SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सुबर्थनिर्णयः । जन्योपस्थितेर्हेतुत्वमिति समाधानाभासोऽप्यपास्तः । नचैवमपि 'वृक्षात् त्यजति' इतिदुर्वारम् । कर्मसंज्ञया अपादानसंज्ञाया बाधेन पञ्चम्यसम्भवात् । भ्रमात् कृते तथा प्रयोगे यदि बोधाभावोऽनुभवसिद्ध:, तर्हि पञ्चमीजन्यापादानत्वबोधे त्यज्यादि. भिन्नधातुजन्य बुद्धेर्हेतुत्वं वाच्यम् । 'बलाहकाद् विद्योतत विद्युत् ' इत्यादौ निःसृत्येत्यध्याहार्य्यम् । रूपं रसात् पृथगित्यत्र तु बुद्धिपरिक दर्पणः क्रियाजन्य विभागाश्रयत्वस्यैवेतदर्थक्रियाजन्यविभागाश्रयत्वस्यापि पञ्चमीनियामक - वे क्षतिविरहादित्यर्थः । चलतेर्गत्यर्थकत्वेऽपि राज्याच्चलित इति प्रयोगे विभागानुकूल क्रियापरत्ववत् स्यन्देरपि तदर्थत्वमुपगम्यापत्तेरिष्टत्वमिति भावः । जलमन्त्र क वृक्षस्यैव कर्तृत्वविवक्षायां तु परया कर्तृसंज्ञया बाधेनोक्तापत्तेरसम्भवादिति भावः । C १८३ *नचैवमपीति । एवमपि धात्वर्थविभागाऽऽश्रयत्वस्याऽपादानसंज्ञानियामकत्वेऽपीत्यर्थः । *दुर्वारमिति । धात्वर्थक्रियाजन्यविभागाऽऽश्रयत्वादिति भावः । *कर्मसंज्ञयेति । वृक्षस्य त्यजत्यर्थव्यापारजन्यविभागाश्रयत्वादिति भावः । पूर्वमतिप्रसङ्गः कर्तृसंज्ञामादायैवोक्तः । इदानीं तु कर्मसंज्ञामादाय प्राप्तः स निवारित इति बोध्यम् । *अनुभवसिद्ध इति । वस्तुतो विभागाsaधित्वस्य वृक्षेऽबाधात्तज्जन्यबोधस्य प्रमात्वमिष्टमेव । विभागाश्रयस्यैवाऽवधित्वोक्तेः । त्यजतेः पतत्यर्थे लक्षणाग्रहदशायां, वृक्षात् पर्णं त्यजतीति प्रयोगस्य प्रामाणिकत्वेन कारणतावच्छेदककोटौ त्यज्यादिभिन्नत्वस्य धात्वंशे निवेशयितुमशक्यत्वादित्यभिप्रेत्योक्तम्-*यदीति । *बलाहकादिति । धूममरुज्ज्योतिस्समूहो बलाहकः । ततोऽवयवभूतज्योतिषामेव विभागविवक्षणात् सोऽवधिः । युतिश्व लक्षणया निःसरणपूर्वकविद्योतनबोधकः । तथाच बलाहकाऽवधिकनिःसरणोत्तरका लिकं विद्युत्कक विद्यातनमिति बोधः । *निस्सृत्येति । निःसरणपूर्वके विद्योतने धातोवृत्तिमुपगम्य पञ्चम्युपपाद्येत्यर्थः । अत एवोपात्तविषयेऽस्याऽन्तर्भावो वक्ष्यमाणः सङ्गच्छते । *बुद्धिपरिकल्पितमिति । बौद्धविभागाऽवधित्वमाश्रित्येत्यर्थः । तादृशापादा परीक्षा द्यथाssसनाच्चलित इत्यादिप्रयोगस्तथा 'स्पदि किञ्चिच्चलन' इत्यभियुक्तोक्तेः । रूपन्देरपि तदर्थकत्वमुपगम्योक्तप्रयोगस्येष्टत्वादित्यर्थः । । विभागजनकव्यापारार्थकधातुयोगे चेत्पञ्चमी ; तदा वृक्षात्पततीति प्रयोगस्थापत्तिरिति शङ्कां वारयति - नचैवमिति । यदि बोधेति । वृक्षावधिकत्वस्य विभागे सत्वात् तादृशबोधस्य प्रमाणत्वमिष्टमेव । किञ्च त्यज्धातोर्यदा पतधात्वर्थशक्तिः, तत्र भ्रमोः लक्षणाग्रहो वा, तदा वृक्षात् त्यजतीत्यस्मात्तादृशशाब्दबोधस्य सर्वजनसिद्धृतया तादृशबोधाभावो नेत्याशयेन – यदीत्युक्तम् । विश्लेषजनकव्यापारवाचकधातुप्रयोगाभावे यत्र पञ्चमी दृश्यते, तत्रोपपत्तिमाह-*बलाहकादिति । निःसरणपूर्वकं द्योतनं द्युतधात्वर्थः । *रसात्पृथगिति । अत्र बौद्धसंश्लेषपूर्वको बौद्धो यो विश्लेषस्तदनुकूलव्यापारो रूपाश्रयको बौद्धः कल्पनीय इति भवत्येतादृशस्थले
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy