SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारे - आश्रयस्यापि प्रकृत्यैव लाभान्न विभक्तिवाच्यता, किन्त्वाश्रयत्वमात्रं वाच्यम् । तदेव च तादात्म्येनावच्छेदकम् । करणतृतीयायाश्च १९४ दर्पणः यानुक्तत्वादिति भावः ॥ शक्तिवादपक्षमवलम्ब्याह - आश्रयस्यापीति ॥ आश्र यत्वेन भानं त्वसिद्धमेवेति भावः ॥ *आश्रयत्वमात्रमिति ॥ द्वितीयातृतीयासप्तमीनामिति शेषः । मात्रपदेनाश्रयव्यवच्छेदः । नवाश्रयत्वस्य शक्यत्वे आश्रयत्वं शक्यतावच्छेदकं वाच्यम् । तच्चाश्रयत्वे - तरावृत्तित्वघटितत्वाद् गुर्विति शक्यतावच्छेदकगौरवमेवैतस्मिन् कल्पे दोष इत्यत आह - * तदेवेति ॥ आश्रयत्वमेवेत्यर्थः । एवकारेण निरुक्ताश्रयत्वव्युदासः । तस्याखण्डत्वस्योपपादितत्वान्नानाव्यक्तिविशेष्यकशक्तिग्रह एव स्वेतरधर्म याव च्छेदकत्वापेक्षणादिति भावः । कर्त्ततृतीयाया आश्रयमात्रार्थकत्वादाह – *करणेति ॥ व्यापारोऽपीत्यपिनाऽऽश्रयसमुच्चयः ॥ परीक्षा —*आश्रय 1 'अनन्यलभ्यो हि शब्दार्थ' इति न्यायोपष्टम्भेन मतान्तरमुपपाद्यति -* स्यापीत्यादिना । नन्वेवमाश्रयतात्वस्य वाच्यतावच्छेदकत्वे गौरवमत आह*तदेवेति* । आश्रयत्वमेवेत्यर्थः । नचान्यस्मिन्पक्षे 'प्राप्तोदको ग्राम' इत्यादौ द्वितीयाद्यर्थबहुव्रीहौ सामानाधिकरण्यानुपपत्तिरिति वाच्यम् ? अप्रथमा विभक्त्यर्थे बहुव्रीहिरिति वाक्यघटकविभक्तिपदस्य विभक्तिप्रकृतिपरत्वात् । अन्यथा षष्ठ्याद्यर्थबहुव्रीहापि सामानाधिकरण्यं न स्यात् । एवं च 'चित्रगुं देवदत्तं पश्य' 'वीर पुरुषकाय ग्रामाय गच्छ' इति न स्यात् । अथ यत्र न सम्प्रदाने चतुर्थी ; तत्र कस्तस्यार्थ इति चेत् ? शृणु-'यूपाय दारु' इत्यादौ "तादयें चतुर्थी वाच्या" इति वार्त्तिकात्तादर्थ्य वाच्यम् ? तच्च तस्म इदं तदर्थम्, तदर्थस्य भावस्तादर्थ्यमिति व्युत्पत्या तदुपकारकत्वरूपमिति तु न सर्वत्रोचितम् । मृत्तिकानयनादिद्वारा रासभादेर्घटाद्युपकारकत्वात् 'घटाय रासभ' इति प्रयोगापत्तेः । नापि तज्जनकत्वम् ; रासभस्य त्वन्यथासिद्धत्वेन जनकत्वाभावान्नापत्तिरिति युक्तम् । 'दुःखाय पापं करोति' इत्यापत्तेः । नापि तादृशेच्छा जन्येच्छाविषयत्वम् । फलेच्छाया उपायेच्छां प्रति प्रयोजकतया 'तृप्तये पचति' इत्यादौ पाके तृप्तित्वसम्भवादिति युज्यते । 'यूपाय दारु' इत्यादावेवानुपपत्तेः । दार्वानयनतक्षणादीच्छाया एव यूपेच्छाजन्यत्वम् ; न तु दार्विच्छाया इति भवत्सम्म - ततादर्थ्यानुपपत्तेः, 'स्वर्गाय पुण्यम्' इत्यापत्तेश्च । नचेष्टापत्तिः । तथा सति 'पाकाय व्रजति' इत्यादावपि तादयें चतुथ्ये॑व निर्वाहे "तुमर्थाच्च भाववचनात्” इति सूत्रस्य वैयर्थ्यापत्तेः, किन्तु तदर्थनिष्टफलेच्छाधीन व्यापारेच्छा विषयव्यापारवत्वरूपमेव तत् । अस्ति चेदं 'यूपाय दारु' इत्यादिस्थले । अत्र हि यूपनिष्ठं फलं तस्य निष्पतिस्तदिच्छाधीना या इच्छा तक्षणादीच्छा तद्विषयो यो न्यूनीभवनादिरूपो व्यापारस्तदाश्रयत्वं दारुण्यस्ति, नहि तथात्वं स्वर्गाय पुण्यमित्यादौ सम्भवतिः स्वर्गादिनिष्पत्तिं प्रति यत्नत्वेन पुण्ये च्छाया एव जनकत्वम् । नतु पुण्यसम्पत्तीच्छायाः । एवं च तन्निष्टफलेच्छाजन्येच्छाविषयव्यापाराश्रयत्वम्, न पुण्यस्येति केचित् । तन्न । 'मुक्तये हरिं भजति' इति प्रयोगानुपपत्तेः । भजनरूपक्रियायां तादृशव्यापाराभावात् । किन्तु तदिच्छाधीनेच्छा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy