SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ दर्पण परीक्षासहिते भूषणसारे - अनिराकरणात् कर्त्तुस्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते सम्प्रदानताम् । इति वाक्यपदीयात् त्रिविधम् । 'सूर्यायार्घ्यं ददाति' इत्याद्यम् । नात्र सूर्यः प्रार्थयते, नानुमन्यते, न निराकरोति । प्रेरकम् – 'विप्राय गां ददाति' - 'अनुमन्तृ - ' उपाध्यायाय गां ददाति ॥ १९० इदञ्श्च दर्पणः यर्थः । तत्र प्रकृत्यर्थस्य शिवादेर्विषयताविशेषसम्बन्धेनाऽन्वयः, द्वितीये विषयताविशेष एव सः । तत्र च प्रकृत्यर्थशिवादेर्निरूपितत्वसम्बन्धेनाऽन्वयः । नमः पदार्थत्यागस्य विषयता विशेष सम्बन्धेनाऽर्घादिद्रव्येऽन्वयः । द्रव्यस्यैव वा विशेष्यतया भासमानत्यागेऽन्वयः । शिवायोत्सृजतीत्यादाविव नात्रानिराकर्तृ सम्प्रदानता, नमः पदस्याऽधातुत्वात् । नमः पदेन च स्वप्रयोक्तृपुरुषकर्त्तृकत्वोपरागेणैव त्यागो बोध्यते । अन्योच्चरितनमः - पदेनान्यदीयत्यागाबोधनात् । तत्पुरुषोच्चारितनमः पदात्यागबोधे त्यागे त्यज्यमानद्रव्ये च तदीयत्वसंशयानुदयात् । अत एव तदीयत्वबोधनायाऽहं दद इतिवद्, 'अहं नम' इत्यादि न प्रयुज्यते । ऋत्विजा च यजमानरूपपुरुषान्तरीयद्वव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते । स चारोपस्तस्मिन् विशेषदर्शनदशायामहार्य - तोपपद्यते । प्रतिनिधिप्रयुक्तदानवाक्यस्येव च पूजायां नमःपदघटितवाक्यस्य बाधितार्थकत्वेऽप्यदृष्टजनकत्वं न विरुद्धम् । शास्त्रप्रामाण्यादित्याद्यन्यत्र विस्तरः । 1 1 तद् विभजते—*इदमिति ॥ " कर्मणा यमभिप्रैति” ( पा०सू०१ |४| ३२ ) इति सङ्केतितं सम्प्रदानं चेत्यर्थः । त्रिविधमित्यनेनाऽन्वितम् । त्यागाङ्गं कर्मणेप्सितं कर्तु - निराकरणादित्रिभ्यः सम्प्रदानव्यपदेशं लभत इति योजना | स्वनिष्ठोद्देश्यतानिरूपकत्वसम्बन्धेन त्यागे समभिव्याहृतधात्वर्थे विशेषणतया प्रतीयमानत्वं तदङ्गत्वम् । तेन 'वृक्षायोदकमा सिञ्चति' इत्यादौ न वृक्षादेराधिक्यम् ॥ *कर्मणेप्सितमिति । कर्मजन्य फलभागितयेच्छाविषयः । इदं च विशेष्यं तद्भेदनियामकमाह-अनिराकरणादिति । प्रवृत्तिनिवृत्यन्यत - राऽनुकूलव्यापारशून्यत्वादित्यर्थः । *प्रेरणेति । अप्रवृत्तस्य कर्त्तुस्त्यागादाविष्टसाधनताबोधनं प्रेरणाजातेष्टसाधनताबोधे अप्रामाण्यशङ्कया शिथिलस्य कर्तुस्तादृशाशङ्काविधूननक्षमप्रमाणोपन्यासेन प्रवर्त्तनं कर्मनिष्टस्वत्वादिफलाऽभ्युपगममात्राऽनुकूलव्यापारवत्त्वं वाऽनुमतिस्ताभ्यामित्यर्थः । एवञ्च प्रकृतधात्वर्थ कर्मजन्यफलभागितयेच्छाविषयत्वे सति कर्तृ प्रवृत्तिनिवृत्त्यन्यतरानुकूलव्यापाराऽभाववत्त्वमनिराकर्त्तृत्वम् । निरुक्तविषयकत्वे सति कर्त्तृसम्बन्धित्यागादिविषयकेष्टसाधनताबोधौपयिकव्यापारवत्त्वं प्रेरकत्वमित्याद्यूह्यम् । *सूर्याया ददातीति । अत्र मतभेदेन दाधातोः परस्वत्वेच्छाधीनस्वस्वत्वापरीक्षा *अनिराकरणादिति । कर्त्तुरनिराकरणात्त्यागाङ्गकर्मणा ईप्सितमेकम् । कर्त्तुः प्रेरगाङ्ग द्वितीयम्, स्वानुमतिप्रदर्शनेन त्यागाङ्गं तृतीयम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy