________________
सुबर्थनिर्णयः ।
१८७ इदमेव शेषित्वम् । तदुद्देश्यकेच्छाविषयत्वं चं शेषित्वमित्येव पूर्वतन्त्र निरूपितम् । अत एव "प्रासनवन्मत्रावरुणाय दण्डप्रदानम्" (अ०४पा०अ०६) इत्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रय
दर्पणः इत्थञ्च वृक्षवृत्त्युदकीयसंयोगाऽवच्छिन्नक्रियेत्यादिबोधः । ___ अत्र चतुर्थीद्वितीयाभ्यां तुल्यबोधजननात्तत्र द्वितीया माभूदिति सम्प्रदानसज्ञाऽनुशिष्यते । 'वृक्षं पयसा सिञ्चति' इत्यादौ तु वृक्षशब्दात् द्वितीया भवत्येव । तत्र तृतीयाऽर्थोऽभेदस्तस्य द्रवद्रव्येऽन्वयः। द्वितीयार्थवृत्तित्वस्य तु संयोगेऽन्वयः। तथा च-वृक्षवृत्तिसंयोगाऽनुकूलोदकाभिन्नद्रवद्रव्यक्रियेति बोधः।
'शत्रवेऽस्त्रं मुञ्चति' इत्यत्र दुःखोद्देश्यकत्वं चतुर्थ्यर्थः । मोचन विभागावच्छिन्नक्रिया, क्रियानुकूलव्यापारो वा प्रकृत्यर्थस्य वृत्तित्वेन चतुर्थ्यर्थकदेशे दुःखेऽन्वयः। एवं 'मित्राय दूतं प्रेषयति' इत्यत्र वार्तादानोद्देश्यकत्वम् 'पुत्राय धनं प्रेषयति' इत्यत्र प्रीत्युद्देश्यकत्वं चतुर्थ्यर्थ इत्याद्यूह्यमित्याहुः। .
तन्न सम्यक् । सम्प्रदाने हि चतुर्थी। न च भवदुक्तसम्प्रदानत्वे किञ्चिन्मानं, येन वृक्षायेत्यत्र चतुर्थी स्यात् । किञ्च संयोगरूपधात्वर्थान्वयित्वाऽविशेषादुदकपदादपि चतुर्थ्यापत्तिः । बाधकं कर्मत्वं तु वृक्षेऽप्यक्षतमिति न किञ्चिदेतत् । इदमेवेति । निस्क्तोदूदेश्यत्वमेवेत्यर्थः । पूर्वतन्त्रे-मीमांसायाम् । *अत एवेति* । शेषित्वस्याऽर्थकर्मप्रयोजकत्वादेवेत्यर्थः। . *प्रासनवदिति* । “प्रासनवन्मत्रावरुणाय दण्डप्रदानं कृतार्थत्वात्" इत्यधिकरणे। प्रासनदृष्टान्तश्चायं ज्योतिष्टोमे श्रूयते-"नीतासु दक्षिणासु चात्वाले कृष्णविषाणं प्रास्यति" इति । यदा यजमानेन दत्ता दक्षिणा ऋत्विग्भिर्नीतास्तदा यजमानः स्वहस्ते धृतं कृष्णमृगशृङ्ग चात्वालनामकगर्ने प्रक्षिपेदिति तदर्थः। तत्रैवं सन्दिह्यते । किमेतत् प्रासनमर्थकमेंति, प्रतिपत्तिकर्मेति वा, अर्थकमैव भवितुमर्हति । सप्रयोजनत्वात् । प्रतिपत्तिकर्मतायां तु अपूर्वाभावे निरर्थकमेव स्यादिति पूर्वपक्षे"कृष्णविषाणया कण्डूयति" इति श्रुत्या कृतार्थस्य प्रतिपत्त्यपेक्षत्वात् प्रतिपत्तिकर्मतैव युक्ता । न चानर्थक्यम् । प्रासनक्रियाप्रयुक्तापूर्वाभावेऽपि चात्वाल एवेति निय
परीक्षा - *इदमेव*-तादृशोद्देश्यत्वमेव । विप्रस्तादृशस्वत्वजन्यसुखादिवान् भवत्वितीचछादातुर्भवतीति विप्रस्य तादृशेच्छाविशेष्यत्वमेव शेषित्वम् । गवादेश्च तादृशेच्छाप्रकारकत्वमेव शेषत्वम् । इच्छाविषयत्वमित्यत्र विषयता प्रकारतारूपा पर्यवसन्ना। *पूर्वतन्त्रे-पूर्वमीमांसायाम् । कर्ता क्रियमाणं कर्म द्विविधम् । अर्थरूपं प्रतिपत्तिरूपं च । यनिरुक्तशेषित्वप्रयोज्यं कर्म तदर्थ कर्मेत्युच्यते । पदसङ्कीर्णतानिवर्तकं कर्म तत्प्रतिपत्तिकौत्युच्यते । *अत एव-निरुक्तोदेश्यत्वरूपशेषित्वस्यार्थकर्मप्रयोजकत्वादेव । *प्रासनवदिति । यथा नीतासु दक्षिणासु चात्वालनामकगर्ते विषाणं प्रास्यतीति शृङ्गक्षेपणं यथा प्रतिपतिकर्म भवतिः तद्वदण्डप्रदानमपि प्रतिपत्तिकमैव कुतो नेत्याशङ्कय द्वितीयापेक्षया बलीयस्या चतुर्थीश्रुत्याऽर्थकमेव न प्रतिपतिकर्मेति तन्निर्णीतमित्यर्थः । स्वस्वध्वंसविशिष्टपरस्वत्वानुकूलेच्छारूपदाधात्वर्थस्थल