________________
दर्पणपरीक्षासहिते भूषणसारेपचति पाकमुत्पादयतिः, पाकानुकूला भावना, तादृश्युत्पादना इत्यादिविवरणाद् विद्रियमाणस्यापि तद्वाचकतेति भावः ।
दर्पणः 'प्राभाकरादीन्' इत्यादिना नैयायिकसंग्रहः । ___ यद्यपि व्यापारो धात्वर्थत्वेन नैयायिकसंमतः, तथापि नाऽसौ तन्मते भावनापदव्यपदेश्य इति भावः। 'व्यापारो भावना सैव' इत्यादिपूर्वार्द्धस्य यो 'गुणभूतैरवयवैः' इत्यादयुक्तलक्षणलक्षितोऽर्थस्तद्वाचकव्यापारपदं भावनादिपदैर्विवियते। विद्रियमाणस्य विवरणसमानार्थकत्वेन धातो वनावाचकत्वसिद्धिरित्यर्थः । तत्रोऽदेश्यविधेययोरक्यमापादयतः सर्वनाम्नः पर्यायेणान्यतरलिङ्गकत्वस्य 'शैत्यं हि यत् सा प्रकृतिर्जलस्या 'इत्यादिबहुषु स्थलेषु दर्शनात्तत्र 'सा' इति स्त्रीलिङ्गनिर्देशानुपपत्तिः। पुलिङ्गत्वेऽपि, ‘सोऽचि लोपे चेत्' (पा.सू० ६।१।१३४ ) इति लोपेन साधुत्वाच्च । भावनैव वाऽस्तु तत्पदपरामृष्या। _____ननु सम्भवेदेवं धातोर्व्यापारार्थकत्वे, तत्र च किं मानमित्याशय कृना धातुविवरणे मानं दर्शयति सारे-*पचति पाकमुत्पादयतीति । ननु 'या क्रिया भावना सैवोत्पादनाऽपि च सा स्मृता' इत्युक्तेऽपि क्रियाया भावनात्वलाभे किमिति व्यापारप
परीक्षा दिना*-प्राचीननैयायिकसंग्रहः। तन्मते व्यापारस्य धातुवाच्यत्वेऽपि भावनापदवाच्यत्वं नास्ति यतः, ततस्तन्मतनिरासोऽप्यग्रिमपद्येन व्यापार एव भावनापदप्रतिपाद्य इति प्रदर्शनेन कृत इति तेषामुक्तिरपि निरस्तेति भावः।
प्राभाकरास्तु-कृत्यादिकं नाख्यातार्थः। तद्विषयकशाब्दबोधस्य विवादग्रस्तत्वात् , किन्तु कालसङ्ख्ये अनन्यलभ्यत्वात् । 'चैत्रः पचति, रथो गच्छति' इत्यादौ धात्वर्थस्य पाकगत्यादेः स्वजनककृतिमत्वाश्रयत्वादिसम्बन्धेन प्रथमान्तार्थे प्रकारत्वं तस्य चाख्यातार्थभावनां प्रति प्रकारत्वं भावनाविशेष्यकश्च शाब्दबोधः।
न च 'मैत्रः पच्यते तण्डुलः, इत्यतो मैत्रप्रकारकः स्ववृत्तिकृतिमत्वसंसर्गकोऽन्वयबोधो न जायते इत्यनुभवसिद्धम् , तदुपपत्त्ये नामार्थधात्वर्थयोरन्वयबोधोऽव्युत्पन्न इति स्वीकार्यमिति कथं धात्वर्थस्य प्रथमान्तार्थे प्रकारत्वमिति वाच्यम् ? धात्वर्थे भेदसम्बन्धेन नामार्थप्रकारकान्वयबोध एवाव्युत्पन्न इति स्वीकार्य्यन्नतु तादृशसंसर्गको नामार्थविशेष्यकोऽपि नास्तीति स्वीकार्यमित्याशयात् । . न च 'ज्ञानं चैत्र, इति शब्दाज्ज्ञानप्रकारक-आश्रयत्व-संसर्गकान्वयबोधोऽपि न जायत इत्यतो भेदसंसर्गकधात्वर्थप्रकारकनामार्थविशेष्यकान्वयबोधोऽप्यव्युत्पन्न इति स्वीकार्यमिति वाच्यम् ? अत्र ज्ञानस्य नामार्थतया नामार्थयोभेदेनान्वयबोधोऽव्युत्पन्न इति व्युत्पत्त्यन्तरेण तस्य वारणसम्भवादित्याहुस्तन्मतनिरासोऽप्यभिप्रेत इत्याशयेनाह-*प्राभाकरादीनिति । व्यापारो-भावना, सैवोत्पादनेत्यत्र सेति स्वीलिङ्गनिर्देशो विधेयस्य स्त्रीत्वात् । सर्वनाम्नामुद्देश्यविधेयान्यतरलिङ्गत्वस्य 'शैत्यं हि यत्सा प्रकृतिर्जलस्य' इत्यादौ बहुशो दृष्टत्वात् । विव्रियमाणस्य-धातोस्तद्वाचकताभावनावाचकता । एतेनोभयमतं खण्डितम् । ननु “या क्रिया भावना सैवोत्पादनाऽपि