________________
१९३
सुबर्थनिर्णयः। । सुपा कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिङाम् । . इति भाष्याच्चेति दिक् ।
दर्पणः दावुदककर्तृकप्राप्तिकर्मत्वस्य समासार्थस्य समानविभक्तिकपदोपस्थाप्यग्रामादावभेदान्वयाऽनुपपत्तेरत्राऽपि जागरूकतया द्वितीयादिविधायकसूत्रस्थकर्मादिपदानां धर्मिवाचकत्वमावश्यकमिति भावः। __ननु त्वन्मतेऽपि षष्टयाः सम्बन्धार्थकतया तदर्थविहितबहुव्रीहेः पदार्थान्तरसामा. नाधिकरण्यानुपपत्तेस्तौल्येन तत्र लक्षणया विशिष्टशक्त्या वा सामानाधिकरण्यस्योपपाद्यतयाऽन्यत्रापि तयैव रीत्या निर्वाहे कृतं सुपां धर्मिवाचकत्वेनेत्यत आह-सुपां कर्मादयोऽप्यर्था इति* ॥ __ यदि कर्मत्वादिधर्मो द्वितीयादिवाच्यतया विवक्षितोऽभविष्यत् । तदा कर्मत्वाद. योऽप्यर्था इत्येवाऽवक्ष्यत् । तदनुक्त्या तु तेषां द्वितीयाद्यर्थत्वमप्रामाणिकम् । मुनित्र
परीक्षा . तथा भाष्यस्वारस्यमप्यत्रार्थेऽस्तीत्याह-*सुपामित्यादिना । ननु द्वितीयादीनां कर्मत्वाद्यर्थकत्वे तेषु प्रकृत्यर्थस्याधेयतारूपप्रसिद्धसम्बन्धेनान्वय उपपद्यते, धर्मिवाचकत्वे तु धर्मिषु प्रकृत्यर्थस्याभेदोवाच्यः, स च न सम्भवति । सम्बन्धोहि सम्बन्धिभ्यां मिन्नो द्विष्ठो विशिष्टबुद्धिनियामको भवति । न च तथात्वमभेदस्य सम्भवति । सम्बन्धिभिन्नत्वविरहादिति चेद ? न । सम्बन्धिप्रतियोगिको भेदस्त्वव्यावर्त्तक उभयभेदस्य सर्वत्र सत्वात् । किन्तु सम्बन्धितावच्छेदकानवच्छिन्नविषयताश्रयत्वरूपः पारिभाषिक एव सम्बन्धत्वनियामक इति वाच्यम् ? स चाभेदस्य संसर्गत्वेऽपि सम्भवत्येवेत्याशयात् । नचाभेदस्य संसर्गत्वे 'राहोःशिरइत्यादावोपाधिकभेदमादाय षष्ठ्युपादानं भाष्यकारीयं विरुध्येत । चैत्रस्य धनम् इत्यत्रेवानायासेनैवोपपत्तिसम्भवादिति वाच्यम् । तत्रानेकावस्थायुक्तराहोरेकावस्थायुक्तं शिरोऽवमतम्, इत्येवं रीत्या षव्युपपचि कुर्वता भाष्यकृता यत्र भेदमूलकः सम्बन्धस्तत्र षष्ठी भवतीति ध्वन्यत इति सम्बन्धस्य प्रकृत्यर्थनिरूपितविशेष्यतया भानं यत्र तत्र षष्ठी वा स्वीकारात् । सम्बन्धस्य विशेष्यत्वे मानं तु क्रियाकारकयोः सम्बन्धस्य वाचिका द्वितीयेति भाष्याद् विभक्त्यर्थस्य संसर्गविधया भानेऽपि 'काण्डे 'कुड्ये इति विभक्त्यर्थप्रधानमिति भाष्यमेव । अभेदस्य संसर्गत्वादेव 'नीलमुत्पलम् इत्यादिशब्दानां विशिष्टबुद्धिजनकत्वमुपपद्यते । ये त्वमेदस्य संसर्गतां विनाऽपि-इतरसम्बन्धानवच्छिन्नविशेषणविशेष्यभावमुभयपदार्थयोःस्वीकुर्वन्ति । तेषां मतं न सर्वसद्धदयमनोऽनुकूलम् । विशेषणविशेष्यभावस्यापि संसर्गः नियतत्वात्तस्येतरसम्बन्धानवच्छिन्नत्वस्य वक्तुमशक्यत्वात् । अत एव भासमानवैशिष्टयप्रतियोगित्वं विशेष्यत्वमित्यभियुक्ताः। किंचेतरसम्बन्धानवच्छिन्नविशेषणविशेष्यभाव एवाभेदः, स एवाभेदः संसर्ग इति व्यवहारविषय इति हि तन्मतम् । तदपि न चमत्कृतम् । तन्मतसिद्धाभेदेऽपि सम्बन्धिभेदानुपपादनात् । संसर्गतावच्छेदके प्रतियोगितावच्छेदकानुयोगितावच्छेदकयो दसत्वात्तस्य संसर्गत्वमिति चेदलंसिद्धाभेदातिरिक्ताभेदस्वीकारेणेति दिक् । .
२५ द० प०