________________
धात्वर्थनिर्णयः। किञ्च भावनाया अवाच्यत्वे घटं भावयतीत्यत्रेव घटो भवतीत्यत्रापि द्वितीया स्यात् । नचाऽत्र घटस्य कर्तृत्वेन तत्संशया कर्मसंज्ञायाः बाधान्न द्वितीयेति वाच्यम् । अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वेन घटस्याकर्तृत्वात् । कृत्याश्रयत्वस्य कारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात् । धात्वर्थानुकूलव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात् ।
दर्पणः शक्तिः, व्यापारसामान्यार्थककृता विवरणात् । एवञ्च व्यापारत्वेन कृतेरपि सङ्ग्रहात् 'मत्तो भूतं, न तु मया कृतम्' इति उपपद्यते इति तत्र तत्रोक्तं सङ्गच्छते। तत्तद्रूपेण क्वचिद् बोधस्तु पचत्यादीनां तत्तद्रूपावच्छिन्ने लक्षणयोपपाद्यः । 'शक्यादन्येन रूपेण ज्ञाने भवति लक्षणा' इत्यभियुक्तः। ____ अत एव वाक्यार्थप्रदर्शनाऽवसरे विक्लित्त्यनुकूलो व्यापारः, ज्ञानाऽनुकूलो व्यापार इति व्यापारसामान्यार्थकव्यापारपदेन स्वोत्कीर्तितस्य सङ्गतिरिति । 'जोऽकर्मकतापत्तेः' इति मूलमवतारयति-*किञ्चेति । *अवाच्यत्वे*-धात्वशक्यत्वे । द्वितीया स्यादिति । धात्वर्थोत्पत्तिरूपफलाऽऽश्रयत्वात् ।।
ननु घटो भवतीत्यत्र कृत्याश्रयत्वरूपकर्त्तत्वबाधेऽपि धात्वर्थफलान्विताऽऽख्यातार्थव्यापाराश्रयत्वरूपकर्तृत्वसत्वात्तेन कर्मत्वस्याऽवश्यं बाधेन नोक्तस्थले द्वितीयाप्रसक्तिः । अन्यथा कर्तरि लकारोऽप्यनाकरतामापद्यतेत्याशय निराकुरुते-*नचेति*। *घटस्येति । घटं भावयतीत्यत्रेव, घटो भवतीत्यत्रापि द्वितीयाऽऽपत्तिः । मन्मते तु धातूपात्तव्यापाराऽऽश्रयत्वेन परया कर्तसंज्ञाया बाधान्न तदापत्तिरिति भावः ।
निराकरणप्रकारतामाह-*अनुगतेति । चेतनाऽचेतनसाधारणेत्यर्थः । *त्वन्मते* । भवदीयमते । *दुर्वचत्वेनेति । वक्तुमशक्यत्वेनेत्यर्थः । तदेवाऽऽह-*कृत्याश्रयत्वस्येति । तस्याऽचेतनेऽव्याप्तत्वादिति भावः । *कारकचक्रप्रयोक्तृत्वस्य वेति । तद्धात्वर्थीयनिखिलकारकप्रवर्तकत्वरूपस्य चेत्यर्थः । नैयायिकमतं निरस्य मीमांसकं प्रत्याऽऽह-*धात्वर्थेति* । *कारकमात्रेतिमात्रपदं कृत्स्नाऽर्थकम् । सर्वस्याऽपि कारकस्य धात्वर्थाऽनुकूलयत्किञ्चित् क्रियाश्रयत्वात् । क्रियाजनकत्वस्यैव कारकत्वादिति भावः। नन्वचेतने कृत्याश्रयत्वरूपकर्तृत्वस्य बाधेऽपीतरव्यापाराऽनधीनत्वप्रकारकविवक्षा
परीक्षा कृज इत्यादिवक्ष्यमाणमूलमवतारयति-*किञ्चेत्यादिना*। *अवाच्यत्वे*-धात्ववाच्यत्वे । द्वितीया स्यादिति । धात्वर्थफलाश्रयत्वस्य द्वितीयोत्पत्तिप्रयोजकस्य सत्वात् । व्यापारस्यापि धातुवाच्यत्ववादिमते तु परया कर्त्तसंज्ञया बाधान्न द्वितीयेति भावः। ननु मन्मतेऽपि तया बाधोऽस्त्विति तदाशङ्कान्निरस्यति-*नचेति । नैयायिकैकदेशिमतन्निरस्यति-*कारकचक्रेति । तद्धात्वर्थीयनिखिलकारकप्रवर्त्तकत्वं हि तत्त्वमिति तेषां मतम् । *अतिव्यापकत्वादिति । स्वस्वव्यापारद्वारैव सर्वेषां क्रियाजनकत्वरूपकारकत्वादिति भावः। ।