________________
१८२ दर्पणपरीक्षासहिते भूषणसारे
वस्तुतो नैतावत् पञ्चम्या वाच्यम् । किन्तु अवधेर्लक्षणमात्रम् । द्वितीयार्थोक्तरीत्या प्रयोगातिप्रसङ्गस्यासम्भवेन वाच्यकोटौ प्रवेशस्य गौरवेणाऽसम्भवादिति तु प्रतिभाति । न चैवमपि 'वृक्षात् स्पन्दत' इति स्यादिति शङ्कयम् । आसनाच्चलितो, राज्याच्चलित इतिवद् इष्टत्वात् । एतेन पञ्चमीजन्यापादानत्वबोधे सकर्मकधातु
दर्पणः 'परस्परस्मान्मेषावपसरत' इत्यादौ तु मेषपदवाच्यत्वावच्छेदेनैव कर्तृत्वविवक्षा, न परस्परवाच्यत्वावच्छेदेनेति, न पञ्चम्यनुपपत्तिरिति । __उक्ताऽपादानत्वस्य पञ्चमीवाच्यतावच्छेदकत्वे गौरवं मनस्याधायाह-*वस्तुत इति । *लक्षणमात्रमिति ॥ मात्रपदेन शक्यताऽवच्छेदकत्वव्यवच्छेदः। तथाच व्यावृत्यादिफलकं निरुक्ताऽवधित्वमेव । पञ्चम्यर्थस्तु विभामाश्रयमात्रमेवेति भावः । *द्वितीयार्थोक्तरीत्येति । चैत्रो ग्राम गच्छतीतिवच्चैत्रः स्वं गच्छतीति वारणाय परया कर्त्तसंज्ञया बाधादित्युक्तरीत्येत्यर्थः । नन्वेवं 'वृक्षात् पर्ण पतति' इत्यत्र पणेऽपि विभागाश्रयत्वस्यावैकल्यात् तदुत्तरं पञ्चम्यापत्तिरत आह-*अतिप्रसङ्गस्येति* । स्पन्द्यर्थप्रस्रवणजन्यविभागाश्रयत्वस्य वृक्षे सत्त्वादतिप्रसङ्गमाशय निषेधति*नचेति । एवमिति* । विभागाश्रयत्वमात्रस्याऽपादानसंज्ञानियामकत्वे इत्यर्थः । __ *स्यादिति । प्रस्रवणस्याऽधोदेशसंयोगाऽनुकूलद्रवद्रव्यक्रियारूपतया विभागस्य धात्वर्थाऽभावेन परमते आपत्त्यसम्भवादित्याशयः । *इष्टत्वादिति* । चलत्यर्थ
परीक्षा पञ्चम्यर्थविभागस्य तु जनकतासम्बन्धेन धात्वर्थक्रियायामन्वय इति लाघवादाह-वस्तुत इति*। *अवधेर्लक्षणमात्रमिति* । किन्त्ववधिः पञ्चम्यर्थ इति शेषः । अत एवाश्रयोऽवधिरित्यत्र पृथगुपादानं संगच्छते । अवधित्वमखण्डोपाधिरनुगतव्यव. हारात्। अवधौ प्रकृत्यर्थस्याभेदेन, अवधेश्च स्वनिष्ठावधितानिरूपकत्वसम्बन्धेन क्रियायामन्वयः, यत्र तु ग्रामस्यैवाधोदेशत्वं तत्र तु 'ग्रामं पतति पतङ्गः' इतीष्टमेव । अत एव 'नरकं पतित' इति विग्रहे 'नरकं पतित' इति समासो "द्वितीयाश्रित" इति सूत्रेण भवति । यत्र तु 'वृक्षादपसरति' इति प्रयोगस्तत्र विभागाश्रयत्वमानं धात्वर्थः, पञ्चम्यर्थस्तत्रावधिमात्रम् । तस्योक्तसम्बन्धेन विभागेऽन्वयः। न च 'परस्परान्मेषावपसरत' इति प्रयोगानुपपत्तिः। मेषस्य क्रियाश्रयत्वेन कर्त्तसंज्ञया अपादानसंज्ञाबाधा. दिति वाच्यम् । शब्दरूपोपाधिभेदेनाश्रयस्य भेदकल्पनया परस्परशब्दोपात्तस्य कर्त्तत्वाप्रसक्तः। ननु आश्रयोऽवधिविभागाश्रयादिपञ्चम्यर्थस्तदा विभागाश्रयत्वस्य पर्णेऽपि सत्त्वाद् वृक्षात्पतति पर्ण इतिवत्पर्णात्पतति पर्ण, इति प्रयोगापत्तिरिति चेत् ? आश्रयमानं नावधिः, किन्तु-आश्रयत्वव्याप्यो धर्मविशेष एवावधित्वेन विवक्षित इति पर्णात्पर्णः पततीति न प्रयोग इति विभाव्यताम् । प्रकारान्तरेणाप्युक्तप्रयोगापत्तिं वारयति--द्वितीयाक्तिति । परया कर्तृसंज्ञया बाधान्न तादृशप्रयोगापत्तिरिति भावः। एवम्-विभागाश्रयत्वस्यापादानसंज्ञानियामकत्वे । अयमतिप्रसङ्गो द्वितीयपने-अर्थः । मम पक्षे तु न तत्र विभागस्य धात्वर्थत्वमेव, पञ्चमीस्वी. कारात् । *इष्टत्वादिति । चलधातोविभागजनकक्रियार्थत्वमुफ्यम्यासनादेरवधित्वा