________________
१९२ दर्पणपरीक्षासहिते भूषणसारेवाचकत्वात् । धर्ममात्रवाचकत्वे, “कर्मणि द्वितीया"(पासू०२॥ ३।२) इति सूत्रस्वरसभङ्गापत्तेः। कर्मार्थककृत्तद्धितादौ तथादर्शनाच । द्वितीयाद्यर्थकबहुव्रीहौ 'प्राप्तोदक' इत्यादौ धर्मिवाचकत्वालाभाच्च ।
दर्पणः
तशब्दान्तरोहितविशेषणभावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयतेः इत्यत्र प्रतिपादितपदमपहायोहितशब्दप्रयुञ्जानेन विशेष्यविशेषणभावनियामकत्वमितरसम्बन्धस्यैवाङ्गीकृतम्। ___ वस्तुतस्तु प्रकृते विशेष्यविशेषणभावस्य सम्बन्धतानुपपन्नैव सम्बन्धस्य सम्बन्धिभेदनियतत्वादिति तदुक्तः। विशेष्यविशेषणयोर्भाव इति व्युत्पत्त्या तस्या विशेव्यत्वविशेषणत्वमात्रपऱ्यावसायितया प्रत्येकं तयोरद्विष्ठत्वाच्चाऽनुयोगित्वप्रतियोगित्वाभ्यां द्विष्ठत्वोपपादनेऽप्येकस्यैव सा स्यान्न समुदितयोर्द्वयोः, स्वस्वामिभाववत् शब्दानुगममात्रस्याऽर्थाऽपरिच्छेदकत्वात् सम्बन्धान्तरे षष्ठी, न विशेष्यविशेषणभावसम्बन्धे इत्यत्र मानाभावाच्च । तस्माद्यथोक्तमेव रमणीयमिति । ननु विभक्तीनां धर्मवाचकत्वस्य तन्त्रान्तरसिद्धतया कथं तत्र प्रकृत्यर्थस्याभेदेनाऽन्वयः, अयोग्यत्वादत आह-विभक्तीनामिति । कारकविभक्तीनामित्यर्थः । *धर्मिवाचकत्वात् । शक्तिमच्छक्तत्वादित्यर्थः । ।
नन्वस्तु शक्तिरेवाऽर्थोऽत आह-धर्मवाचकत्व इति*। *सूत्रस्वरसभङ्गापत्ते. रिति ॥ तद्घटककर्मादिपदानां धर्मपरतां विनोक्ताऽर्थाऽलाभात्तत्परत्वे तगङ्गः स्पष्ट एवेत्यर्थः । तथाऽर्थस्य सूत्रकारसम्मतत्वे, कर्मत्वे द्वितीयेत्याद्येव ब्रूयादिति भावः ।
ननु 'कर्मणि इत्यादौ विषयसप्तमीबोध्य इत्यर्थः । तथाच विभक्तीनां धर्माऽवाचकत्वेऽपि तस्याश्रयतया प्रकृत्यर्थेऽन्वयेन कर्मबोधात् तत्फलान्वयिनी वृत्तिरेव द्वितीयार्थ इतिमतेऽपि तुल्यवित्तिवेद्यतया तण्डुलादीनां फलाश्रयकर्मत्वादिना भानान्न सूत्रस्वरसभङ्गोऽत आह-*कर्मार्थकेति ॥ कृति-पक्कस्तण्डुल इत्यादौ । तद्धिते-शत्योऽश्व इत्यादौ । आदिपदात् , पच्यमानास्तण्डुला इत्यादौ लडादेशशानसंग्रहः ॥ ___ *तथा दर्शनादिति ॥ धर्मिवाचकतादर्शनादित्यर्थः । तथाच कर्मपरामर्शकतच्छब्दघटितयोरित्यादिसूत्रविहितक्तादीनां धर्मिवाचकत्ववदत्राऽपि तद्वाचकत्वमेव न्याय्यमिति भावः । ननु तत्र पदार्थान्तरसामानाधिकरण्याऽनुपपत्त्याऽस्तु तथात्वमत्र तूक्तापत्त्यभावेनाऽस्तु धर्मवाचकत्वमेवेत्यत आह-द्वितीयाद्यर्थकेति ॥ द्वितीयादिविभतीनां धर्मवाचकत्वे तदर्थविहितसमासस्यापि धर्मवाचकत्वापत्त्या 'प्राप्तोदकः' इत्या.
परीक्षा द्रष्टव्यः। धर्मी वाच्य इत्यत्र दृष्टान्तमाह-*कर्मार्थकेति । प्रकृति-मधू इत्यादौ, *तद्धिते*-शत्योऽच इत्यादौ । आदिपदेन लादेशो ग्राह्यः । शतृशानचोर्गोबलीवर्दन्या. योक्तिः । *तथादर्शनात*-धर्मिवाचकतादर्शनात् । ननु 'पक्कस्तण्डुलः, 'शत्योऽन्यः, 'पालनं कुर्वन्तं कुर्वाणं वा राजानमीश्वरं जानातिइत्यादौ पदान्तरसामानाधिकरण्यानुरोधार्मिवाचकताऽस्तु । 'ग्रामं गच्छति' इत्यादौ द्वितीयायास्तथात्वे किमानमत आह-द्वितीयाद्यर्थकेति । तथास्वीकारे द्वितीयाद्यर्थप्राप्तोदको ग्राम इत्यादौ सा- • मानाधिकरण्यस्योपपत्तिर्भवति; नत्वन्यथेति ।