________________
५२
दर्पणपरीक्षासहिते भूषणसारेबीजाभावात् । न च पचति, पाकं करोतीति यत्नार्थककरोतिना विवरणाद् यत्न एवाऽऽख्यातार्थ इति वाच्यम् । रथो गमनं करोति, बीजा. दिना अङ्कुरः कृतः, इति दर्शनात्कृतो यत्रार्थकताया असिद्धः ।
दर्पणः
च्छेदकत्वलक्ष्यतावच्छेदकत्वयोरित्यर्थः । *बीजाभावादिति। सम्भवति समनियते लघौ धर्मे गुरौ तदभावादित्यस्य प्रकृतेऽनवतारेण यद्यवच्छेदकत्वं स्वरूपसम्बन्ध. विशेषस्तदा तत्स्वरूपत्वस्य गुरूणामपि सत्वात्किमनुपपन्नम् । अथातिरिक्तम् , तदा गुरुधर्मेऽपि तत्स्वीकार आवश्यकः । गङ्गातीरत्वं लक्ष्यतावच्छेदकमिति व्यवहारात् । वृत्यवच्छेदककोटिप्रविष्टत्वस्योभयत्र साम्याच्च । तत्र न्यूनाऽतिरिक्तवृत्तित्वरूपाऽवच्छेदकत्वमादाय तादृशव्यवहारो यदि, तदा सर्वत्रैव तथास्त्विति भावः।
ननु लाघवादेव न तस्याऽवच्छेदकत्वं वदामः, किन्तु मानादपीत्याशङ्कते-*नचेति। यत्नार्थककरोतिनेत्युक्त्या व्यापारजन्यत्वप्रतिसन्धानाऽविशेषेऽपि घटाङ्करयोः कृताsकृतव्यवहारात्कृतो यत्नार्थकत्वं सिद्धमेवेति ध्वनयति-*विवरणादिति । तदर्थप्रतिपादकपदकथनरूपादित्यर्थः । धातुमात्रम्-यत्नत्वविशिष्टे शक्तम् , बाधकं विना यत्नत्वविशिष्टाऽर्थककरोतिप्रतिपादिताऽर्थकत्वाद् । यद्यद्विशिष्टबोधकपदप्रतिपादितार्थक भवति तत्तत्र शक्तम् । घटत्वविशिष्टशक्तघटपदप्रतिपादितार्थककलशादिपदवदिति सामान्यतो दृष्टाऽनुमानविधया शक्तिग्राहकत्वाद्विवरणस्येति भावः । यत्न एवार्थ इति पाठः । यत्न एव आख्यातार्थ इति पाठस्तु प्रकृतसन्दर्भविरुद्धः । *अर्थः*-धात्वर्थः । एवकारेण व्यापारस्य वाच्यत्वव्यवच्छेदः । ___ कृजो यत्नार्थकत्वे एव धातुमात्रस्य तदर्थकत्वसम्भावना । तदेव गगनकुसुमोपमानमित्याह-*रथो गमनं करोतीत्यादि । रथादावचेतने यत्नस्य बाधेन तादृशप्रयोगाऽनुपपत्त्या न कृतो यत्नार्थकत्वम् , अपि तु व्यापारार्थकत्वमेवेति, तेन विवरणाद्धातोर्व्यापारार्थकत्वमेव सिद्धयतीति भावः । ___ ननु 'रथो गच्छति' इति प्रयोगस्थधात्वर्थप्रतिपादककृतो व्यापारे लाक्षणिकत्वान्न तेन यत्नार्थकत्वक्षतिरत आह-*बीजादिनेति । तथाच कृतो व्यापारे प्रयोगप्राचुय्येण तत्रैव शक्तिया॑य्येति । तेन विवरणाद्धातोर्व्यापारार्थकत्वमवश्यमङ्गीकरणीयमिति भावः। अत्रेदमवधेयम्-वैयाकरणमतेऽपि पचत्यादेः फूत्कारादिव्यापारे व्यापारत्वेनैव
परीक्षा तावच्छेदकत्वलक्ष्यतावच्छेदकत्वयोः । विवरणादिति । आख्यातार्थस्य विवरणादित्यर्थः । यत्नार्थककरोतिना विवरणादिति भवदुक्तिरेवासङ्गतेत्याह-*रथोगच्छतीत्यादिना* । तथा च कृमो व्यापारे प्रयोगप्राचुर्य्यात्तत्रैव शक्तिकल्पनमुचितम् । तेन च विवरणाद्धातुरपि व्यापारवाचक इति भावः । अत्रेदम्बोध्यम्-फूत्कारत्वादीनां बहुनां वाच्यतावच्छेदकत्वकल्पनापेक्षया व्यापारत्वस्य वाच्यतावच्छेदकत्वमेवोचितम् । अत एव व्यापारस्य व्यापारसामान्यार्थककरोतिना विवरणं सङ्गच्छते । फूत्कारत्वादिना बोधस्तु लक्षणया । अत एव तत्र तत्र पचतीत्यादेविवरणवाक्ये व्यापारत्वेन व्यापारील्लेखः प्रामाणिकानां दृश्यत इति ।