SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ __ धात्वर्थनिर्णयः। व्यापारपदं च फूत्कारादीनामयत्नानामपि फूत्कारत्वादिरूपेण वाच्यतां ध्वनयितुमुक्तम् । अत एव पचतीत्यत्र अधःसन्तापनत्वफूत्कारत्वचूल्ल्युपरिधारणत्वयत्रत्वादिभिर्बोधः सर्वसिद्धः। " नचैवमेषां शक्यतावच्छेदकत्वे गौरवापत्त्या कृतित्वमेव तदवच्छेदकं वाच्यम्, रथो गच्छति, जानातीत्यादीच व्यापारत्वादिप्रकारकबोधो लक्षणयेति नैयायिकरीतिःसाध्वी । शक्यतावच्छेद. कत्वस्यापि लक्ष्यतावच्छेदकत्ववद् गुरूणि सम्भवात् तयोर्वैषम्ये दर्पणः दोपादानमत आह-*व्यापारपदञ्चेति । तथाच व्याप्रियतेऽनेनेति करणव्युत्पन्नेन भावव्युत्पन्नेन वा व्यापारपदेन फलानुकूलयावतामधिश्रयणादीनां भावनात्वलाभाय तदुपादानम् । क्रियापदेन तु कृतिपदवद्यनमात्रार्थकेनोक्तविवरणात् कृते रेव भावनात्वलाभः स्यादिति तदुपात्तमिति भावः।। ____ *अत एवेति । तत्तद्रूपेण फूत्कारत्वादीनां धातुवाच्यत्वादेवेत्यर्थः। *सर्वसिद्ध इति । अत एव पचतीत्युक्ते फूत्कारादिमान्न वेति सन्देहाऽनुदयादिति भावः । यद्रीत्या नैयायिकैः व्यापारत्वस्याख्यातवाच्यतावच्छेदकत्वं निरस्य कृतित्वस्य तद्वयवस्थापितम् , तद्रीत्यैव धातोः कृतित्वमात्रं शक्यतावच्छेदकं भविष्यतीति तटस्थाऽऽशङ्कां निराकरोति*-नचैवमेषामित्यादि* । 'नच' इति साध्वीत्यनेनान्वितम् । *एषाम्*-अधिश्रयणत्वादीनाम् । *गौरवेति । धातुवाच्यत्वावच्छेदकत्वे गौरवापत्येत्यर्थः । तेषां कृतित्वापेक्षया गुरुत्वान्नानात्वाच्चेति भावः। ___ *तदवच्छेदकमिति । धातुवाच्यतावच्छेदकमित्यर्थः। ननु कृतेरेव धात्वर्थत्वे रथादावचेतने तबाधात्ताशप्रयोगानुपपत्तिरत आह-*रथो गच्छतीत्यादि । व्यापारादीत्यादिनाऽऽश्रयत्वप्रतियोगित्वपरिग्रहः । जानातीत्यादावित्यादिपदग्राह्ये घटो नश्यतीत्यादौ नाशाश्रयत्वस्य बाधात्प्रतियोगित्वे एव लक्षणाया द्रष्टव्यत्वात् । ___ *नैयायिकरीतिरिति । आख्यातार्थविचारे हि तैर्व्यापारे लक्षणां कृतौ च शक्ति स्वीकृत्याऽयं प्रयोगः समर्थितस्तद्वन्मयाऽपिसमर्थनीय इति सादृश्यात् रीतिपदोपादानम् न त्वन्यांऽशे तन्मताऽऽदर इति भावः । लाघवोपष्टब्धमानादेवाऽर्थसिद्धिर्न केवलाल्लाघवादित्याशयेन मीमांसकरीत्या तद्रीते रेवाऽसाधुत्वमाविष्करोति-*शक्यतावच्छेदकत्वस्येति । तथाच शक्तिर्गुरुणाऽपि धर्मेणावच्छिद्यते, असति बाधके कृतित्वाल्लक्षणावदित्यनुमानात्तेषु शक्तिः सेत्स्यतीति भावः।। ननु तेषां कृतित्वाऽपेक्षया गुरुत्वमेव बाधकमत आह-*तयोरिति । शक्यताव परीक्षा च सा स्मृता" इत्येव कुतो नोक्तमत आह-*व्यापारपदमिति* *अत एव*-फूत्कारत्वादिना वाच्यतास्वीकारादेव । *सर्वसिद्ध इति । अत एव तत्तद्धर्मप्रकारकसंशयानुत्पादकनिर्वाहः। तटस्थस्य शङ्कां निरस्यति-*नचेत्यादिना* । एषाम्*-फूत्कारत्वादीनाम् । *गौरवेति । नानात्वादित्यादिः । *नैयायिकरीतिः । नैयायिकस्य कृतित्वस्याख्यातवाच्यतावच्छेदकत्वसाधिका रीतियुक्तिर्लाघवकथनरूपा सेत्यर्थः । *तयोः-शक्य
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy