SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ५४ दर्पणपरीक्षासहिते भूषणसारेअपि च भावनाया अवाच्यत्वे धातूनां सकर्मकत्वाकर्मकत्वविभाग उच्छिन्नः स्यात् । स्वार्थफलव्यधिकरणव्यापारवाचकत्वं, स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सकर्मकत्वं भावनाया वाच्यत्वमन्तरेणासम्भवि । अन्यतमत्वं तत्त्वमिति दर्पणः विषयव्यापाराश्रयत्वरूपकारकचक्रप्रयोक्तृत्वरूपमेवकर्तसंज्ञानियामकम् । व्यापारश्च क्वचित् कृतिः, क्वचित् संयोगादिरेव । तादृशव्यापाराश्रय एव 'स्वतन्त्रःकर्ता' (पासू० ११४।१४) इति सूत्रे स्वतन्त्रपदार्थः। तत्सूत्रप्रणयनसामर्थ्यात् । तदुक्तं 'कारके (पासू० श६।८३) इति सूत्रे भाष्ये-"प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा। किं पुनः प्रधानं ? कर्ता । कथं ज्ञायते कर्ता प्रधानमिति । यत्सर्वेषु कारकेषु सन्निहितेषु कर्ता प्रवर्त्तयिता भवति" इति स्थाली काष्ठैः पचतीत्यादौ स्थाल्येव तत्त्वेन विवक्षिता इति तद्भावः । वक्ष्यते चाधिकमुपरिष्टात्।। मीमांसकमते प्रसक्तदूषणोद्धतिरपि वक्ष्यमाणैव। एवञ्च घटगततादृशव्यापारस्यैव स्वातन्त्र्यविवक्षया कर्तृत्वस्य निराबाधेन न द्वितीयाप्रसङ्गोऽत आह *अपि चेति । ____ *स्वार्थफलेति । शक्यतावच्छेदककोट्यप्रविष्टाऽऽश्रयकत्वेन फलस्य विशेषणान्न जीवत्यादावतिप्रसङ्गः । एवमविवक्षितकर्मकत्वाऽभावत्त्वेनाऽपि स्वार्थो विशेषणीयः, नाऽतोऽविवक्षितकर्मतयाऽभ्युपगतभावलकारप्रकृतिकस्मृधातौ सः। वैयधिकरण्यं त्वये विषेचयिष्यते। *असम्भवीति । तथाच व्यापारवाचकत्वं धातोरावश्यकमिति भावः। *अन्यतमत्वमिति । पच्यादिधातून् शृङ्गन्याहिकयोपादाय तावद्भिन्नभिन्नत्वमित्यर्थः। ' परीक्षा नन्वचेतनेऽपि कारकान्तरव्यापारानधीनव्यापाराश्रयत्वरूपस्वातन्त्र्यसत्वात्"स्वतन्त्रः कर्ता” इत्यत्र तादृशस्वातन्त्र्यस्य विवक्षया परया कर्त्तसंज्ञया बाधान्न द्वितीयापत्तिः । अत एव 'स्थाली पंचति इति प्रयोगो दृश्यते । तदुक्तं "कारके” इति सूत्रभाष्ये-"प्रधानेन समवाये स्थाली परतन्त्रा; व्यवाये स्वतन्त्रा। किं प्रधानम्कर्ता । कथं ज्ञायते कर्ता प्रधानमिति । यत्सर्वेषु कारकेषु सन्निहितेषु कर्ता प्रवर्त्तयिता भवतीति । एवं च यदा यस्य स्वातन्त्र्यविवक्षा; तदा तस्य कर्त्तत्वम् , तदा तन्निष्ठो व्यापारो यथायथमूहनीयोऽन्तत आश्रयत्वमेवेत्यत आह-*अपिचेति । *स्वार्थफलेति । नच जीवत्यादिष्वतिव्याप्तिः, तेषामपि प्राणधारणानुकूलव्यापारादिवाचकतया तादृशश्त्यादिरूपफलव्यापारवाचकत्वादितिवाच्यम् ? स्वशक्यतावच्छेदकघटकाश्रयाविशेषितत्वेन फलस्य विशेषितत्वात् । असम्भवीति । व्यापारस्य धात्ववाच्यत्वे उक्तस्यार्थस्य निर्वस्तुमशक्यतयोक्तव्यवस्थाया असम्भवादित्यर्थः । *अन्यतमत्वमिति* । सकर्मकत्वप्रकारकप्रामाणिकव्यवहारविषयान् पच्यादिधातून तत्तव्यक्तित्षेनोपादाय तत्तदन्यतमत्वं सकर्मकत्वम् (१)तत्तद्भिन्नत्वरूपं वाच्यमि (१) तत्तद्धात्वनुपूर्व्यवच्छिन्नप्रतियोगिताकभेदसमुदायवभिन्नत्वमिति यावत् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy