SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८४ दर्पणपरीक्षासहिते भूषणसारेल्पितमपादानत्वं द्रष्टव्यम् । “पृथग्विना” इति पञ्चमी वा । इदञ्च निर्दिष्टविषयं किञ्चिदुपात्तविषयं तथा । अपेक्षितक्रियञ्चेति त्रिधाऽपादानमुच्यते ॥ इति वाक्यपदीयात् त्रिविधम् । यत्र साक्षाद्धातुना गतिनिदिश्यते; तन्निर्दिष्टविषयम् । यथाऽश्वात् पतति । यत्र धात्वन्तरा ऑङ्गं स्वार्थ धातुराह तदुपात्तविषयम् । यथा बलाहलाद् विद्योतते । निःसरणाने विद्योतने द्युतिर्वर्त्तते । अपेक्षिता क्रिया यत्र तदन्त्यम् । यथा कुतो भवान् , पाटलिपुत्रात् । अत्रागमनमर्थमध्याहत्यान्वयः कार्यः। दर्पणः नत्वाश्रयणे प्रमाणशैथिल्यं मत्वाऽऽह-*पृथगिति* । *साक्षादिति । मुख्यवृत्त्येत्यर्थः । धातुनेत्यस्य समभिव्याहृतेत्यादिः । *गतिरिति । विभागजनकक्रियेत्यर्थः । *उपात्तविषयमिति । समभिव्याहृतधातुनोपात्तोऽलक्षितो गतिरूपो यत्रेत्यर्थः । *अपेक्षितक्रियमिति । अनुपात्तधात्वर्थक्रियासाकाङ्क्षमित्यर्थः। ___ *अध्याहृत्येति । अर्थाध्याहाराभिप्रायेण । पदाध्याहारवादे तु आकाशितक्रियावाचकपदाऽनुसन्धानेऽप्यनुपात्तत्वरूपविशेषणघटितलक्षणस्यावैकल्यं बोध्यम् । प्रमाणं तत्र 'पुष्पेभ्यः स्पृहयति' इत्यादौ स्पृहयत्यादियोगे सम्प्रदानादिसज्ञाविधायकानि, "स्पृहेरीप्सितः" ( पा० सू०१ । ४ । ३६ ) इत्यादिसूत्राणि। तैस्तत्तद्धातुयोग एव तदूबोधनात् । अर्थाध्याहारे तु "क्रियार्थोपपदस्य" इत्यादिसूत्रे "ल्यब्लोप" इत्यादिवात्तिकानि च। अन्ये त्विदमित्थं व्याचक्षते-यत्र विभागस्तज्जनकक्रिया चोभयं धातुनाऽभिधीयते तदाद्यम् । यत्र विभागोऽध्याहृतधातुना तथा तद्वितीयम् । यत्र तूभयमप्यध्याहृतधात्वभिधेयं तत्तृतीयमिति । अधिकमन्यतोऽवधाय॑म् । परीक्षा पञ्चमी । बौद्धविश्लेषाकल्पनेऽपि पञ्चम्युपपत्तिमाह-*पृथग्विनेतीति । ___*इदञ्च*-अपादानञ्च । निर्दिष्टः*-शब्दाबोधितो। विषयो*, निरूपकार्थो यस्य सः। *उपात्तः* सममिव्याहृतधातुलक्ष्यो, *विषयो यस्य सः। *अपेक्षितक्रियमिति । अनुपात्तधात्वर्थक्रियासाकाङ्क्षमित्यर्थः । *अचात्पततीति । अत्र गतिविश्लेषजनिकाक्रिया साक्षाच्छक्त्या पत्-धातुना प्रतिपाद्यतेऽतो निर्दिष्टविषयस्यैतदुदाहरणम् । धात्वन्तरस्यार्थोऽङ्ग विशेषणं यस्य तादृशं स्वार्थ यत्र धातुराह-*तदुपात्तविषयम् । *बलाहका विद्योतत इति । अत्र निःसरणरूपो यः सधात्वर्थस्सोऽङ्गभूतो यस्य एतादृशो यो विद्योतनरूपोऽर्थस्तं विपूर्वको द्युत्-धातुः प्रतिपादयति, स्वाव्यवहितोत्तरत्वसम्बन्धेन निःसरणविशिष्टे विद्योतने द्युतिर्वर्त्तते । *कुतो भवानिति । अत्र कुत इति पञ्चमी दृश्यते । सा च क्रिया विशेषज्ञानं विना निराकांक्षार्थप्रतिपादिका । नेत्यपेक्षितक्रियमित्युच्यते। अर्थाध्याहारावादाभिप्रायेणेदम् । पदाध्याहारवादे तु साकांक्षक्रियावाचकानुपात्तपदकमिति बोध्यम् । "क्रयार्थोपपदस्य” इति सूत्रद
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy