SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः। १८९ दर्पणः विषयत्वमेव सम्प्रदानत्वम् ।अन्वर्थमहासज्ञाकरणसामर्थ्यांदुक्तस्थले च ददातेस्तदर्थकत्वाभावेन 'रजकस्य वखं ददाति' इत्येवेति तेषामाशयः । उक्तभाष्यप्रामाण्यादन्वर्थत्वमेवाऽसिद्धम् , महासज्ञाकरणं तु प्राचामनुरोधादेव, सर्वनामस्थानसज्ञावदित्यस्वरसादाहुरिति । ननु 'अजां ग्रामं नयति' इत्यत्राजायां निरुक्तसम्प्रदानत्वस्य सत्त्वात्तद्वाचकाच्चतुझ्पत्तिरिति चेद् ? स्यादेक यदि परया कर्मसज्ञया सम्प्रदानत्वस्य न बाध इति । 'यूपाय दारु' इत्यादौ न सम्प्रदानचतुर्थी, अपि तु तादयें । तादर्थ्य च-स एवार्थः प्रयोजनमस्य तत्त्वम् । समभिव्याहृताऽर्थे तादर्थ्यविवक्षायां तद्वाचकाच्चतुर्थीति 'तादयें चतुर्थी वाच्या' इति वार्तिकार्थः।। प्रयोजनत्वं च न जन्यत्वं दःखाय पापमित्यस्याऽप्यापत्तेः। नाऽपि जन्यतयेच्छाविषयत्वम् । स्वर्गादेः पुण्यादिजन्यतयेच्छाविषयत्वेन स्वर्गाय पुण्यमित्यापत्तेः। नचेष्टापत्तिः। तथा सति पक्तुं व्रजतीत्यर्थे पाकाय व्रजतीति प्रयोगनिहाय "तुमर्थाच्च" (पा० सू० २।३।१५) इतिसूत्रप्रणयनवैयापत्तेः । पाकादेनिरुक्तव्रजनाद्यर्थतयैव तद्वाचकाद्वार्तिकेन चतुर्युपपत्तेः । अपितु समभिव्याहृतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छाविषयत्वम् । तत्प्रयोजनकत्वरूपं तादर्थ्य तु तदिच्छाधीनेच्छाविषयव्यापाराश्र. यत्वम् । दारुणो यूपेच्छाधीनेच्छाविषयतक्षणादिरूपव्यापारवत्तया यूपाऽर्थत्वात्तद्विवक्षया यूपपदाच्चतुर्थी । तदर्थश्वेच्छाऽधीनेच्छाविषयव्यापाराश्रयत्वम् । प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयित्वेनाऽन्वयः । तस्याऽऽश्रयतया दादौ, एवं 'रन्धनाय स्थाली'इत्यादावप्यूह्यमिति केचित् । __ तन्न मनोरमम् । तादर्थ्यस्योक्तरूपत्वे 'मुक्तये हरिं भजति' इत्यत्र चतुर्थ्यनुपपत्तेः । न हि भजनस्य मुक्तीच्छाऽधीनेच्छाविषयव्यापारवत्ता। नाऽपि मुक्तेः सम्प्रदानता, कर्मजन्यफलभागितयाऽनुद्देश्यत्वात् । तस्मात्तदिच्छाधीनेच्छाविषयत्वमेव तत्तादर्थ्यम् । 'स्वर्गाय पुण्यम्' इत्यादयस्त्विष्यन्त एव । वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेर्न "तुमर्थात्” इतिसूत्रानुपपत्तिरपीति । नमः स्वस्त्यादिशब्दयोगेऽपि तदर्थविशेषणवाचकात् “नमः स्वस्ति" (पा० सू० २।३।१६ ) इति सूत्रेण चतुर्थी विधीयते। तत्र नमः पदार्थस्त्यागो नतिश्च । तत्र नतिः स्वाऽपकर्षबोधनाऽनुकूलो व्यापारः । 'हरये नमः' इत्यादौ 'एषोऽर्धः शिवाय नमः' इत्यादौ च त्यागः । चतुर्थ्याच तत्रोद्देश्यत्वं प्रत्याय्यते । त्यागश्च यदि शिवस्यायं भवत्विति फलेच्छाऽधीनो न ममेत्याकारकः स्वस्वत्वेच्छाभावरूपस्तदा तदुद्देश्यत्वं त्यागजनकेच्छायाः स्वत्वभागिसया विषयत्वम् । यदि त्यागरूपेच्छैवाऽन्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि विषयीकरोति तदा स्वत्वभागितया विषयत्वमेव तदुद्देश्यत्वम् । न तु स्वीकारायत्वम् । शिवादेविग्रहवतोऽपि स्वीकाराभावात्तदाऽकारकतयाध्यातस्य मन्त्रस्य त्यागोद्देश्यतामते तदभावाच्च । ___ त्यज्यमानोपचारादौ शिवादिनिरूपितस्वत्वाऽभावेऽपि तदीयत्वेन तत्र द्रव्ये स्वत्वाऽवगाहिनीच्छाविसम्वादिरूपैव । अन्यदीयस्वत्वे बाधितं शिवादिनिरूपितत्वं शिवादिनिरूपितप्रसिद्धस्वत्वान्तरे वा बाधितं तद्व्यसम्बन्धमवगाहते। तत्र प्रथमे स्वत्वप्रकारकेच्छाजन्यत्वं जन्यतासम्बन्धेन तादृशेच्छावत्त्वं वा चतु
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy