SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिणयः। १८५ उद्देश्यश्चतुर्थ्यर्थः । तथाहि-सम्प्रदाने चतुर्थी । तश्च “कर्मणा यमभिप्रेति स सम्प्रदानम्” (पासू०१।४।३२) इति सूत्रात् कर्मणाकरणभूतेन यमभिप्रैति-ईप्सति तत् कारकं सम्प्रदानमित्यर्थकादुद्देश्यम् । . दर्पणः चतुर्थ्यर्थं निरूपयति-*उद्देश्य इति । ननू द्देश्यत्वं कामनाविषयत्वं, तच्च 'विप्राय गां ददाति' इत्यत्र क्रियाजन्यफलभागितया कामनाविषये गवादावतिप्रसक्तमतस्तद्वयावृत्तम् , तत्सूत्रप्रामाण्येन दर्शयति-*तच्च कर्मणेत्यादि । कर्मणेत्यनन्तरम् , सम्बन्धुमिति शेषः । कर्म चाऽत्र पारिभाषिकम् । “कर्मणा यमभिप्रैति" (पा० सू०१ । ४ । ३२ ) इति क्रियाव्याप्यमानस्य सम्प्रदानसज्ञाविधानात् । अत एव तदकर्मकविषयम् । ननु 'प्रामं गच्छति' इत्यत्र ग्रामरूपकर्मजन्यसुखादिफलभागितयोद्देश्ये कर्तर्यप्यतिप्रसङ्गोऽत आह-*करणभूतेनेति । करणत्वं च सम्बन्धक्रियाऽपेक्षम् । क्रियाव्यवहितव्यापारवत एव करणतया व्यापारे कर्मवृत्तित्वलाभेन तवृत्तित्वस्य धात्वर्थतावच्छेदकफल एव सम्भवात् । कर्मवृत्तितज्जन्यत्वस्य ग्रामजन्यसुखे असत्त्वानोक्तातिप्रसङ्ग इति भावः । यमित्यस्यानुपादाने योऽभिप्रेतीत्यर्थस्थापि लाभात् प्रथमान्तकतर्यतिप्रसङ्गः स्यादतस्तदुपात्तम् । . यद्यपि 'गौर्ब्राह्मणस्य भवतु' इतीच्छाविशेष्यतया गामेवाऽवगाहते; तथापि तस्य सूत्रफलितार्थपरत्वान्न दोषः। तथाच-कर्मजन्यतवृत्तिफलभागित्वप्रकारको यद्वि . परीक्षा र्शनादर्थाध्याहा: "स्पृहेरीप्सित”सूत्रसत्वात्पदाध्याहारश्च क्लुप्तलक्ष्यानुरोधेन व्यवस्था कार्यो । चतुर्थीवाच्यो य उद्देश्यः स एव दर्शयस्तमाह-*तच्चेति । *यमभिप्रैति*-यमभिसम्बन्धुमिच्छति । एवं च क्रियाकर्मसम्बन्धजन्यफलवत्वेनेच्छाविविषयो यः स एवोद्देश्यपदेनोच्यते ; नत्विच्छाविषयमात्रम् । इच्छाविषयत्वस्य कर्मण्यपि सत्वात् । न च 'यः पुरुषो ग्रामं गच्छति, तस्य ग्रामसम्बन्धजन्यं सुखं मे जायताम्' इत्याकारेच्छावर्त्तत इति कर्तुरपि तादृशोद्देश्यत्वसत्त्वादतिव्यातिरिति वाच्यम् ? "कर्मणा" इति तृतीयोपादानेन कर्मणः करणत्वं लभ्यते, तत्र करणत्वमभिसम्बन्धक्रियां प्रति बोध्यम् । करणस्य च व्यापारत्त्वनियमादनुपस्थितस्य व्यापारस्य कल्पनापेक्षया कर्मत्वप्रयोजकफलस्य व्यापारत्वकल्पनालाघवमिति “धात्वर्थफलद्वारं कर्मजन्यत्वं लभ्यते, यथा-'विप्राय गां ददाति' इत्यत्र दाधात्वर्थः स्वस्वध्वंसविशिष्टपरसत्त्वानुकूलो व्यापारस्तत्र फले स्वस्वध्वंसविशिष्टपरस्वत्वं तदुद्वारा कर्मजन्यत्वं विप्रवृत्तिसुखस्य 'ग्रामं गच्छति' इत्यादौ तु न गम्धात्वर्थस्य संयोगस्य कर्त्तवृत्तिसुखं प्रति जनकत्वम् । अन्यथा सिद्धत्वात् । किन्तु ग्रामवासादेरित्यतिप्रसङ्गाभावात् । 'विप्राय गां ददाति' इत्यत्रोद्देश्यश्चतुर्थ्यर्थः । स्वस्वध्वंसविशिष्टेच्छा दाधा. त्वर्थः, गोपदोत्तरद्वितीयार्थः-आश्रयस्तस्य स्वस्वध्वंसविशिष्टे स्वत्वेऽन्वयः, इच्छैच व्यापारस्तस्मात् फलवैशिष्टयामनुकूलतासम्बन्धेनेति विप्रोद्देश्यिका गोवृत्तिस्वस्वध्वंसविशिष्टस्वत्वेच्छेति बोधः। २४ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy