SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १८८ दर्पणपरीक्षासहिते भूषणसारेच्छतीति विहितं दण्डदानं न प्रतिपत्तिः, किन्तु चतुर्थीश्रुत्यार्थकर्मेति तत्र निर्णीतम् । रजकाय वस्त्रं ददातीत्यपि, खण्डिकोपाध्यायः शिष्याय चपेटां ददातीति भाष्योदाहरणादिष्टमेव । वृत्तिकारास्तु-सम्यक् प्रदीयते यस्मै तत् सम्प्रदानमित्यन्वर्थसंज्ञया स्वस्वत्वनिवृत्तिपर्यन्तमथं वर्णयन्तो रजकस्य वस्त्रमित्येवाहुः । दर्पणः मापूर्वसद्भावादिति सिद्धान्तितम् । तद्वद्दण्डदानं न प्रतिपत्तिरिति योजना । *इत्यधिकरण इति । चतुर्थाध्याय इति शेषः । __ ज्योतिष्टोमं प्रकृत्यैव, 'मैत्रावरुणाय दण्डं प्रयच्छति" इति श्रूयते। तत्र दण्डदानस्याऽर्थप्रतिपत्तिकर्मभावसन्देहेऽध्वर्युणा दीक्षासिद्धय दत्तदण्डस्याऽऽसोमक्रयाद्यजमानधारणेन कृतार्थत्वादुपयुक्तस्य तस्य दानं प्रतिपत्तिकमवेति पूर्वपक्षे, "दण्डी प्रैषानन्वाह" इति श्रवणान्मन्त्रावरुणस्य प्रैषाऽनुवादेऽवलम्बनाय दण्डोऽपेक्षितः। एवञ्च भविष्यदुपयोगसद्भावात् दानव्याप्यमानदण्डव्याप्यमानत्वेन मैत्रावरुणस्य प्राधान्याच्च दण्डदानस्य प्रतिपत्तिकर्मण उपयुक्तसंस्काररूपादर्थकर्मेवोपयोक्ष्यमाणसंस्काररूपत्वेन प्राशस्त्याच्चार्थकर्मतैवोचिता । उपयोजयितुमेव सर्वत्र संस्कारप्रवृत्तः। उपयुक्त तु प्रतिपत्तिरूपसंस्कारस्यासत्कारमात्रपर्य्यवसायित्वेन कार्य्यपर्यावसानाऽभावादप्रशस्तत्वमतो मैत्रावरुणसंस्काराय तद्दानमर्थकर्म । तथा सति निरूढ. पशौ असत्यपि दीक्षिते दण्डसम्पादनस्यैतदू दानं प्रयोजकमिति सिद्धान्तितम् ।। ___ अर्थकर्मत्वे च शेषित्वं प्रयोजकम् । तच्च चतुर्थीश्रुत्या मैत्रावरुणस्य बोध्यत इत्याह--*चतुर्थीश्रुत्येति । ननु यत्रदा-धातुरधीनीकरणाद्यर्थस्तत्राऽधीनत्वादिरूपफलनिरूपकतयेच्छाविषयत्वरूपसम्प्रदानत्वस्य रजकादावपि सम्भवात् "रजकाय वस्त्रं ददाति" "होत्रे उष्ट्रं ददाति" इत्यादिप्रयोगाः प्रसज्येरन्नित्याशङ्कामिष्टापत्त्या परिहरति--*रजकायेति । तत्र प्रमाणमुपन्यस्यति--*खण्डकोपाध्याय इति । *ददातीति । दाधात्वर्थसंयोगसम्बन्धित्वेनेच्छाविषयत्वरूपोद्देश्यत्वस्य तत्र सस्वादिति तद्भावः । अस्मिन् प्रयोगे ददातिः संयोगानुकूलव्यापाराऽर्थकः । चपेटापदार्थस्तु प्रसृतकरतलम् । “न शूद्राय मतिं दद्यात्" इत्यत्र ददातिर्बोधनार्थकः । मतिपदार्थश्च तज्जनकम्-वेदादिशास्त्रमिति बोध्यम् । *स्वस्वत्वनिवृत्तीति । परस्वत्त्वोत्पत्त्यवच्छिन्नस्वस्वत्वध्वंसेच्छारूपं व्यापारम् , अर्थ--दाधात्वर्थमित्यर्थः । तथाचोक्काऽर्थकदाधात्वर्थकर्मनिष्ठफलभागितयेच्छा. परीक्षा एव सम्प्रदानसंज्ञेति न नियमः, किन्त्वन्यत्रापि इत्याशयेनाह-*रजकायेति । अत्राधीनीकरणं दाधात्वर्थः । 'चपेटां ददाति, इत्यत्र चपेटा-करतलम् । दाधात्वर्थः कपोलादिसंयोगानुकूलो व्यापार आहुरित्यस्वरससूचनाय । स चोक्तभाष्यप्रामाण्यात्स. म्प्रदानशब्दस्यान्वर्थत्वे न मानम् , महासंज्ञाकरणं तु सर्वनामस्थानसंज्ञावत् प्राचामनुरोधादिति । 'अजां ग्रामं नयति' इत्यादौ अजादेर्निरुक्तोद्देश्यत्वसत्त्वात्प्राप्तापि सम्प्रदानसंज्ञा कर्मसंज्ञया बाध्यते। इदं सम्प्रदान “कर्मणा यमभिप्रैति" इति सूत्रसङ्केतितम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy