SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १८६ दर्पण परीक्षासहिते भूषणासरे दर्पण: शेष्यकोऽभिप्रायः स सम्प्रदानमिति सूत्राऽर्थः । तादृशफलसम्बन्धिकप्रकारतानिरूपितविशेष्यताश्रय इति यावत् । 'विप्राय गां ददाति' इत्यादौ परस्वत्वजनकस्वस्वत्वध्वंसावच्छिन्नेच्छात्मकत्यागो दाधात्वर्थः । उद्देश्यत्वं चतुर्थ्यर्थः । गोरूपकर्मणश्चाऽऽश्रयत्वेन स्वत्वरूपफलेऽन्वयः । तथाच गोवृत्तिस्वत्वजनकस्वस्वत्वध्वं साऽनुकूलो विप्राऽभिन्नोद्देश्यकत्याग इति वैयाकरणमते बोधः । उद्देश्यत्वं च विप्रे गोजन्यस्वत्वभागितयेच्छाविषयत्वमेव । एवं 'वृक्षायोदकमा सिञ्चति' इत्यत्राप्युदकनिष्ठक्रियाजन्यसंयोगफलभागितयेच्छाविषयत्वात् सम्प्रदानत्वमूह्यम् । नैयायिकास्तु - परस्वत्वेच्छाधीनस्वसत्वध्वं सेच्छा त्याग इति मते स्वस्वत्वध्वंसावच्छिन्नत्यागो ददात्यर्थः । विशेष्यत्वं चतुर्थ्यर्थ्यः । तस्य स्वनिरूपकनिरुक्तेच्छाजन्यत्वसम्बन्धेन ददात्यर्थत्यागे गोरूपकर्मणस्त्वाधेयतया स्वस्वत्वध्वंसरूपफले । तथाच गोवृत्तिस्वस्वत्वध्वंसजनको निरुक्तसम्बन्धेन विप्रनिष्ठविशेष्यता विशिष्टो यस्त्यागस्तदाश्रयश्चैत्र इति वाक्याद् बोधः । यदि तु 'गौर्विप्रस्य भवतु न मम' इती च्छैव त्यागः । स च गवि स्वस्वत्वध्वंसमिव परस्वत्वमप्यवगाहते; तदा स्वस्वत्वध्वंसपूर्वक परस्वत्वोत्पत्यवच्छिन्नत्यागो दाधात्वर्थः । एवञ्च उक्तस्थले निरूपितत्वेने - च्छाविषयत्वं चतुर्थ्यर्थः । तस्य च स्वस्वत्वध्वंसेऽन्वयाद् विप्रनिरूपितत्वेन इच्छाविषयगोवृत्तिस्वस्वत्वध्वंस पूर्व कपरस्वत्वोत्पत्यवच्छिन्नत्यागाऽऽश्रय इति बोधः । जन्यस्वत्वस्य गोवृत्तित्वेऽवगतेऽर्थात्तस्मिस्तज्जन्यत्वं लभ्यते एवेति गोजन्यस्वत्वनिरूपकत्वेने च्छाविषयत्वरूपमुद्देश्यत्वं विप्रस्याऽक्षतम् । 'वृक्षायोदकमा सिञ्नति' इत्यत्र तु संयोगावच्छिन्नद्रवद्रव्यक्रियाऽवच्छिन्नव्यापारो धात्वर्थः । वृत्तित्वेने च्छाविषयत्वं चतुर्थ्यर्थः । स च धात्वर्थतावच्छेदकसंयोगाऽन्वयी । द्वितीयार्थवृत्तित्वं तु द्रवद्रव्य क्रियान्वयि । तथाच वृक्षवृत्तित्वे नेच्छाविषयो यः संयोगस्तदवच्छिन्नायोदकवृत्तिर्द्रवद्रव्यक्रिया तदवच्छिन्नव्यापारानुकूलकृतिमानितिबोधः । न चैवं सिच्धात्वर्थतावच्छेदकद्रवद्रव्यक्रियायां द्वितीयार्थवृत्तित्वान्वये पयसा वृक्षं सिञ्चति' इति न स्यात्, तादृशक्रियाया वृक्षावृत्तित्वादिति वाच्यम् । तत्र संयोगावच्छिन्नद्रवद्रव्य कियाया एव धात्वर्थतया तदवच्छेदकीभूतसंयोग एव वृक्षवृत्तित्वाऽन्वयान्नाऽनुपपत्तिरित्याहुः । अपरे तु - विजातीयत्यागजन्यफलभागितयोद्देश्यत्वं सम्प्रदानत्वं चतुर्थ्यर्थः । एवञ्च 'विप्राय गां ददाति' इत्यादौ त्यागजन्यफलभागित्वप्रकारक ब्राह्मणवृत्त्युद्देश्यताकगोविषयकत्यागाश्रय इति बोधः । रुद्राय गां ददातीत्यत्र रुद्रस्य त्यागजन्यफलभागितयोद्देश्यत्वमस्त्येव । स्वत्वं तु तस्य जायते न वेत्यन्यत् । त्यागजन्यं फलं तु स्वत्वरूपे ग्राह्यम् । तेन पितृस्वर्गमुद्दिश्य दत्तायां गवि ब्राह्मणस्य सम्प्रदानत्वोपपत्तिः । पितुः स्वत्वरूपं फलं नोद्देश्यं, किन्तु स्वर्ग: । 'पितृभ्यो दद्यात्' इत्यादौ तु 'रुद्राय गां ददाति इतिवत् सम्प्रदानत्वमस्त्येव । त्यागे वैजात्यनिवेशाच्च न कर्तुः सम्प्रदानत्वम् । 'वृक्षायोदकमा सिञ्चति' इत्यादौ तु चतुर्थ्यर्थं गौणसम्प्रदानत्वम् । तत्र सिचेद्रवद्रव्यवृत्तिसंयोगाऽनुकूला क्रिया । उदकादिपदसमभिव्याहारे च संयोगाऽनुकूलक्रियामात्रमर्थः । चतुर्थ्यर्थस्तु वृत्तित्वम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy