________________
सुबर्थनिर्णयः।
१९१
अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः । विभक्तीनां धर्मि
दर्पणः
भावेच्छारूपः, परस्वत्वगोचरस्वस्वत्वाभावेच्छारूपो वा त्यागोऽर्थः । अन्वयबोधस्तु " नमः स्वस्ति" (पा०सू०२।३।१६) इतिसूत्रोक्तदिशोहनीयः । सर्वत्रेति । तत्तत्सूत्रविहितद्वितीयाद्यन्तप्रयोगेष्वित्यर्थः ॥ *अभेदः संसर्ग इति । अभेदात्मकः संसर्गो विशिष्टबुद्धिनियामको विशेष इत्यर्थः । अभेदसंसर्गकप्रकृत्यर्थ प्रकारकबोधं प्रति सम्बन्धार्थकविभक्तिभिन्नप्रत्ययजन्योपस्थितेर्हेतुत्वादिति भावः ।
यत्तु सम्बन्धस्य सम्बन्धिभेदनियतत्वादभेदस्य सम्बन्धत्वे मानाभावादभेदः संसर्ग इत्यस्य अभेदेऽपि संसर्गः - इतरसम्बन्धानवच्छिन्नविशेष्यविशेषणभाव इति; तन्न । विशेष्यविशेषणभावस्याऽपि सम्बन्धनियतत्वेन तदसत्त्वे तस्याऽप्यसम्भवात् । अत एव भासमान वैशिष्ट्यप्रतियोगित्वं विशेषणत्वमिति टीकाकृतः । कथमन्यथा 'द्विष्टोऽप्यसौ परार्थत्वात्' इति विशेषणत्वेन विवक्षितस्य सम्बन्धं विना विशेषणत्वाऽसम्भवेन तदाकाङ्क्षित्वादिति स्वयं व्याख्यातम् ।
न तस्य सम्बन्धत्वे 'नीलो घट' इत्यादौ षष्ठ्यापत्तिरिति वाच्यम् । 'शहोः शिर' इत्यादावौपाधिकभेदसम्बन्धमादाय षष्ठयुपपादनपरस्य " अनेकाऽवस्थायुक्तराहोः इदमेarsaस्थायुक्तं शिरोऽवयव" इति भाष्यप्रामाण्येन भेदमूलकसम्बन्ध एव षष्ठी इत्यर्थलाभादभेदसम्बन्धे तदापादनाऽसम्भवात् । तादृशभाष्येणाऽभेदसम्बन्धस्य प्रातिपदिकार्थविशेष्यत्वाऽविवक्षणाद्वा । सम्बन्धस्य सम्बन्धिभेदनियतत्वं त्वसिद्धमेव । यदि भेदनियतत्वमेवेत्याग्रहस्तदा सर्वसाधारण्याय सम्बन्धिताऽवच्छेदकभेद एव नियामकत्वेनाऽभ्युपेयताम् ।
न च तत्सम्बन्धवे मानाऽभावः । सर्वसिद्धनीलादिविशिष्टबुद्धेरेव मानत्वात् । शाब्दबोधे तद्वाननियामकं च प्रकृतिप्रत्ययविशेषयोः समानाधिकरणप्रातिपदिकार्थयोश्च समभिव्याहाररूपाकाङ्क्षादिः । अत एव “अर्थवत्सूत्रे” (पा०सू० १।२।४५) भाष्ये “एषां पदानां सामान्ये वर्तमानानां यद्विशेषे पर्यवसानं स वाक्यार्थः" इत्युक्तम् ।
अन्विताभिधानवादिमतेन चेदम् । तन्मतेऽन्वितस्यैव पदार्थत्वात् । तथाच सामान्यरूपेण सम्बन्धवाचकानां पदानां यद्विशेष इत्यादेस्तत्तदनुयोगिप्रतियोगिकत्ववैशिष्ट्यबोधकत्वम् । आकाङ्क्षादिसमवधानात् स एव वाक्यार्थो वाक्यजन्यबोधविषय इत्यर्थः । वाक्यशक्त्यभिप्रायेण वा तथाऽभिधानम् । प्रातिपदिकार्थसूत्रे भाष्ये “पदसामानाधिकरण्यमुपसङ्ख्यानमधिकत्वाद्" इत्यस्य तु 'वीरः पुरुष' इत्यादौ विशेष्यविशेषणभावप्रयोजकप्रातिपदिकार्थाऽतिरिक्ताऽभेदसंसर्गस्याऽपि भानात् प्रातिपदिकाऽर्थमात्राऽभावात् प्रथमा न प्राप्नोतीत्यतः प्रथमाया उपसङ्ख्यानमारब्धव्यमित्यर्थान्न तद्विरोधोऽपि ।
कैटेनाऽपि न वाक्यार्थत्वादिति तत्प्रत्याख्यानावसरे वीरप्रातिपदिकादनपेक्षि
परीक्षा
*सर्वत्र सर्वविधसम्प्रदानस्थले द्वितीयादिस्थले च । *अभेदः संसर्ग इति । तथाचा भेदसम्बन्धावच्छिन्नप्रकृत्यर्थनिष्ठ प्रकारता निरूपितविशेष्यता सम्बन्धेन शाब्दबोधं प्रति षष्ठीभिन्नविभक्तिजन्योपस्थितिर्विशेष्यतासम्बन्धेन कारणमिति कार्य्यकारणभावो