिकत्वेनातिदुरुहतया च तस्य पूर्वमजिज्ञासितत्वादिति भावः ।
'लडाद्यन्ते' इत्यतद्गुणसंविज्ञानबहुव्रीहिणा धातुपरम् । तथाच यजेत, पचेतेत्यादौ यज्यादिधातावित्यर्थः । । *अवाच्यत्वम् । वाच्यतानिरूपकत्वाऽभावम् ।
परीक्षा यथोचितमित्यत्रोक्तमौचित्यं दर्शयति-*सकर्म केति । अकर्मकधातुसमभिव्याहृतयकः कर्मान्वयद्योतकत्वासम्भवः, कर्मण एवाभावादत आह-*सकर्मकेति* । भावसाधारणेन विधिना "चिण भावकर्मणोः” इत्यनेन विहितश्चिण , “सार्वधातुके य" इत्यनेन विधेयो यो यक् स तद्योतक इत्यर्थः ॥४॥
ननु 'फलव्यापारयोर्धातुः” इति या धातोः फलव्यापारोभयवाचकतोक्तिस्तदनन्तरं ये धातोरुभयवाचकत्ववादिनस्तेषां मतं निरसनीयम्। तदनन्तरं वाक्यार्थस्य वर्णनमुचितम् , तथा तु न कृतम् , किन्त्वादौ वाक्यार्थवर्णनमेव कृतमित्यत्र किं बीजमत आह-*सूचीति* । धातोरुभयवाचकत्वस्याश्रयस्य तिवाच्यत्वस्य च कथनानन्तरं निरसनीयल्यबादिविप्रतिपत्तिकत्वेन वाक्यार्थवर्णन एव शिष्यजिज्ञासोदयात्तन्निरूपणमेवादौ कृतमिति भावः। व्यापारवाचित्वमित्यस्य व्यवस्थापयतीत्यत्रान्वयः । *लडाद्यन्त इति* । अत्र परसमीपवाचकान्तशब्देन लडादिशब्दस्यातद्गुणसंविज्ञानबहुव्रीहिणा अस्य समुदायस्य धातुपरत्वं द्रष्टव्यम्। *प्राभाकरादीनित्या
७८०प०